भाषा

ENहिગુ
ग्रंथ पाठ

सुमागधावदान · श्लोक 241-260

241

यदा भगवतैतत् सूत्रं भाषितं, तदा भिक्षवो भगवन्तम् एवम् आहुः: आश्चर्यं भगवन्न्, आश्चर्यं सुगत, यत् सुमागधया भगवन्तं कल्याणमित्रम् आगम्य बुद्धकार्यं कृतम् इति.

242

भगवान् आह: न भिक्षव एतर्ह्य् एव यथातीते ऽप्य् अध्वनि बुद्धं भगवन्तं कल्याणमित्रम् आगम्य काञ्चनमालया यद् बुद्धकार्यं कृतं, तच् छृणुत, साधु च सुष्ठु च मनसि कुरुते, भाषिष्ये.

243

भूतपूर्वं, भिक्षवो, ऽतीते ऽध्वनि विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि, तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्, स बाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिवदने मृगदावे.

244

तेन खलु पुनः समयेन कृकी नाम राजा बभूव.

245

तस्य दुहिता काञ्चनमालया शिरसि बद्धया जाता, तस्या मातापितृभ्यां काञ्चनमालेति नाम कृतम्.

246

सा उन्नीता वर्धिता महती संवृत्ता, राज्ञः कृकिन इष्टा कान्ता प्रिया मनापा संवृत्ता.

247

सा पञ्चशतपरिवारा भगवतो दर्शनायोपसंक्रान्ता, तस्या भगवता धर्मो देशितः.

248

तया तं धर्मं श्रुत्वा भगवतो ऽनितिके महान् चित्तप्रसाद उत्पन्नो, भगवांश् च तया यावज्जीवं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारः प्रचारितह्.

249

तेन खलु पुनः समयेन राज्ञा कृकिना दश स्वप्ना दृष्टाः:
(1) वातायनेन हस्ती निर्गतस्, पुच्छो लग्नः.
(2) तृषितय पृष्ठतः कूपो धावति.
(3) मुक्ताप्रस्थं शक्तुप्रस्थेन विक्रीयमाणं.
(4) चन्दनं काष्ठार्घेण समीक्रियमाणं.
(5) गन्धहस्तिनं कलभैर् वित्रास्यमानं.
(6) आरमं पुष्पफलसंपन्नम् अदत्तदायिभिर् अपह्रियमाणम्.
(7) अशुचिना म्रक्षितो मर्कटः परान् उपलिंप्यमानः.
(8) मर्कटस्य राज्याभिषेकः.
(9) पटो ऽष्टादशभिर् जनैर् आकृष्यते, न शीर्यते.
(10) महाजनकायश् चैकत्र संनिपत्य कलहभण्डनविग्रहविवादे नातिनामयति.

250

तं दृष्ट्वा च पुनर् भीतश् त्रस्तश् चिन्तयति: मा मे इतोनिदानं राज्याच् च्युतिर् भविष्यति जीवितस्य चान्तराय इति.

251

ततो राज्ञा स्वप्नाध्यायविदो ब्राह्मणान् आहूय स्वप्नान् निवेदितवान्.

252

ते काञ्चनमालां दृष्ट्वा कथयन्ति: राजन्, या ते सर्वजनप्रिया तस्या रुधिरेण यज्ञो यष्टव्यः, अन्त्रैर् नगरं वेष्टव्यम्, एवं देवस्य श्रेयो भविष्यति, स्वप्नान् दारुणान् दृष्ट्वा राज्यजीवितहारिणो ऽनेनोपायेन स्वस्तिर् देवस्य भविष्यति.

253

राजा संलक्षयति: सर्वजनप्रिया मे काञ्चनमाला, तां व्यापादयितुकामा ब्राह्मणा एवम् आहुः. वरं ममैव मरणं, न तु काञ्चनमालां व्यापादयिष्यामीति.

254

करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः, काञ्चनमालया दृष्टः. सा कथयति: किम् एवं चिन्तापरो, देव, इति. तेन स वृत्तान्तो विस्तरेण निवेदितः. सा कथयति: एष भगवान् काश्यपः सम्यक्संबुद्धो बाराणसीम् उपनिश्रित्य विहरति ऋषिवदने मृगदावे, तं भगवन्तं गत्वा पृच्छथ. यथा ते भगवान् व्याकरोति तथैवं धारय.

255

ततो राजा महता श्रीसमुदायेन काञ्चनमालया सार्धं बराणस्या निर्गत्य येन भगवांस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः, काञ्चनमालापि, अन्यानि च ब्राह्मणगृहपतिशतसहस्राणि.

256

अथ भगवान् कृकिनं राजानं धर्मया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति. अनेकपर्यायेण धर्मया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीं बभूव.

257

अथ कृकी राजा दश स्वप्नान् निवेद्यैवम् आह: मा मे, भगवंस्, ततोनिदानं राज्याच् च्युतिर् भविष्यति जीवितस्य चान्तराय इति.

258

भगवान् आह: मा भैषीस् त्वं, महारज, न तवेतोनिदानं राज्याच् च्युतिर् भविष्यतीति जीवितस्य चान्तरायः.
(1) यत् त्वं, महाराज, स्वप्नम् अद्राक्षीर्, वातायनेन हस्ती निर्गच्छन् पुच्छो लग्न इति, भविष्यत्य् अनागते ऽध्वनि वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धः, स सकलं बुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति. तस्य परिनिर्वृतस्य पश्चिमे काले अश्राद्धा ब्राह्मणगृहपतयस्, ते रुदन्तो ऽश्रुमुखान् बन्धून् उत्सृज्य प्रव्रज्य विहारेषु गृहसंज्ञाम् उत्पादयिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्.
(2) यत् त्वं पुनः स्वप्नम् अद्राक्षीस्, तृषितस्य पृष्ठतः कूपो धावति, तस्यैव श्रवका धर्मं देशयिष्यन्ति श्रद्धानां गृहपतीनां, ते सतृष्णा एव प्रक्रमिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्.
(3) यत् त्वं स्वप्नम् अद्राक्षीर्, मुक्ताप्रस्थेन शक्तुप्रस्थं क्रीयमाणम् इति, तस्यैव श्रावकाः शक्तुप्रस्थस्य हेतोर् इन्द्रियबलबोध्यङ्गानि संप्रकाशयिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्.
(4) यत् त्वं स्वप्नम् अद्राक्षीश्, चन्दनं काष्ठार्घेण समीक्रियमाणं, तस्यैव श्रावकास् तं तीर्थिकवाक्यम् अनुगृह्य सद्धर्मेण समीकरिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्.
(5) यत् त्वं स्वप्नम् अद्राक्षीर्, गन्धहस्ती कलभैर् वित्रास्यत इति, तस्यैव श्रावका असंयतास् ते शीलवन्तो भिक्षून् निष्काशयिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्.
(6) यत् त्वं स्वप्नम् अद्राक्षीर्, आरामां पुष्पफलसंपन्नं अदत्तादायिभिर् अपह्रियमाणं, तस्यैव श्रावका आर्यसंघस्य प्रतिपादितम् आरामं संघम् आलंबीकृत्य केचिद् अभावितकाया अभावितचित्ता अभावितप्रज्ञाः संघाद् आच्छिद्य पुष्पफलं स्वजनेभ्यो दास्यन्ति, तस्यैतत् पूर्वनिमित्तम्.
(7) यत् त्वं स्वप्नम् अद्राक्षीर्, अशुचिम्रक्षितो मर्कटः परान् उपलिंप्यतीति, तस्यैव श्रावका अभावितकाया अभावितचित्ता अभावितप्रज्ञा आत्मनापत्तिम् आपन्नाः श्राद्धानाम् अपि भिक्षूणाम् आपत्तिं व्यवस्थापयिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्.
(8) यत् त्वं स्वप्नम् अद्राक्षीर्, मर्कटस्य राज्याभिषेकः, तस्मिन् समये विकलेन्द्रिया अपि राजानो भविष्यन्ति, तस्यैतत् पूर्वनिमित्तम्.
(9) यत् त्वं स्वप्नम् अद्राक्षीः, पटो ऽष्टादशभिर् जनैर् आकृष्यते न च शीर्यत इति, तस्य परिनिर्वृतस्य शासनम् अष्टादशभेदभिन्नं भविष्यति, न च शक्यति विमुक्तिपटं पाटयितुं, तस्यैतत् पूर्वनिमित्तम्.
(10) यत् त्वं स्वप्नम् अद्राक्षीर्, महाजनकायश् चैकत्र संनिपत्य कलहभण्डेन विवादविग्रहेनातिनामयन्ति, तस्य शासने असंयता भिक्षवः कलहभण्डनविग्रहविवादेनान्तर्धापयिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्.
मा भैषीस् त्वं, महाराज, न तवेतोनिदानं राज्याच् च्युतिर् भविष्यति जीवितान्तरायो वा.

259

ततो भगवता तस्य राज्ञस् तस्य च महाजनकायस्य तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा चतुरशीत्या प्राणिशतसहस्रैः सत्यदर्शनं कृतम्.

260

काञ्चनमालया भगवन्तं कल्याणमित्रम् आगम्य बुद्धकार्यं कृतम्.

मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc