सुमागधावदान · श्लोक 161-180
राजा ज्योतिष्कस्य मुखम् निरीक्ष्य कथयति: कुमार, सत्यम्. देव, सत्यम्. सप्तमो दिवसो वर्तते.
कुमार, कथं रात्रिः प्रज्ञायते दिवसो वा. देव, पुष्पाणां संविकोचविकासान्, मणीनां ज्वलनाज्वलनात्, शकुनीनां कूजनाकूजनात्; सन्ति तानि कुसुमानि यानि रात्रौ विकसन्ति न दिवा, सन्ति यानि दिवा विकसन्ति न रात्रौ; सन्ति ते मणयो ये रात्रौ ज्वलन्ति न दिवा, सन्ति ये दिवा ज्वलन्ति न रात्रौ; सन्ति ते शकुनयो ये रात्रौ कूजन्ति न दिवा, सन्ति ये दिवा कूजन्ति न रात्रौ. राजा परं विस्मयम् आपन्नः कथयति:
कुमार, अवितथवादी भगवान्, यथा त्वं भगवता व्याकृतः तथैव नान्यथेत्य् उक्त्वा ज्योतिष्कस्य गृहान् निष्क्रान्तः.
अजातशत्रुकुमारेण ज्योतिष्कसन्तको मणिर् अपहृत्य दारकस्य हस्ते दत्तः. तेन यत एव गृहीतस् तत्रैव गत्वावस्थितः.
अजातशत्रुः कथयति: दारकानय तं मणिम्, पश्यामीति. स मुष्टिं विघाट्य कथयति: कुमार, कुत्र, न जाने कुत्र गत इति.
स ताडयितुम् आरब्धः. ज्योतिष्कः कथयति: कुमार, किमर्थम् एनं ताडयसि. गृहपते, ऽहं चौर, एष महाचौरो, मया त्वदीयो मणिर् अपहृतः, सो ऽप्य् अनेनापहृत इति.
स आह: कुमार, न त्वयापहृतो, नाप्य् अनेनापि तु यत एव त्वया गृहीतस् तत्रैव गत्वावस्थितो; ऽपि तु, कुमार, स्वकं ते गृहं यावद्भिर् मणिभिर् अन्येन वा प्रयोजनम् तावद् गृहाण यथासुखम् इति.
स प्रतिभिन्नकः संलक्षयते: यदा पितुर् अत्ययाद् राजा भविष्यामि, तदा ग्रहीष्यामीति.
यदाजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः, स्वयम् एव च पट्टं बद्ध्वा राज्ये प्रतिष्ठितः, तदा तेन ज्योतिष्को ऽभिहितो: गृहपते, त्वं मम भ्राता भवति, गृहं भाजयाम इति.
एष सम्लक्षयति: येन पिता धार्मिको धर्मराजः प्रघातितः, स माम् मर्षयतीति. कुत एतन्. नूनम् अयं मद्गृहम् आगच्छतु, कामं प्रयच्छामीति विदित्वा कथयति: देव, बिभक्तम् एव. किम् अत्र विभक्तव्यम्. मदीयं गृहम् आगच्छ. अहं त्वदीयं गृहम् आगच्छामीति.
अजातशत्रुः कथयति: शोभनम्, एवम् कुरु. स तस्य गृहं गतः. एषो ऽपि अजातशत्रोर् गृहं गतह्. सा श्रीस् तस्माद् गृहाद् अन्तर्हिता यत्रैष ज्योतिष्कस् तत्रैव गता. एवं यावत् सप्त वारान् अन्तर्हिता प्रादुर्भूता च.
अजातशत्रुः संलक्षयते: एवम् अपि मया न शकितं ज्योतिष्कस्य मणीन् अपहर्तुम्, अन्यद् उपायं करोमि.
तेन धूर्तपुरुषाः प्रयुक्ता: गच्छत, ज्योतिष्कस्य गृहान् मणीन् अपहरतेति.
ते हि शिटाकर्कटकप्रयोगेनाभिरोढुम् आरब्धाः. ते ऽन्तःपुरिकया उपरिप्रासादतलगतया दृष्टाः, तया धूर्तधूर्तका इति नादो मुक्तः.
अनेन ज्योतिष्केन श्रुतम्, अनेनाशयतो वाग् निश्चरित: तिष्ठन्तु धूर्तका इति. तेषां यो यत्राभिरूढः, स तत्रैवास्थितः, यावत् प्रभाता रजनी संवृत्ता.
महाजनकायेन दृष्टास्, ते कथयन्ति: भवन्तो ऽनेन कलिराजेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपित, इदानीम् गृहाण्य् अपि मोषयति, तत् किं न मे मुषिष्यत इति. पुरक्षोभो जातः.
अजातशत्रुणास्य ज्योतिष्कस्य दूतो ऽनुप्रेषितो: मुञ्चत, ममायं खलीकार इति.
अनेन ज्योतिष्केनाशयतो वाग् निश्चारिता: गच्छन्तु धूर्तका इति. ते गताः.
अथैष ज्योतिस्कः संलक्षयते: येन नाम पिता जीविताद् व्यपरोपितः, स मां न प्रघातयिस्यतीति. कुत एतत्. सर्वथाहं भगवता व्याकृतो: मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात् करिष्यतीति. गच्छामि, प्रव्रजामीति.
अनेन सर्वं धनजातं दीनानथकृपणेभ्यो दत्तम्, अधनाः सधना व्यवस्थापिताः. स एषागच्छति. (16)
मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0