भाषा

ENहिગુ
ग्रंथ पाठ

सुमागधावदान · श्लोक 201-220

201

अत्रान्तरेणायुष्मान् आनन्दः हंसक्रौञ्चमयूरशुकसारिकाकोकिलजीवंजीवकनादोपकूजितम् आरामम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.

202

तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं हंसक्रौञ्चमयूरशुकसारिकाकोकिलजीवंजीवकनादोपकूजितम् आरामम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.

203

सा कथयति: नायम् आर्य आनन्दः, अयं च भगवता इन्द्रियगुप्तद्वाराणाम् अग्रो निर्दिष्टः.

204

अयं च भगवतश् चतुर्भिर् अङ्गुलैर् ऊनः सुवर्णवर्णो द्वात्रिंशन्महापुरुषलक्षणैः समलंकृतः.

205

अनेन काश्यपस्य सम्यक्संबुद्धस्य स्तूपे मध्यमं छत्त्रम् आरोपितम्. तस्य कर्मणो विपाकेनार्धतृतीयानि चक्रवर्तिराज्यसहस्राणि; यद्य् एतर्हि न प्रव्रजितो ऽभविष्यद् एतर्हि अप्य् अनेन बलचक्रवर्तिराज्यम् अकरिष्यत्.

206

अयं च भगवता बलात् प्रव्रजितः. अयं च भगवतो मातृस्वसापुत्रो भ्राता भवति. स एषागच्छति. (18)

207

अत्रान्तरेनायुष्मान् राहुलश् चक्रवर्तिवेशम् अभिनिर्माय सप्तरत्नसमन्वागतश् चतुरशीत्या भटबलाग्रकोटिभिः समनुगम्यमानश् चतुरशीत्या नागसहस्रैर् उपोषधनागराजप्रमुखैश् चतुरशीत्याश्वसहस्रैर् बालाहकाश्वराजप्रमुखैर् चतुरशीत्या रथसहस्रैर् नन्दीघोषरथप्रमुखैर् अनेकैश् च पौरजानपदसहस्रैर् नानापटहशङ्खभेरीनिनादैर् उच्छ्रितध्वजपताकोपशोभितम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.

208

तं दृस्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता, यो ऽयं चक्रवर्तिवेशेनागच्छति.

209

सा कथयति: नायम् आर्यो राहुलो, ऽयं भगवता शिक्षकामानाम् अग्रो निर्दिष्टः.

210

भगवतः पुत्रो ऽयं पितुर् उज्झितां श्रियम् उद्द्योतमानः, सर्वचक्रवर्तिप्रतिविशिष्टतराम् ऋद्धिम् उपदर्शयन्न् उपरि विहायसा ऋद्ध्याकाशेनागच्छति.

211

आह च:
लक्ष्मीं लक्षणमालिनीं सुरुचिरां शक्रर्द्धिविस्पर्धनीं
नागानीकबलान्वितां सुमहतीं रत्नैर् वृतां सप्तभिः ।
कृत्वा बुद्धसुतो ऽभ्युपैति नभसा वेशं च राज्ञाम् अयं
नाम्ना राहुल इत्य् अवेति सुमहते सम्पूज्यमानः सुरैः ॥

212

भित्त्वोर्वीं जलवत् प्रयान्ति मुनयः केचित् सृजन्तो ऽनलं
रम्यतोयधरा इवाशु जगति स्पष्टं क्षरन्तो जलम् ।
शक्रब्रह्मकुबेरविग्रहधराश् चन्द्रार्कदैत्यत्विषो
लोकस्योदयकाङ्क्षिणो हि नभसा संप्रस्थिताः सूरताः ॥
स एषागच्छति. (19)

213

संप्रस्थितेसु भिक्षुसंघेसु अत्रान्तरेण तथागतप्रवेशः. भगवांस् तथारूपं समाधिं समापन्नो, यथासमाहिते चित्ते भगवतः कायाद् रश्मयो निश्चरन्ति, तद्यथा नीलपीतलोहितावदातमञ्जिष्ठस्फटिकवर्णः, यैर् अयं लोके उदारेणावभासेनावभासितो यावच् च श्रावस्तीं यावच् च पुण्ड्रवर्धनं नगरम्.

214

अत्रान्तरेण सर्वे लोका भगवन्तम् अभिनिष्क्रमन्तं पश्यन्ति, महांश् च पृथिवीचालो बभूव.

215

अथ ब्रह्मा सहांपतिर् भगवतश् चेतसा चित्तम् आज्ञाय सार्धं रूपावचरैर् देवैर् आगत्य भगवतो दक्षिणे पार्श्वे व्यवस्थितः.

216

शक्रो ऽपि देवानाम् इन्द्रः सार्धं कामावचरैर् देवैर् आगत्य वामे पार्श्वे व्यवस्थितः.

217

तुम्बुरुसुप्रियप्रमुखानि पञ्चमात्राणि गन्धर्वशतान्य् आगत्य भगवतो ऽग्रतो विविधैर् वाद्यगीतनृत्तविशेषैर् उपस्थानं कुर्वन्तो गच्छन्ति.

218

अनेकानि च देवताशतसहस्राणि पृष्ठतः पृष्ठतः समनुगच्छन्ति.

219

उपरिष्टाच् च भगवतो ऽप्सरसो दिव्यान्य् उत्पलपद्मकुमुदपुण्डरीकमान्दारवाणि पुष्पाणि, दिव्यान्य् अगरुचूर्णानि तगरचूर्णानि चन्दनचूर्णानि तमालपत्त्रचूर्णनि, दिव्यानि च वाद्यानि संप्रवादयन्ति, चैलविक्षेपांश् चाकार्षुह्.

220

तेन खलु पुनः समयेनान्यतरस्मिन् अरण्यायतने सप्त ऋषिसहस्राणि प्रतिवसन्ति.

मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc