सुमागधावदान · श्लोक 181-200
अत्रान्तरेणायुष्मान् कप्फिणो विचित्ररत्नाचलम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं विचित्ररत्नाचलम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
सा कथयति: नायम् आर्यः कप्फिणो, यो ऽयं भगवता विगतमददर्पाणाम् अग्रो निर्दिष्टः.
यो ऽयं राजा महाकप्फिण एकस्मिन् समये अष्टादशामात्यसहस्रपरिवृतो मृगवधाय निर्गतः.
पुरस्तात् पृष्ठतश् च सर्वबलौघम् अवलोक्यामात्यान् आमन्त्रयते: अस्ति, भवन्तः, कस्यचिद् एवंरूपो बलौघस् तद्यथा ममैतर्हीति. ते कथयन्ति: देव, नान्यस्य कस्यचित्.
यावद् अनेन महाकप्फिणेन राज्ञा श्रावस्त्यादिषु षट्सु महानगरेषु दूतं प्रेषितम्: यद् व्युत्थिता भवथ नोपवेष्टव्यं, शीघ्रम् आगन्तव्यम्; अन्यथा चेद् उत्तमेन दण्डेन समनुशासिष्यामीति.
एतद् वचनम् उपश्रुत्य षण्महानगरवासिनो राजानो भीतास् त्रस्ताः संविग्नाः समागम्य श्रावस्तीं गत्वा भगवते एतद् वृत्तान्तं निवेदयन्ति.
भगवता ते समाश्वासिता, उक्ताश् च: स दूतो मत्सकाशम् आनेतव्य इति. तैर् दूतस्य निवेदितम्: अस्त्य् अस्माकम् राजाधिराजस्, तं तावत् पश्येति.
भगवता जेतवनम् चतूरत्नमयं निर्मितं देवानाम् इव सुदर्शनं नगरं चत्वारो महाराजा दौवारिकाः स्थापिताः, ऐरावतसदृशा हस्तिनो, बालाहकसदृशा, नन्दीघोषसदृशा रथा, व्याडयक्षसदृशा मनुष्याः, स्वयं च भगवांश् चक्रवर्तिवेशम् आत्मानम् अभिनिर्माय सप्ततालोद्गते महारत्नसिंहासने निषण्नाः.
दूतस् तथाविधां शोभां दृष्ट्वा परं विस्मयम् आपन्नः.
भगवता लेखं लिखयित्वाभिहितः: कप्फिणो मद्वचनाद् वक्तव्यो लेखवाचसमकलम् एव: यत् व्युत्थितो भवसि नोपवेष्टव्यं, शीघ्रम् आगन्तव्यम्, अथ नागच्छसि, अहम् एव महता बलौघेन सार्धम् आगमिष्यमीति.
दूतेन महाकप्फिणस्य तत् सर्वं संदिष्टं निवेदितम्.
अयं कप्फिणो राजाष्टादशामात्यसहस्रपरिवृतः श्रावस्तीम् अनुप्रवेश्य जेतवनं प्रविष्टः, सहदर्शनाद् अस्य यो रूपे रूपमद ऐश्वर्ये ऐश्वर्यमदः स प्रतिविगतः, बलदर्पो ऽद्यापि वध्यत एव.
ततो भगवता लौकिकं चित्तम् उत्पादितम्: अहो बत, शक्रो देवानाम् इन्द्र ऐन्द्रं धनुर् आदायागच्छेद् इति.
सहचित्तोत्पादाद् भगवतः शक्रो देवानाम् इन्द्रः सारथिवेशेनैन्द्रं धनुर् उपनामितवान्. ततो भगवता तद् धनुर् उपनामितम्. तद् उत्क्षेप्तुम् अपि न शक्नोति, कुतः पुनर् आरोपयितुम्.
ततो भगवता सप्तायोमय्यो भेर्यो निर्मिताः, स्वयम् एव तद् धनुर् अर्धचन्द्राकारेणारोप्य शरः क्षिप्तो येन सप्तायोमय्यो भेर्यश् छिद्रीकृतास्, ततः शब्दो निर्गतः.
आरभध्वम्, निष्क्रामत, युज्यध्वं बुद्धशासने ।
धूनीत मृत्युनः सैन्यं नडागारं इव कुञ्जरः ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यतीति ॥
स च शब्दो यावद् अकनिष्ठान् देवान् गतः, ततो ऽस्य यो ऽभूद् बलदर्पः स प्रतिविगतः.
ततो भगवतास्य चित्तम् आज्ञाय राजवेशम् अन्तर्धाप्य धर्मो देशितह्. येनाष्टादशामात्यसहस्रपरिवारेण यावच् छ्रोतआपत्तिफलं साक्षात् कृतवान्, ततो दृष्टसत्यश् च भगवतः शासने प्रव्रजितः. सो ऽयम् आगच्चति. (17)
मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0