सुमागधावदान · श्लोक 141-160
अनेन राजा शुद्धोदनः शुक्लोदनो द्रोणोदनो ऽमृतोदनो धौतोदनश् च, गोपिकामृगजायशोधराप्रमुखानि षष्टिस्त्रीसहस्राणि बोधिसत्त्वविरहाच् छोकसागरनिमग्नास् ताभिस् ताभिः श्रुतिभिश् चित्तप्रह्लादनीभिर् विविधाभिर् वाग्भिः शोकं परित्याजितानि. सो ऽयम् आगच्छति. (15)
अत्रान्तरेणायुष्मान् ज्योतिःपालो मयूररथम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्य्काशेनागच्छति.
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं मयूररथम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
सा कथयति: नायम् आर्यो ज्योतिःपालो, ऽयं भगवता दिव्यमानुषीश्रियं त्याजयित्वा प्रव्राजितः.
अस्य स्नानशाटको ऽभ्यवकाशे शोषितो वायुनोह्यमानो राज्ञो बिम्बिसारस्योपरि पतितः. राजा कथयति: भवन्तो, राजार्हम् इदं वस्त्रं, कुत्र एतत्. ते कथयन्ति: देव, श्रूयते राज्ञो मान्धातस्य सप्ताहं हिरण्यवर्षः पतित इति, देवस्यापि वस्त्रवर्षः पतितुम् आरब्धो, नचिराद् हिरण्यवर्षः पतिष्यतीति.
राजा कथयति: भवन्तो ज्योतिष्को गृहपतिर् भगवता व्याकृतो दिव्यमानुषीश्रियं प्रत्यनुभविष्यतीति, इदं च दिव्यं वस्त्रम् आकाशात् पतितम्, स्थापयत, तस्यैवागतस्य दास्याम इति.
ते चैवम् आलापं कुर्वन्ति, अयं च राज्ञः सकाशम् आगतह्.
राजा कथयति: कुमार, त्वं भगवता व्याकृतो दिव्यमानुषीश्रियं प्रत्यनुभविष्यसीति, इदं च दिव्यं आकाशात् पतितम्, गृहाणेति.
तेन हस्तः प्रसारितः. देवानय पश्यामीति. स निरीक्षितुम् आरब्धो यावत् पश्यत्य् आत्मीयं स्नानशाटकम्.
स विपुष्प्य कथयति: देव, मदीयः स्नानशाटको ऽयं वायुनोपक्षिप्येहानीत इति.
राजा कथयति: कुमार, किं तव दिव्यमानुषी श्रीः प्रादुर्भूता. देव, प्रादुर्भूता. कुमार, यद्य् एवं किमर्थं मां न निमन्त्रयसे. देव, निमन्त्रितो भव. गच्छ, भक्तं सज्जीकुरु. देव, यस्य दिव्यमानुषी श्रीः प्रादुर्भूता, किं तेन सज्जीकर्तव्यम्. ननु सज्जीकृतम् एवागच्छेति.
स ज्योतिष्कस्य गृहं गत्वा बाह्यं परिजनं दृष्ट्वा इन्द्रियाण्य् उत्क्षिपति. ज्योतिष्कः कथयति: देव, किमर्थम् इन्द्रियाण्य् उत्क्षिपसीति. स कथयति: कुमार, वधूजनो ऽयम् इति कृत्वा. नायं वधूजनो, बाह्यो ऽयं परिजनः. स परं विस्मयम् आपन्नः.
पुनर् मध्यमं परिजनं दृष्ट्वा इन्द्रियाण्य् उत्क्षेप्तुम् आरब्धः. ज्योतिष्कः कथयति: देव, किमर्थम् इन्द्रियाण्य् उत्क्षिपसीति. राजा कथयति: कुमार, वधूजनो ऽयम् इति कृत्वा. देव, नायम् अपि वधूजनः, किंतु मध्यमो ऽयं परिजनह्. स भूयस्या मात्रया परं विस्मयम् आपन्नह्.
तत्र मध्यमायाम् द्वारशालायां मणिभिर् उपचिता भूमिः. तस्यां मत्स्या उदकपूर्णायाम् इव यन्त्रप्रयोगेनोपरिभ्रमन्तो दृश्यन्ते. राजा प्रवेष्टुकमो जलम् इति कृत्वा उपानहौ मोक्तुम् आरब्धः.
ज्योतिष्कः कथयति: देव, कस्यार्थे उपानहाव् अपनयसीति. कुमार, पानीयम् उत्तरितव्यम्. देव, नेदं पानीयम्, अपि तु मणिभूमिर् एषा. कुमार, इमे मत्स्या उपरिभ्रमन्तो दृश्यन्ते. देव, यन्त्रप्रयोगेनैते परिभ्रमन्ति. राजा न श्रद्दधाते तेनाङ्गुलिमुद्रा क्षिप्ता सा रणरणाशब्देन भूमौ पतिता. ततो राजा विस्मयम् आपन्नः.
प्रविश्य सिंहासने निषण्णः. ततो वधूजनः पादाभिवन्दक उपसंक्रान्तः. तासाम् अश्रुपातो जातः. राजा कथयति: कुमार, कस्माद् अयं वधूजनो रोदिति. देव, नायं रोदिति, किंतु देवस्य काष्ठधूपेन वस्त्राणि धूपितानि, तेनासाम् अश्रुपातो जात इति.
राजा तत्र तया दिव्यमानुषिकया श्रिया उपचर्यमाणो न निष्क्रामति; राजकृत्यानि राजकरणीयानि परिहातुम् आरब्धानि.
अमात्यैर् अजातशत्रुः कुमारो ऽभिहितः: कुमार, देवो ज्योतिष्कस्य गृहं प्रविश्य प्रमत्तः, गच्छ, निवेदयेति.
तेन गत्वा उक्तो: देव, किं त्वम् अत्र परिविश्यावस्थितो, राजकृत्यानि राजकरणीयानि परिहीयन्त इति.
राजा कथयति: कुमार, न शक्तो ऽसि त्वम् एकं दिवसं राज्यं कारयितुम्. देवो जानीते, ममैको दिवसः प्रविष्टस्यति. अद्य देवस्य सप्तमो दिवसो वर्तते.
मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0