भाषा

ENहिગુ
ग्रंथ पाठ

सुमागधावदान · श्लोक 1-20

1

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजामात्यैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैर् गन्धर्वैः किन्नरैर् महोरगैर् इति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे.

2

तेन खलु पुनः समयेन श्रावस्त्याम् अनाथपिण्डदो नाम गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी.

3

तेन सदृशात् कुलात् कलत्रम् आनीतम्. स तया सार्धं क्रीडति रमते परिचारयति. तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता. साष्टानां नवानां वा मासानाम् अत्ययात् प्रसूता.

4

दारिका जाता, अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता सा उन्नीता वर्धिता महती संवृत्ता, ज्ञातिभिर् अस्याः सुमागधेति नाम व्यवस्थापितम्.

5

पुण्ड्रवर्धने ऽपि च नगरे मूषिलो नाम गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी.

6

तस्य पुत्रो वृषभदत्तो नाम, सो ऽप्य् अभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः, स चान्यतीर्थ्यसंसर्गान् निर्ग्रन्थेष्व् अभिप्रसन्नो ऽभूत्.

7

यदा भगवतानुत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं तदा सर्वे ऽन्यतीर्थ्या भग्नाः पराजिताः प्रत्यन्तं समाश्रिताः, केचित् गौडिकं ग्रामं, केचित् पुण्ड्रवर्धनं नगरं, केचित् भद्रिकं नगरम्.

8

स च गृहपतिपुत्रो दैन्येनावतिष्ठते, स च निर्ग्रन्थैर् उच्यते: किम् अर्थं त्वं नो विवाहयसीति. स प्रोवाच: पत्नी मे सदृशी न विद्यते. त ऊचुर्: अनाथपिण्डदस्य दुहिता सुमागधा नामास्ति, सापि अभिरूपा दर्शनीया प्रासादिका जनपदकल्याणीसदृशी, तां प्रार्थयेति.

9

ततो ऽसौ सहश्रवणाद् एव तस्यां संरक्तचित्तो बभूव. यावद् अन्यतीर्थिकवेशं कृत्वानुपूर्वेण श्रावस्तीम् अनुप्राप्तः, पिण्डपात्रम् अनुविचरन्न् अनाथपिण्डदस्य गृहं प्रविष्टः. सुमागधा भिक्षां गृहीत्वा निर्गता. सा तेन दृष्टा. सहदर्शनाद् एवातीव संरक्तचित्तो बभूव. स भ्रान्तेन खोरकेन शक्तुं प्रतिगृह्नाति, मथितं च सिक्कायां.

10

ततः सुमागधा तम् असंवृतेन्द्रियं दृष्ट्वा प्रहसिता, आह च: असंप्रजाना इमे ऽन्यतीर्थ्या भिक्षां प्रतिगृह्णन्तीति. ततः सो ऽपि तया सह प्रहसितो भिक्षां गृहीत्वा प्रक्रान्तः.

11

ततः पुण्ड्रवर्धनं गत्वा पितुर् निवेदितवान्. तेन सा दारिका श्रावस्तीं गत्वा याचिता.

12

अनाथपिण्डदेन गृहपतिना भगवान् पृस्टः. भगवान् आह: गृहपते, प्रव्रजिताम् इदम् अकरणीयम्. अपि तु यदि सुमागधा पुण्ड्रवर्धनं यास्यति, तत्रापि बुद्धकार्यं करिष्यतीति.

13

ततो ऽनाथपिण्डदेन गृहपतिना सुमागधा महता श्रिसमुदयेन वृषभदत्ताय दत्ता, तेनापि स्वगृहं नीता.

14

यावद् अपरेण समयेन तस्मिन् गृहे निर्ग्रन्था भुञ्जते, सा श्वश्रुणोच्यते: दारिके, आगच्छ दक्षिणीयान् पश्येति.

15

तस्या बुद्धिर् अभवत्: नूनं स्थविरार्यशारद्वतीपुत्रमहामौद्गल्यायनार्यानन्दप्रभृतयो महाश्रावका उपनिमन्त्रिता इति. सा हृष्टतुष्टा निर्गता.

16

तया ते निर्ग्रन्थाः काकपक्षमलिना मलपटलवस्त्रा दुर्गन्धशरीरा नग्नाः प्रेतसदृशा दृष्ट्वा च पुनर् दुर्मनाः संवृत्ता.

17

सा श्वश्रुणोच्यते: दारिके, किमर्थं परिखिन्नासीति. सा प्रोवाच: आर्ये, यद्य् एवंविधा दक्षिनीयाः. पापकारिनः पुनः कीदृशा भवन्तीति.

18

सा कथयति: दारिके, ऽस्ति कश्चिद् एभ्यो ऽन्यः प्रतिविशिष्टतरः शास्ता लोके.

19

सा कथयति: अस्ति श्रावस्त्यां पितुर् मे विहारे स भगवान् उपेतो मातृतः पितृतः संशुद्धः, क्षत्रियो जात्या, राजकुलात् प्रव्रजितश् चक्रवर्तिवंशात्; उच्चात् कुलात् प्रव्रजितो ऽनूनात्. पुनर् अपरं, स भगवान् आढ्यात् कुलात् प्रव्रजितो ऽदीनात्. पुनर् अपरं, स भगवान् दहरस् तरुणः प्रत्यग्रयौवनसमन्वागतः.

20

यस्मिन् समये क्रीडाहर्षमण्डनविभूषणस्थानयोगम् अनुयुक्तेन विहर्तव्यम्, तस्मिन् समये ऽकामकानां ज्ञातीनाम् साश्रुकण्ठानां रुदन्मुखानां केशश्मश्रूण्य् अवतार्य काशायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजितः.

मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc