सुमागधावदान · श्लोक 121-140
ज्ञातयः कथयन्ति: किं भवतु दारकस्य नामेति. अयम् दारकः कोटिमूल्यकरत्निकया कर्णिकया कर्णे आमुक्तिकया जातह्, श्रवणे नक्षत्रे जातस्, तस्माद् भवतु दारकस्य श्रोणः कोटीकर्ण इति नाम. स एषागच्छति. (12)
अत्रान्तरेणायुष्मान् श्रोनः कोटिविंशः नानापुष्पफलसंपन्नवनगहनम् अभिनिर्माय रजोध्वस्तायाम् पृथिव्याम् आकाशचङ्क्रमे चङ्क्रम्यमान उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
तं द्षृट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयम् ते स शास्ता यो ऽयं नानापुष्पफलोपेतम् वनगहनम् संश्रित्याकाशचङ्क्रमे चङ्क्रम्यमाणो ऽभ्यागच्छति.
सा कथयति: नायं शास्ता, आर्यो ऽयं श्रोणः कोटीविंशह्. अस्य जातमात्रस्य पित्रा विंशतिहिरण्यकोट्यः अवलेहिकामूल्ये ऽनुप्रदत्ता, अस्य दिने दिने पञ्चकार्षापणशतानि स्थालीपाकार्थे व्ययम् उपगच्छति.
आयुष्मता महामौद्गल्यायनेन चास्य सकाशात् पिण्डपात्रम् आदाय भगवते दत्तम्. यस्य गन्धेन सर्वं राजगृहं नगरम् आपूरितं पात्रावशेषं च राज्ञ बिम्बिसारेणास्वादितम्, आस्वाद्य च परं विस्मयम् आपन्नः कथयत्य्:
अहं भदन्त राजकुले जातः, राजा संवृत्तो, नाभिजानामि कदाचिद् एवंविधम् अन्नम् आस्वादितं पूर्वम्.
अस्य पादतले चतुरङ्गुलमात्राणि सुवर्णानि रोमानि जातानि.
अयं भगवतः सकाशं गन्तुकामः पृच्छति: किं भगवान् यानेन गच्छत्य् आहोस्वित् पद्भ्याम् इति. अपरे कथयन्ति: पद्भ्याम् इति. स एष कथयति: अहम् अपि पद्भ्यां गच्छामीति.
तस्य पौरुषेयैर् वस्त्राणि पृथिव्याम् आस्तीर्णानि. एष पृच्छति: किं भगवान् आस्तीर्णेन गच्छत्य् आहोस्विद् अनास्तीर्णेनेति. ते कथयति: नास्तीर्णेनेति. एष कथयति: अपनयत वस्त्राणि, अहम् अप्य् अनास्तीर्णेन गच्छामीति. तैर् अपनीतानि.
पुनर् अपराणि दूष्यवस्त्राणि पृथिव्याम् आस्तीर्णानि. एष पृच्छति: किं भगवान् दूष्यास्तीर्णेन गच्छत्य् आहोस्विद् अनास्तीर्णेन. ते प्राहुः: नास्तीर्णेनेति. एष आह: अपनयत दूष्याणि. तैर् अपनीतानि.
कुमार, पुण्यमहेशाख्यः. ततो ऽपराण्य् अमनुष्यानि दिव्यवस्त्राणि प्रादुर्भूतानि. एष दृष्ट्वाह: अपनयन्तु अमनुष्यवस्त्राणीति. तैर् अपनीतानी. अनेन पृथिव्यां पादो न्यस्तः. षड्विकारः पृथिवीकम्पो जातः.
भगवान् आह: इतो, भिक्षव, एकनवतिं कल्पम् उपादाय न कदाचिच् छ्रोणेण कोटीविंशेनानस्तीर्णे पृथिवीप्रदेशे पादो न्यस्तः. एतर्हि न्यस्तो धर्मगौरवात्, न तु पुण्यक्षयात्.
येनायं षड्विकारः पृथिवीकम्पो जातः. अयं भगवता आरब्धवीर्याणाम् अग्रो निर्दिष्टः. स एषागच्छति. (13)
अत्रान्तरेणायुष्मान् पिलिन्दवत्सो हंसरथम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे ऽयं ते स शास्ता यो ऽयं हंसरथेनागच्छति.
सा कथयति: नायम् आर्यो पिलिन्दवत्सो, ऽयं भगवता करुणाविहाराणाम् अग्रो निर्दिष्टः.
अनेन गङ्गाभिहिता: कुशलीतिष्ठेत्य्. अस्य वचनसमनन्तरम् एव गङ्गा स्थिता, अङ्कुशसंताडितेव द्विरदवधूर् न प्रहसति. सो ऽयम् आगच्छति. (14)
अत्रान्तरेणायुष्मान् उदायी अश्वरथम् अभिनिर्माय चतूरत्नोपशोभितं तत्रोपविष्ट, उपरि विहयसा ऋद्ध्याकाशेनागच्छति.
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयम् अश्वरथम् अभिनिर्माय चतूरत्नोपशोभितं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
सा कथायति: नायम् आर्य उदायी अयं भगवता कुलप्रसादकानाम् अग्रो निर्दिष्टः.
मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0