सुमागधावदान · श्लोक 261-270
किं मन्यध्वे, भिक्षवः यासौ काञ्चनमाला इयम् एव सा सुमागधेति.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त, काञ्चनमालया कर्म कृतं येनाढ्ये कुले प्रत्यजाता येन काञ्चनमालया शिरसि बद्धया जाता इति.
भगवान् आह: काञ्चनमालयैव, भिक्षवः, पूर्वम् अन्यासु जातिषु कर्माणि कृतानि उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि. काञ्चनमालयैव, भिक्षवः, कर्माणि कृतानि उपचितानि. को ऽन्यः प्रत्यनुभविष्यति. न, भिक्षवः, कर्माणि कृतान्य् उपचितानि बाह्यपृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधाताव्, अपि तूपात्तेषु एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च.
न प्रनश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥
भूतपूर्वम्, भिक्षवो, ऽतीते ऽध्वनि बाराणस्यां महानगर्याम् अन्यतमा दरिद्रा स्त्री, तया प्रत्येकबुद्धस्य चैत्ये नानाविचित्रां पलालमालां ग्रन्थयित्वा समारोप्य प्रसन्नचित्तया प्रणिधानं कृतम्.
अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्रयत्रोपपद्ये ऽहं तत्रतत्र काञ्चनमालया शिरसि बद्धया जायेयम् इति. किं मन्यध्वे, भिक्षवः. यासौ दरिद्रा स्त्री, इयम् असौ काञ्चनमाला. यद् अनया प्रसन्नचित्तया प्रणिधानं कृतं, तेन पञ्चजन्मशतानि काञ्चनमालया शिरसि बद्धया जाता.
पणद्वयं च तया पटान्तावबद्धं विमुच्यार्यसंघाय दत्तं; तेनाढ्येसु कुलेसु जाता प्रणिधानवशाच् चेति.
अथ भगवान् सुमागधाप्रमुखं पुण्ड्रवर्धननिवासिनं महाजनकायम् अभिप्रसाद्य प्रक्रान्तः, तथैव र्द्ध्या सार्धं भिक्षुसंघेन श्रावस्तीम् आगतः.
इति हि, भिक्षव, एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लो, व्यतिमिश्राणां व्यतिमिश्रः. तस्मात् तर्हि, भिक्षव, एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीय इति. तस्मात् तर्हि, भिक्षव, एवं शिक्षितव्यम्, यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्याम इत्य् एवं वो, भिक्षवः, शिक्षितव्यम्.
इदम् अवोचद् भगवान् आत्तमनास्, ते च भिक्षवो भगवतो भाषितम् अभ्यनन्दन्न् इति. सुमागधावदानं समाप्तम्.
मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0