भाषा

ENहिગુ
ग्रंथ पाठ

सुमागधावदान · श्लोक 221-240

221

अद्राक्षुस् ते ऋषयो बुद्धं भगवन्तं द्वात्रिम्शता महापुरुषलक्षणैः समलंकृतम्, अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं, सूर्यप्रभातिरेकप्रभं, जङ्गमम् इव रत्नपर्वतम्, समन्ततो भद्रकं, हव्यावसिक्तम् इव हुतवहम्, काञ्चनभाजनस्थम् इव प्रदीपं, सुवर्णयूपम् इव श्रिया ज्वलन्तम्.

222

न तथा द्वादशवर्षाभ्यस्तः शमथचित्तस्य कल्यतां जनयति, राज्याभिनन्दिनो वा तत्प्रथमतो राज्याभिषेकः, अपुत्रस्य वा पुत्रप्रतिलम्भः, दरिद्रस्य वा निधिदर्शनं, यथावारोपितं कुशलमूलानां तत्प्रथमतो बुद्धदर्शनम्.

223

अथ ते ऋषयो येन भगवांस् तेनोपसंक्रान्ता, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते तस्थुः.

224

ततो भगवता तेषाम् ऋषीणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिका धर्मदेशना कृता, यां श्रुत्वा तैर् ऋषिभिर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतआपत्तिफलं साक्षात् कृतम्.

225

अथ ते ऋषयो बुद्धं भगवन्तं परिचार्य संप्रस्थिताः.

226

तेन खलु समयेन पुण्ड्रवर्धने नगरे ऽष्टादश द्वाराण्य् अबभूवन्.

227

अथ भगवत एतद् अभवत्: यद् अहं पश्चिमेन द्वारेण प्रवेक्ष्यामि, अन्यद्वारनिवासिनां नागराणाम् अन्यथात्वं भविष्यति, यन् न्व् अहम् अष्टादश बुद्धान् अभिनिर्माय स्वयं पश्चिमेन द्वारेण प्रवेशयम् इति.

228

अथ भगवान् अष्टादश बुद्धान् अभिनिर्माया स्वयं पश्चिमेन द्वारेण प्रविष्टः.

229

भगवतः पुरप्रवेशे एवंरूपाण्य् आश्चर्याण्य् अत्यद्भुतानि भवन्त्य् अन्यानि च: तद्यथोन्नतोन्नताः पृथिवीप्रदेशाः अवनमन्त्य् अवनताश् चोन्नमन्ति, अपगतपाषानशर्करकठल्या भवन्ति, नीचानि द्वाराण्य् उच्चीभवन्ति, संक्षिप्तानि विशालीभवन्ति, हस्तिनः कूजन्ति, अश्वा हेषन्ते, उष्ट्राः क्रोशन्ते, गावो रम्भन्ते, वृषभा नन्दन्ते, मयूराः केकायन्ते, गृहगतानि च विविधानि वाद्यभाण्डानि स्वयं नदन्ति, अन्धाश् चक्षूंसि प्रतिलभन्ते, बधिराः शृण्वन्ति, मूकाः प्रव्याहारसमर्था भवन्ति, परिभ्रष्टेन्द्रियविकला इन्द्रियाणि परिपूर्नाणि प्रतिलभन्ते, मद्यमदनाक्षिप्ता विमदी भवन्ति, विषपीता निर्विषा भवन्ति, अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते, गर्भिण्यः स्वस्तिना प्रसूयन्ते, बन्धनबद्धाः प्रमुच्यन्ते, अधना धनानि प्रतिलभन्ते.

230

एवंविधया विभूत्या प्रविश्य येन सुमागधाया निवेशनं तेनोपसंक्रान्तः.

231

अथ सुमागधा स्वयम् एव गोशीर्षचन्दनोदकेन भृङ्गारं पूरयित्वा भगवतः पादोदकम् अनुप्रयच्छति भिक्षुसंघस्य च.

232

ततः सुमागधा भगवतः पादयोर् निपत्यैवम् आह:
धन्यास् ते परवादिवादमथनं पश्यन्ति ये ते मुखं
विस्तीर्णे सदसि स्थितस्य वचनं शृण्वन्ति ये वा मुदा ।
लाभस् तस्य महान् भविष्यति च यः पादौ तव श्रीनिधेर्
मूर्ध्ना चैव करद्वयेन विनयात् संपीड्य वन्दिष्यते ॥

233

अथ भगवान् पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः, सुखोपविष्टं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्पयति संप्रवारयति.

234

अथ पुण्ड्रवर्धननिवासी जनकायो भगवन्तम् अपश्यंस् तद्गृहं भेत्तुम् आरब्धः. ततो भगवता तद्गृहं स्फटिकमयम् अभिनिर्मितं, यतः सर्वो महाजनकाय आदर्शनगतम् इव भगवन्तं भुञ्जमानं पश्यति भिक्षुसंघं च.

235

आह च.
स्फटिकमयम् अभूत् तद् एव रम्यं मणिकनकाक्षरत्नभक्तिचित्रं ।
स्थितम् इव पुरतो मुनीन्द्रचन्द्रं नगरजनो ऽपि निरीक्षते समग्रः ॥

236

प्रसादारोमाञ्चितसर्वगात्राः कृताञ्जलिं मूर्ध्नि निपात्य हस्तम् ।
नरा नमन्ति स्म मुनीन्द्रचन्द्रं सुरा इवेन्द्रं भवनोदरस्थम् ॥

237

अथ भगवान् कृतभक्तकृत्यः पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः.

238

ततः सुमागधाप्रमुखो ऽन्तर्जनकायस् ते च नागरास् ते च ऋषयस् ते च देवासुरगरुडयक्षगन्धर्वकिन्नरमहोरगा भगवन्तं परिवार्यावस्थिताः.

239

ततो भगवता तेषां च तादृशी चतुरार्यसत्यसंप्रवेधिकी धर्मदेशना कृता, यां श्रुत्वा कैश्चिच् छ्रोतआपत्तिफलं साक्षात् कृतं, कैश्चित् सकृदागामिफलं, कैश्चिद् अनागामिफलम्, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात् कृतं, कैश्चिद् ऊष्मगतानि कुशलमूलानि उत्पादितानि, कैश्चिन् मूर्धानः, कैश्चिन् मृदुमध्याधिमात्रक्षान्तयः, कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि, कैश्चित् प्रत्येकायां बोधौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ, कैश्चिच् छरणगमनानि गृहीतानि, कैश्चिच् छिक्षापदानि गृहीतानि.

240

यद् भूयसा सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता.

मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc