भाषा

ENहिગુ
ग्रंथ पाठ

सुखावतीव्यूह · भाग 2140

स्फटिकमयानि फलानि ; केषांचिद् आनन्द वृक्षाणां
लोहितमुक्तामयानि मूलान्य्, अश्मगर्भमयाः स्कन्धाः, सुवर्णमया
विटपा, रौप्यमया शाखा, वैडूर्यमयाणि पत्त्राणि,
स्फटिकमयानि पुष्पाणि, मुसारगल्वमयानि फलानि ; केषांचिद्
आनन्द वृक्षाणाम् अश्मगर्भमयानि मूलानि, सुवर्णमयाः
स्कन्धा, रौप्यमया विटपा, वैडूर्यमयाः शाखाः,
स्फटिकमयानि पत्त्रानि, मुसारगल्वमयानि पुष्पाणि,
लोहितमुक्तामयानि फलानि ; केषांचिद् आनन्द वृक्षाणां
सप्तरत्नमयानि मूलानि, सप्तरत्नमयाः स्कन्धाः, सप्तरत्नमया
विटपाः, सप्तरत्नमयाः शाखाः, सप्तरत्नमयानि
पत्त्राणि, सप्तरत्नमयानि पुष्पानि, सप्तरत्नमयानि फलानि.
सर्वेषां चानन्द तेषां वृक्षाणां मूलस्कन्धविटपशाखा-
पत्त्रपुष्पफलानि मृदूनि सुखसंस्पर्शानि सुगन्धीनि ; वातेन
प्रेरितानां च तेषां वल्गुमनोज्ञनिर्घोषो निश्चरत्य्,
असेचनको ऽप्रतिकूलः श्रवणाय.
एवंरूपैर् आनन्द सप्तरत्नमयैर् वृक्षैः संततं तद्
बुद्धक्षेत्रं समन्ताच् च कदलीस्तम्भैः सप्तरत्नमयै
रत्नतालपण्क्तिभिश् चानुपरिक्षिप्तं, सर्वतश् च हेमजालप्रतिच्छन्नं,
प्33
समन्ततश् च सप्तरत्नमयैः पद्मैः संच्छन्नं.
सन्ति तत्र पद्मान्य् अर्धयोजनप्रमाणानि, सन्ति
योजनप्रमाणानि, सन्ति द्वित्रिचतुःपञ्चयोजनप्रमाणानि,
सन्ति यावद् दशयोजनप्रमाणानि. सर्वतश् च रत्नपद्मात्
षट्त्रिंशद्रश्मिकोटीसहस्राणि निश्चरन्ति. सर्वतश् च
रश्मिमुखात् षट्त्रिंशद्बुद्धकोटीसहस्राणि निश्चरन्ति ; सुवर्ण-
वर्णैः कायैर् द्वात्रिंशन् महापुरुषलक्षणधरैर्,
यानि पूर्वस्यां दिश्य् अप्रमेयासंख्येयासु लोकधातुषु
गत्वा, सत्त्वेभ्यो धर्मं देशयन्ति. एवं दक्षिणपश्चिमोत्तरासु
दिक्ष्व् अध ऊर्ध्वम् अनुविदिक्षु चानावरणे लोके
ऽप्रमेयासंख्येयांल् लोकधातून् गत्वा, सत्त्वेभ्यो धर्मं
देशयन्ति.
तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे सर्वशः कालपर्वता
न सन्ति, सर्वतो रत्नपर्वताः. सर्वशः सुमेरवः
पर्वतराजानः, सर्वशश् चक्रवाडमहाचक्रवाडाः पर्वत-
राजानो, महासमुद्राश् च न सन्ति. समन्ताच् च तद्
बुद्धक्षेत्रं समं रमणीयं पाणितलजातं नानाविध-
रत्नसंनिचितभूमिभागम्.
एवम् उक्त आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् : ये
पुनस् ते भगवंश् चातुर्महाराजकायिका देवाः सुमेरुपार्श्व-
निवासिनस् त्रायस्त्रिंशा वा सुमेरुमूर्ध्नि निवासिनस्, ते

कुत्र प्रतिष्ठिताः. भगवान् आह : तत् किं मन्यसे, आनन्द,
ये त इह सुमेरोः पर्वतराजस्योपरि यामा देवास्, तुषिता
देवा, निर्माणरतयो देवाः, परनिर्मितवशवर्तिनो देवा,
ब्रह्मकायिका देवा, ब्रह्मपुरोहिता देवा, महाब्रह्मणो
प्34
देवा, यावद् अकनिष्ठा देवाः, कुत्र ते प्रतिष्ठिता इति. आह :
अचिन्त्यो भगवन् कर्माणां विपाकः, कर्माभिसंस्कारः.
भगवान् आह : लब्धस् त्वयानन्देहाचिन्त्यः कर्माणां
विपाकः, कर्माभिसंस्कारो ; न पुनर् बुद्धानां भगवताम्
अचिन्त्यं बुद्धाधिष्ठानम्. कृतपुण्यानां च सत्त्वानाम्
अवरोपितकुशलमूलानां तत्राचिन्त्या पुण्या विभूतिः. आह :
न मे ऽत्र भगवन् काचित् कांक्षा वा, विमतिर् वा,
विचिकित्सा वा. अपि तु खल्व् अहम् अनागतानां सत्त्वानां
कांक्षाविमतिविचिकित्सां निर्घाताय तथागतम् एतम् अर्थं
परिपृच्छामि. भगवान् आह : साधु साध्व् आनन्दैवं ते
करणीयम्.
तस्यां खल्व् आनन्द सुखावत्यां लोकधातौ नानाप्रकारा
नद्यः प्रवहन्ति. सन्ति तत्र महानद्यो योजनविस्ताराः.
सन्ति यावद् विंशतित्रिंशतिचत्वारिंशत्पञ्चाशद्, यावद् योजन-
शतसहस्रविस्ताराः, द्वादशयोजनावेधाः ; सर्वाश् च नद्यः
सुखवाहिन्यो, नानासुरभिगन्धवारिवाहिन्यो,
नानारत्नलुडितपुष्पसंघातवाहिन्यो, नानामधुरस्वरनिर्घोषाः.
तासां चानन्द कोटीशतसहस्राङ्गसंप्रयुक्तस्य
दिव्यसङ्गीतिसंमूर्च्छितस्य तूर्यस्य कुशलैः संप्रवादितस्य,
तावन् मनोज्ञनिर्घोषो निश्चरति. यथारूपस् तासां महा-
नदीनां निर्घोषो निश्चरति, गम्भीर, आज्ञेयो, विज्ञेयो, ऽनेलः
कर्णसुखो हृदयंगमः, प्रेमणीयो, वल्गुमनोज्ञो,
ऽसेचनको ऽप्रतिकूलः, श्रवणीयो, ऽचिन्त्यशान्तम् अनात्मेति सुखश्रवणीयो,
प्35
यस् तेषां सत्त्वानां श्रोत्रेन्द्रियानां भासम्
आगच्छन्ति.
तासां खलु पुनर् आनन्द महानदीनाम् उभयतस्
तीराणि नानागन्धवृक्षैः संततानि, येभ्यो नानाशाखापत्त्र-
पुष्पमञ्जर्यो ऽवलंबन्ते. तत्र ये सत्त्वास् तेसु नदीतीरेष्व्
आकांक्षन्ति, दिव्यां निरामिषां रतिक्रीडां चानुभवितुं,
तेषां तत्र नदीष्व् अवतीर्णानां आकांक्षतां गुल्फमात्रं
वारि संतिष्ठन्ते ; आकांक्षतां जानुमात्रं कटीमात्रं
कक्षमात्रम्, आकांक्षतां कण्ठमात्रं वारि संतिष्ठन्ते ;
दिव्याश् च रतयः प्रादुर्भवन्ति. तत्र ये सत्त्वा आकांक्षन्ति :
शीतं वारि भवत्व् इति, तेषां शीतं भवति ; ये आकांक्षन्त्य् :

उष्णं भवत्व् इति, तेषाम् उष्णं भवति ; ये आकांक्षन्ति :
शीतोष्णं भवत्व् इति, तेषां शीतोष्णम् एव तद् वारि
भवत्य् अनुसुखम्.
ताश् च महानद्यो दिव्यतमालपत्त्रागरुकालानुसारितगरोरग-
सारचन्दनवरगन्धवासितवारिपरिपूर्णाः प्रवहन्ति ;
दिव्योत्पलपद्मकुमुदपुण्डरीकसौगन्धिकादिपुष्पसंच्छन्ना,
हंससारसचक्रवाककारण्डवशुकसारिकाकोकिलकुणाल-
कलविङ्कमयूरादिमनोज्ञस्वरतथागताभिनिर्मितपक्षि-
संघनिषेवितपुलिना, धातुराष्ट्रोपशोभिताः, सूपतीर्था,
विकर्दमाः, सुवर्णवालिकासंस्तीर्णाः. तत्र यदा ते सत्त्वा
आकांक्षन्ति : ईदृशा अस्माकम् अभिप्रायाः परिपूर्यन्ताम् इति,
तदा तेषां तादृशा एवाभिप्राया धर्म्याः परिपूर्यन्ते. यश्
प्36
चासाव् आनन्द तस्य वारिणो निर्घोषस् तावद् मनोज्ञो निश्चरति,
येन सर्वावत् तद् बुद्धक्षेत्रम् अभिज्ञाप्यते. तत्र ये
सत्त्वा नदीतीरेषु स्थिता आकांक्षन्ति : मास्माकम् अयं शब्दः
श्रोत्रेन्द्रियाभासम् आगच्छन्न् इति, तेषां स दिव्यस्यापि श्रोत्रेन्द्रियस्याभासं
नागच्छति. यश् च यश् च यथारूपं
शब्दम् आकांक्षन्ति श्रोतुं, स तथारूपम् एवं मनोज्ञं
शब्दं शृणोति ; तद् यथा ; बुद्धशब्दं, धर्मशब्दम्,
संघशब्दं, पारमिताशब्दं, भूमिशब्दं, बलशब्दं,
वैशारद्यशब्दम्, आवेणिकबुद्धधर्मशब्दम्, अभिज्ञाशब्दम्,
प्रतिसंविच्छब्दं शून्यतानिमित्ताप्रणिहितानभिसंस्कार-
अजातानुत्पादाभावनिरोधशब्दं, शान्तप्रशान्तोपशान्त-
शब्दं, महामैत्रीमहाकरुणामहामुदितामहोपेक्षाशब्दम्,
अनुत्पत्तिकधर्मक्षान्त्यभिषेकभूमिप्रतिलम्भशब्दं च
शृणोति. त एवंरूपांश् छब्दांश् छ्रुत्वोदारप्रीतिप्रामोद्यं
प्रतिलभन्ते, विवेकसहगतं, विरागसहगतं,
शान्तसहगतं, निरोधसहगतं, धर्मसहगतं, बोधि-
परिनिष्पत्तिकुशलमूलसहगतं च.
सर्वशश् चानन्द सुखावत्यां लोकधाताव् अकुशलशब्दो
नास्ति ; सर्वशो नीवरणशब्दो नास्ति ; सर्वशो ऽपायदुर्गतिविनिपात-
शब्दो नास्ति ; सर्वशो दुःखशब्दो नास्ति ; अदुःखासुख-
वेदनाशब्दो ऽपि तावद् आनन्द तत्र नास्ति ; कुतः पुनर्
दुःखं दुःखशब्दो वा भविष्यति.
प्37
तद् अनेनानन्द पर्यायेण सा लोकधातुः सुखावत्य्
उच्यते संक्षिप्तेन, न पुनर् विस्तरेण. कल्पो ऽपि परिक्षयं
गच्छेत्, सुखावत्यां लोकधातौ सुखकारणेषु परिकीर्तयमानेषु ;
न त्व् एव शक्यं तेषां सुखकारणानां

पर्यन्तो ऽधिगन्तुम्.
तस्यां खलु पुनर् आनन्द सुखावत्यां लोकधातौ ये
सत्त्वाः प्रत्याजाताः प्रत्याजनिष्यन्ते वा, सर्वे त एवंरूपेण
वर्णेन, बलेन, स्थाम्नारोहपरिणाहेनाधिपत्येन, पुण्य-
संचयेनाभिज्ञाभिर् वस्त्राभरणोद्यानविमानकूटागार-
परिभोगैर्, एवंरूपशब्दगन्धरसस्पर्शापरिभोगैर्,
एवंरूपैश् च सर्वोपभोगपरिभोगैः समन्वागताः ; तद्
यथापि नाम देवाः परनिर्मितवशवर्तिनः.
न खलु पुनर् आनन्द सुखावत्यां लोकधातौ सत्त्वा
औदारिकं कवडीकाराहारम् आहरन्ति. अपि तु खलु पुनर्
यथारूपम् एवाहारम् आकांक्षन्ति, तथारूपम् आहृतम् एव
संजानन्ति. प्रीणितकायाश् च भवन्ति, प्रीणितगात्राः. न
तेषां भूयः काये प्रक्षेपः करणीयः. ते प्रीणितकायास्
तथारूपानि गन्धजातान्य् आकांक्षन्ति, तादृशैर् एव
गन्धजातैर् दिव्यैस् तद्-बुद्धक्षेत्रं सर्वम् एव निर्धूपितं
भवति. तत्र यस् तं गन्धं नाघ्रातुकामो भवति,
तस्य सर्वशो गन्धसंज्ञावासनापि न समुदाचरति. एवं
ये यथारूपाणि गन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वज-
पताकातूर्याण्य् आकांक्षन्ति, तेषां तथारूपैर् एवं तैः
सर्वं तद्-बुद्धक्षेत्रं परिस्फुटं भवति.
ते यादृशानि चीवराण्य् आकांक्षन्ति नानावर्णान्य् अनेकशत-
प्38
सहस्रवर्णानि, तेषां तादृशैर् एव चीवररत्नैः समं तद्-
बुद्धक्षेत्रं परिस्फुटं भवति ; प्रावृतम् एव चात्मानं
संजानन्ति.
ते यथारूपाण्य् आभरणान्य् आकांक्षन्ति, तद् यथा : शीर्षाभरणानि
वा, कर्णाभरणानि वा, ग्रीवहस्तपादाभरणानि
वा, यद् इदं : मकुटानि, कुण्डलानि, कटकां, केयूरां,
वत्सहारां, रूचकहारां, कर्णिका, मुद्रिकाः, सुवर्णसूत्राणि
मेखलाः, सुवर्णजालानि, सर्वरत्नकंकणीजालानि, ते तथारूपैर्
आभरणैर् अनेकरत्नशतसहस्रप्रत्युप्तैः स्फुटं
तद्-बुद्धक्षेत्रं पश्यन्ति स्म. यद् इदम् : आभरणवृक्ष-
वस्त्रैस् तैश् चाभरणैर् अलंकृतम् आत्मानं संजानन्ति.
ते यादृशं विमानम् आकांक्षन्ति, यद् वर्णलिङ्गसंस्थानं,
यावद् आरोहपरिणाहो, नानारत्नमयनिर्यूहशत-
सहस्रसमलंकृतं, नानादिव्यदूष्यसंस्तीर्णं, विचित्रोपधान-
विन्यस्तरत्नपर्यङ्कं, तादृशम् एव विमानं तेषां
पुरतः प्रादुर्भवति. ते तेषु मनोभिनिर्वृतेषु विमानेषु
सप्ताप्सरःसहस्रपरिवृताः पुरस्कृता विहरन्ति, क्रीडन्ति
रमन्ते परिचारयन्ति.

न च तत्र लोकधातौ देवानां मनुष्याणां वा नानात्वम्
अस्ति, अन्यत्र संवृतिव्यवहारेण देवा मनुष्या वेति संख्यां
गच्छति. तद् यथानन्द, राज्ञश् चक्रवर्तिनः पुरतो
मनुष्यहीनो मनुष्यषण्डको न भासते, न तपति, न विरोचते,
न भवति विशारदो, न प्रभास्वर, एवम् एव देवानां
परनिर्मितवशवर्तिनां पुरतः शक्रो देवेन्द्रो न भासते,
प्39
न तपति, न विरोचते, यद् इदम् : उद्यानविमानवस्त्राभरणैर्,
आधिपत्येन वा, र्द्ध्या वा, प्रातिहार्येण वैश्वर्येण
वा ; न तु खलु पुनर् धर्माभिसमयेन धर्मपरिभोगेन
वा. तत्रानन्द यथा देवाः परनिर्मितवशवर्तिन
एवं सुखावत्यां लोकधातौ मनुष्या द्रष्टव्याः.
तस्यां खलु पुनर् आनन्द सुखावत्यां लोकधातौ पूर्वाह्न-
कालसमये प्रत्युपस्थिते, समन्ताच् चतुर्दिशम् आकुल-
समाकुला वायवो वान्ति, येनात्र रत्नवृक्षांश् चित्रान्, दर्शनीयान्,
नानावर्णान्, अनेकवर्णान्, नानासुरभिदिव्यगन्धपरिवासितान्
क्षोभयन्ति, संक्षोभयन्ति, ईरयन्ति, समीरयन्ति ;
यतो बहूनि पुष्पशतानि तस्यां रत्नमय्यां पृथिव्यां
प्रपतन्ति मनोज्ञगन्धानि दर्शनीयानि. तैश् च पुष्पैस्
तद्बुद्धक्षेत्रं समन्तात् सप्तपौरुषं संस्कृतं रूपं
भवति. तद् यथापि नाम कश्चिद् एव पुरुषः कुशलः
पृथिव्यां पुष्पसंस्तरं संस्तृणुयाद्, उभाभ्यां
पाणिभां समं रचयेत् सुचित्रं दर्शनीयम्, एवम् एतद्
बुद्धक्षेत्रं तैः पुष्पैर् नानागन्धवर्णैः समन्तात्
सप्तपौरुषं स्फुटं भवति. तानि च पुष्पजातानि मृदूनि
काचलिन्दिकसुखसंस्पर्शान्य् ; औपम्यमात्रेण यानि निक्षिप्ते
पादे चतुरङ्गुलम् एव नमन्त्य्, उत्क्षिप्ते पादे चतुरङ्गुलम्
एवानमन्ति. निर्गते पुनः पूर्वाह्नकालसमये, तानि पुष्पानि
निरवसेषम् अन्तर्धीयन्ते.
अथ तद्-बुद्धक्षेत्रं विविक्तं, रम्यं, शुभं
भवत्य्, अपरिक्लिष्टैस् तैः पूर्वपुष्पैः. ततः पुनर्
अपि समन्ताच् चतुर्दिशं वायवो वान्ति, ये पूर्ववद् अभिनवानि
पुष्पाण्य् अभिप्रकिरन्ति. यथा पूर्वाह्न एव मध्याह्ने,
प्40
ऽपराह्ने कालसमये, संध्यायां, रात्र्याः प्रथमे
यामे, मध्यमे पश्चिमे च यामे. तैश् च वातैर् वायद्भिर्
नानागन्धपरिवासितैस् ते सत्त्वाः स्पृष्टाः सन्त, एवं
सुखसमर्पिता भवन्ति स्म, तद् यथापि नाम निरोधसमापन्नो
भिक्षुः.
तस्मिंश् चानन्द बुद्धक्षेत्रे सर्वशो ऽग्निचन्द्रसूर्य-

ग्रहनक्षत्रतारारूपानां तमोऽन्धकारस्य च नामधेय-
प्रज्ञप्तिर् अपि नास्ति. सर्वशो रात्रिदिवप्रज्ञप्तिर् अपि
नास्त्य्, अन्यत्र तथागतव्यवहारात्. सर्वशश् चागारपरिग्रह-
संज्ञा नास्ति.
तस्यां खलु पुनर् आनन्द सुखावत्यां लोकधातौ
काले दिव्यगन्धोदकमेघा अभिप्रवर्षन्ति. दिव्यानि सर्व-
वर्णिकानि कुसुमानि, दिव्यानि सप्तरत्नानि, दिव्यं चन्दन-
चूर्णं, दिव्याश् च्छत्रध्वजपताका अभिप्रवर्षन्ति. दिव्यानि
विमानानि, दिव्यानि वितानानि ध्रियन्ते, दिव्यानि रत्नच्छत्राणि
सचामराण्य् आकाशे ध्रियन्ते. दिव्यानि वाद्यानि प्रवाद्यन्ते.
दिव्याश् चाप्सरसो नृत्यन्ति स्म.
तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे ये सत्त्वा
उपपन्ना उत्पद्यन्त उपपत्स्यन्ते, सर्वे ते नियताः सम्यक्त्वे
यावन् निर्वाणात्. तत् कस्य हेतोः. नास्ति तत्र द्वयो
राश्योर् व्यवस्थानं प्रज्ञप्तिर् वा, यद् इदम् : अनियत्यस्य
वा मिथ्यात्वनियतस्य वा. तद् अनेनाप्य् आनन्द पर्यायेण
सा लोकधातुः सुखावतीत्य् उच्यते संक्षिप्तेन, न विस्तरेण.
कल्पो ऽप्य् आनन्द परिक्षयेत्, सुखावत्यां लोकधातौ
सुखकारणेषु परिकीर्तयमानेषु ; न च तेषां सुखकारणानां
प्41
शक्यं पर्यन्तो ऽधिगन्तुम्.
अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा
अभाषत :
सर्वे पि सत्त्वाः सुगता भवेयुः,
विशुद्धज्ञानाः परमार्थकोविदा.
ते कल्पकोटीम् अथ वापि उत्तरिम्,
सुखावतीवर्ण प्रकाशयेयुः.(1)
क्षये कल्पकोटीय व्रजेयु ताश् च,
सुखावतीये न च वर्ण अन्तः.
क्षयं न गच्छेत् प्रतिभा तेषां
प्रकाशयन्तान थ वर्णमाला.(2)
ये लोकधातूं परमाणुसदृशां
च्छिन्देय भिन्देय रजांश् च कुर्यात्,
अतो बहू उत्तरि लोकधातू
पूरेत्व दानं रतनेहि दद्यात्.(3)
न ता कलां पि उपमा पि तस्य
पुण्यस्य भोन्ती पृथुलोकधातवः,
यल् लोकधातूय सुखावतीये
श्रुत्वैव नाम भवतीह पुण्यं (4)
ततो बहू पुण्य भवेत तेषां,

ये श्रद्धणेय जिनवचनसंज्ञा.
श्रद्धा हि मूलं जगतस्य प्राप्तये,
तस्माद् धि श्रुत्वा विमतिं विनोदयेद्, इति.(5)
एवम् अप्रमेयगुणवर्णा आनन्द सुखावती लोकधातुः.
तस्य खलु पुनर् आनन्द भगवतो ऽमिताभस्य तथागतस्य
प्42
दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकासमेषु
बुद्धक्षेत्रेषु गङ्गानदीवालुकासमा बुद्धा भगवन्तो
नामधेयं परिकीर्तयन्ते, वर्णं भाषन्ते, यशः
प्रकाशयन्ति, गुणम् उदीरयन्ति. तत् कस्य हेतोः. ये
केचित् सत्त्वास् तस्य ऽमिताभस्य तथागतस्य नामधेयं
शृण्वन्ति, श्रुत्वा चान्तश एकचित्तोत्पादम् अप्य् अध्याशयेन
प्रसादसहगतम् उत्पादयन्ति, सर्वे ते ऽवैवर्त्तिकतायां
संतिष्ठन्ते ऽनुत्तरायाः सम्यक्संबोधेः.
ये चानन्द केचित् सत्त्वास् तं तथागतं पुनः पुनर्
आकारतो मनसीकरिष्यन्ति, बहुपरिमितं च कुशलमूलम्
अवरोपयिष्यन्ति, बोधाय चित्तं परिणाम्य तत्र च लोकधाताव्
उपपत्तये प्रणिधास्यन्ति, तेषां सो ऽमिताभस्
तथागतो ऽर्हन् सम्यक्संबुद्धो मरणकालसमये प्रत्युपस्थिते
ऽनेकभिक्षुगणपरिवृतः पुरस्कृतः स्थास्यति. ततस्
ते तं भगवन्तं दृष्ट्वा प्रसन्नचित्ताः सन्ति, तत्रैव
सुखावत्यां लोकधाताव् उपपद्यते. य आनन्दाकांक्षत,
कुलपुत्रो वा कुलदुहिता वा, किम् इत्य् अहं दृष्ट एव धर्मे
तम् अमिताभं तथागतं पश्येयम् इति, तेनानुत्तरायां
सम्यक्संबोधौ चित्तम् उत्पाद्याध्याशयपतितया संतत्या
तस्मिन् बुद्धक्षेत्रे चित्तं संप्रेष्योपपत्तये कुशलमूलानि
च परिणामयितव्यानि.
ये पुनस् तं तथागतं न भूयो मनसीकरिष्यन्ति, न
च बहुपरिमितं कुशलमूलम् अभीक्ष्णम् अवरोपयिष्यन्ति,
तत्र च बुद्धक्षेत्रे चित्तं संप्रेषयिष्यन्ति, तेषां
तादृशेनैव सो ऽमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धो
प्43
वर्णसंस्थानारोहपरिणाहेन भिक्षुसंघपरिवारेण, तादृश
एव बुद्धनिर्मितो मरणकाले पुरतः स्थास्यति, ते तेनैव
तथगतदर्शनप्रसादालम्बनेन समाधिनाप्रमुषितया
स्मृत्या च्युतास्, तत्रैव बुद्धक्षेत्रे प्रत्याजनिष्यन्ति.
ये पुनर् आनन्द सत्त्वास् तं तथागतं दशचित्तोत्पादां
समनुस्मरिष्यन्ति ; स्पृहांश् च तस्मिन् बुद्धक्षेत्रे उत्पादयिष्यन्ति ;
गम्भीरेषु च धर्मेषु भाष्यमाणेषु तुष्टिं
प्रतिलप्स्यन्ते, न विपत्स्यन्ते, न विषादम् आपत्स्यन्ते, न

संसीदम् आपत्स्यन्ते ; ऽन्तश एकचित्तोत्पादेनापि तं तथागतं
मनसिकरिष्यन्ति, स्पृहां चोत्पादयिष्यन्ति तस्मिन् बुद्धक्षेत्रे,
ते ऽपि स्वप्नान्तरगतास् तम् अमिताभं तथागतं द्रक्ष्यन्ति ;
सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; ऽवैवर्त्तिकाश्
च भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेः.
इमं खल्व् आनन्दार्थवसं संपश्यन्तस्, ते तथागता
दशसु दिक्ष्व् अप्रमेयासंख्येयासु लोकधातुसु तस्यामिताभस्य
तथागतस्य नामधेयं परिकीर्तयन्तो, वर्णान्
घोषयन्तः, प्रशंसाम् अभ्युदीरयन्ति. तस्मिन् खलु
पुनर् आनन्द बुद्धक्षेत्रे दशभ्यो दिग्भ्य एकैकस्यां
दिशि गङ्गानदीवालुकोपमा बोधिसत्त्वास् तम् अमिताभं
तथागतम् उपसंक्रामन्ति दर्शनाय, वन्दनाय, पर्युपासनाय,
परिप्रश्नीकरणाय ; तं च बोधिसत्त्वगणं तांश्
च बुद्धक्षेत्रगुणालंकारव्यूहसंपदविशेषान् द्रष्टुम्.
अथ खलु भगवांस् तस्यां वेलायाम् इमम् एवार्थं
भूयस्या मात्रया परिदीपयन्न् इमा गाथा अभाषत :
प्44
यथैव गङ्गाय नदीय वालिका,
बुद्धान क्षेत्रा पुरिमेन तात्तकाः.
यतो हि ते आगमि बुद्ध वन्दितुम्
संबोधिसत्त्वा अमितायु नायकं.(1)
बहुपुष्पपुटान् गृहीत्वा
नानावर्ण सुरभी मनोरमान्,
ओकिरन्ति नरनायकोत्तमम्
अमित-आयु नरदेवपूजितम्.(2)
तथ दक्षिणपश्चिमोत्तरासु
बुद्धान क्षेत्रा दिशतासु तत्तकाः,
यतो यतो आगमि बुद्ध वन्दितुम्
संबोधिसत्त्वा अमितायु नायकं.(3)
बहुगन्धपुटान् गृहीत्वा
नानावर्ण सुरभी मनोरमान्,
ओकिरन्ति नरनायकोत्तमं
अमित-आयु नरदेवपूजितम्.(4)
पूजित्व च ते बहुबोधिसत्त्वान्,
वन्दित्व पादाम् अमितप्रभस्य,
प्रदक्षिणीकृत्य वदन्ति चैवं :
अहो ऽद्भुतं शोभति बुद्धक्षेत्रं.(5)
ते पुष्पपुटाहि समोकिरन्ति
उदग्रचित्ता अतुलाय प्रीतये,
वाचं प्रभाषन्ति पुनस् तु : नायके,

अस्मापि क्षेत्रं सिय एवरूपं.(6)
प्45
तैः पुष्पपुटा इति क्षिप्त तत्र
च्छत्रं तदा संस्थिहि योजनाशतां,
स्वलंकृतं शोभति चित्रदण्डं,
च्छादेति बुद्धस्य समन्तकायं.(7)
ते बोधिसत्त्वास् तथ सत्करित्वा,
कथा कथेन्ती इति तत्र तुष्टः :
सुलब्ध लाभाः खलु तेहि सत्त्वैः,
येही श्रुतं नाम नरोत्तमस्य.(8)
अस्मेहि पी लाभ सुलब्ध पूर्वा
यद् आगतस्य इम बुद्धक्षेत्रं.
पश्याथ स्वप्नोपम क्षेत्र कीदृशं,
यत् कल्पितं कल्पसहस्र शास्तुना.(9)
पश्यथ, बुद्धो वरपुण्यराशिः,
परीवृतु शोभति बोधिसत्त्वैः.
अमिताभस्य आभा अमितं च तेजः,
अमिता च आयुर्, अमितश् च संघः.(10)
स्मितं करोन्ती अमितायु नाथः
षट्त्रिंशत्कोटीनयुतानि अर्चिषां,
ये निश्चरित्वा मुखमण्डलाभः
स्फुरन्ति क्षेत्राणि सहस्रकोटीः.(11)
ताः सर्व अर्चीः पुनरेत्य तत्र,
मूर्ध्ने च अस्तंगमि नायकस्य.
देवमनुष्या जनयन्ति प्रीतिम्,
प्46
अर्चिस् तदा अस्तम् इता विदित्वा.(12)
उत्तिष्ठते बुद्धसुतो महायशा
नाम्नाथ सो हि अवलोकितेश्वरः :
को हेतुर् अत्र भगवन्, को प्रत्ययः,
येन स्मितं कुर्वसि लोकनाथ.(13)
तं व्याकरोही परमार्थकोविदा
हितानुकम्पी बहुसत्त्वमोचकः.
श्रुत्वा ति वाचं परमां मनोरमां,
उदग्रचित्ता भविष्यन्ति सत्त्वाः.(14)
ये बोधिसत्त्वा बहुलोकधातुषु
सुखावतीं प्रस्थित बुद्धपश्यना,
ते श्रुत्व प्रीतिं विपुलां जनेत्वा,
क्षिप्रं इमं क्षेत्र विलोकयेयुः.(15)
आगत्य च क्षेत्रम् इदं उदारं,

ऋद्धीबलं प्रापुणि क्षिप्रम् एव,
दिव्यं च चक्षुस्, तथ श्रोत्र दिव्यं,
जातिस्मरः परमतकोविदाश् च.(16)
अमितायु बुद्धस् तद व्याकरोति :
मम ह्य् अयं प्रणिधिर् अभूषि पूर्व.
कथं पि सत्त्वाः श्रुणियान नामं,
व्रजेयु क्षेत्रं मम नित्यम् एव.(17)
स मे अय प्रणिधि प्रपूर्ण शोभना,
सत्त्वाश् च एन्ति बहुलोकधातुतः.
आगत्य क्षिप्रं मम ते ऽन्तिकस्मिन्
अविवर्त्तिका भोन्तिह एकजातिया.(18)
तस्माद् य इच्छतिह बोधिसत्त्वः :
ममापि क्षेत्रं सिय एवरूपं.
अहं पि सत्त्वा बहु मोचयेयं,
प्47
नामेन घोषेन थ दर्शनेन.(19)
स शीघ्रशीघ्रं त्वरमाणरूपः,
सुखावतीं गच्छतु लोकधातुं.
गत्वा च पूर्वम् अमितप्रभस्य,
पूजेतु बुद्धान सहस्रकोटी.(20)
बुद्धान कोटीं बहु पूजयित्वा,
ऋद्धीबलेन बहु क्षेत्र गत्वा,
कृत्वान पूजां सुगतान सन्तिके,
भक्ताग्रम् एष्यन्ति सुखावती त, इति.(21)
तस्य खलु पुनर् आनन्द भगवतो ऽमितायुषस् तथागतस्यार्हतः
सम्यक्संबुद्धस्य बोधिवृक्षः षोडसयोजनशतान्य्
उच्चैत्वेनाष्टौ योजनशतान्य् अभिप्रलम्बितशाखापत्त्रपलाशः
पञ्चयोजनशतमूलारोहपरिणाहः, सदापत्त्रः
सदापुष्पः सदाफलो, नानावर्णो ऽनेकशतसहस्रवर्णो,
नानापत्त्रो नानापुष्पो नानाफलो, नानाविचित्ररूपेन समलंकृतश्,
चन्द्रभासमणिरत्नपरिस्फुटः, शक्राभिलग्नमणिरत्नविचित्रितश्,
चिन्तामणिरत्नकीर्णः, सागरवरमणिरत्नसुविचित्रितो,
दिव्यसमतिक्रान्तः, सुवर्णसूत्राभिप्रलम्बितो, रूचकहारो
रत्नहारो वज्राहारः कटकहारो लोहितमुक्ताहारो
नीलमुक्ताहारः, सिंहलतामेखलाकलापरत्नसूत्रसर्व-
रत्नकञ्चुकशताभिविचित्रितः, सुवर्णजालमुक्ताजालसर्वरत्न-
जालकङ्कणीजालावनतो, मकरस्वस्तिकनन्द्यावर्त्यर्धचन्द्र-
समलंकृतः, किङ्किणीमणिसौवर्णसर्वरत्नालंकारविभूषितो,
यथाशयसत्त्वविज्ञप्तिसमलंकृतश् च.
तस्य खलु पुनर् आनन्द बोधिवृक्षस्य वातसमीरितस्य

यः शब्दघोषो निश्चरति, सो ऽपरिमाणान् लोकधातून् अभिविज्ञापयति.
तत्रानन्द येषां सत्त्वानां बोधिवृक्षशब्दः
प्48
श्रोत्रावभासम् आगच्छति, तेषां श्रोत्ररोगो न प्रतिकांक्षितव्यो,
यावद् बोधिपर्यन्तम्. येषां चाप्रमेयासंख्येया-
चिन्त्यामाप्यापरिमाणानभिलाप्यानां सत्त्वानां बोधिवृक्षश्
चक्षुषाभासम् आगच्छति, तेषां चक्षूरोगो न प्रतिकांक्षितव्यो,
यावद् बोधिपर्यन्तम्. ये खलु पुनर् आनन्द
सत्त्वास् ततो बोधिवृक्षाद् गन्धं जिघ्रन्ति, तेषां यावद्
बोधिपर्यन्तं न जातु घ्राणरोगः प्रतिकांक्षितव्यः. ये
सत्त्वास् ततो बोधिवृक्षात् फलान्य् आस्वादयन्ति, तेषां यावद्
बोधिपर्यन्तं न जातु जिह्वारोगः प्रतिकांक्षितव्यः.
ये सत्त्वास् तस्य बोधिवृक्षस्याभया स्फुटा भवन्ति,
तेषां यावद् बोधिमण्डपर्यन्तं न जातु कायरोगः
प्रतिकांक्षितव्यः. ये खलु पुनर् आनन्द सत्त्वास् तं
बोधिवृक्षं धर्मतो निध्यायन्ति, तेषां तत्रोपादाय यावद्
बोधिपर्यन्तं न जातु चित्तविक्षेपः प्रतिकांक्षितव्यः. सर्वे
च ते सत्त्वाः सहदर्शनात् तस्य बोधिवृक्षस्यावैवर्त्तिकाः
संतिष्ठन्ते ; यद् उतानुत्तरायाः सम्यक्संबोधेस् तिस्रश् च
क्षान्तीः प्रतिलभन्ते, यद् इदं : घोषानुगाम् अनुलोमिकां
अनुत्पत्तिकधर्मक्षान्तिं च ; तस्यैवामितायुषस् तथागतस्य
पूर्वप्रणिधानाधिष्ठानेन, पूर्वजिनकृताधिकारतया,
पूर्वप्रणिधानपरिचर्ययोश् च सुसमाप्तया, सुभावितयानू-
नाविकलतया.
तत्र खलु पुनर् आनन्द ये बोधिसत्त्वाः प्रत्याजाताः
प्रत्याजायन्ते प्रत्याजनिष्यन्ते वा, सर्वे त एकजातिप्रतिबद्धास्
तत एवानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते ;
स्थापयित्वा प्रणिधानवशेन ये ते बोधिसत्त्वा महासिंहनादनादिता,
प्49
उदारसंनाहसम्नद्धाः, सर्वसत्त्वपरिनिर्वाणाभियुक्ताश्
च.
तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे ये श्रावकास्
ते व्योमप्रभा, ये बोधिसत्त्वास् ते योजनकोटीशतसहस्रप्रभाः ;
स्थापयित्वा द्वौ बोधिसत्त्वौ, ययोः प्रभया
सा लोकधातुः सततसमितं नित्यावभासस्फुटा.
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् :
किं नामधेयौ भगवन् तौ सत्पुरुषौ बोधिसत्त्वौ
महासत्त्वौ. भगवान् आह : एकस् तयोर् आनन्दावलोकितेश्वर
बोधिसत्त्वो महासत्त्वो, द्वितीयः स्थामप्राप्तो नाम. इत
एवानन्द बुद्धक्षेत्राच् च्युत्वा तत्रोपपन्नौ.

तत्र चानन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः,
सर्वे ते द्वात्रिंशता महापुरुषलक्षणैः समन्वागताः,
परिपूर्णगात्रा, ध्यानाभिज्ञाकोविदाः, प्रज्ञाप्रभेदकोविदाः,
कुशलास्, तीक्ष्णेन्द्रियाः, सुसंवृतेन्द्रिया, आज्ञातेन्द्रिया, अदीनाचलेन्द्रियाः,
प्रतिलब्धक्षान्तिका अनन्तापर्यन्तगुणाः.
तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः
प्रत्याजाताः, सर्वे ते ऽविरहिता बुद्धदर्शनेन धर्मश्रवणेनाविनिपात-
धर्माणो, यावद् बोधिपर्यन्तं. सर्वे च
ते तत्रोपादाय न जात्व् अजातिस्मरा भविष्यन्ति, स्थापयित्वा
तथारूपेषु कल्पसंक्षोभेषु ये पूर्वस्थानप्रणिहिताः
पञ्चसु कषायेषु वर्तमानेषु, यदा बुद्धानां भगवतां
प्50
लोके प्रादुर्भावो भवति, तद् यथापि नाम ममैतर्हि.
तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः
प्रत्याजाताः, सर्वे त एकपुरोभक्तेनान्यलोकधातूं गत्वानेकनि
बुद्धकोटीनयुतशतसहस्राण्य् उपतिष्ठन्ति, यावच्
चाकांक्षन्ति बुद्धानुभावेन ते यथा चित्तम् उत्पादयन्त्य् :
एवंरूपैः पुष्पदीपधूपगन्धमाल्यविलेपनचूर्ण-
चीवरच्छत्रध्वजपताकावैजयन्तीतूर्यसंगीतिवाद्यैः पूजां
कुर्याम इति, तेषां सहचित्तोत्पादात् तथारूपाण्य् एव सर्वपूजाविधानानि
पाणौ प्रादुर्भवन्ति. ते तैः पुष्पैर् यावद्
वाद्यैस् तेषु बुद्धेषु भगवत्सु पूजां कुर्वन्तो बह्वप-
रिमाणासंख्येयं कुशलमूलम् उपचिन्वन्ति. सचेत् पुनर्
आकांक्षन्त्य् : एवंरूपाः पुष्पपुटाः पाणौ प्रादुर्भवन्ति,
तेषां सहचित्तोत्पादान् नानावर्णा अनेकवर्णा नानागन्धा दिव्याः
पुष्पपुटाः पाणौ प्रादुर्भवन्ति. ते तैस् तथारूपैः
पुष्पपुटैः तान् बुद्धान् भगवतो ऽवकिरन्ति स्म, अभ्यवकिरन्त्य्,
अभिप्रकिरन्ति. तेषां च यः सर्वपरीत्तः पुष्पपुट
उत्सृष्टो, दशयोजनविस्तारम् पुष्पच्छत्रं प्रादुर्भवन्ति.
उपर्य् अन्तरीक्षे द्वितीये चानुत्सृष्टे, न प्रथमो
धरण्यां प्रपतति. सन्ति तत्र पुष्पपुटा य उत्सृष्टाः सन्तो
विंशतियोजनविस्ताराणि पुष्पच्छत्राण्य् उपर्य् अन्तरीक्षे
प्रादुर्भवन्ति. सन्ति त्रिंशत्चत्वारिंशत्पञ्चाशत्, सन्ति योजन-
शतसहस्रविस्ताराणि पुष्पच्छत्राण्य् उपर्य् अन्तरीक्षे प्रादुर्भवन्ति.
तत्र य उदारं प्रीतिप्रामोद्यं संजनयन्त्य् ;
उदारं च चित्तौद्बिल्यं प्रतिलभ्यन्ते ; ते बह्व् अपरिमितम्
असंख्येयं च कुशलमूलम् अवरोप्य, बहूनि
बुद्धकोटीनयुतशतसहस्राण्य् उपस्थायैकपूर्वाह्नेन पुनर्
अपि सुखावत्यां लोकधातौ प्रतिष्ठन्ते, तस्यैवामितायुषस्
प्51

तथागतस्य पूर्वप्रणिधानाधिष्ठानपरिग्रहेण, पूर्वप्रणिधान-
समृद्धिपरिपूर्यानूनया सुविभक्ताभावितया.
तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः
प्रत्याजाताः, सर्वे ते सर्वज्ञतासहगताम् एव धर्मकथां
कथ्यन्ति. न च तत्र बुद्धक्षेत्रे सत्त्वानां काचित्
परिग्रहसंज्ञास्ति, सर्वं तद्-बुद्धक्षेत्रं समनुचंक्रममाणा,
अनुविचरन्तो न रतिं नारतिम् उत्पादयन्ति.
प्रक्रामन्तस् ताश् चानुपेक्षा एवं प्रक्रामन्ति, न सापेक्षाः
सर्वशस् चैषाम् एवं चित्तम् नास्ति.
तत्र खलु पुनर् आनन्द सुखावत्यां लोकधातौ ये
सत्त्वाः प्रत्याजाता, नास्ति तेषाम् अन्यातकसंज्ञा, नास्ति स्वकसंज्ञा,
नास्ति ममसंज्ञा, नास्ति विग्रहो, नास्ति विवादो, नास्ति
विरोधो, नास्ति असमचित्तः ; समचित्तास् ते, हितचित्ता, मैत्रचित्ता,
मृदुचित्ताः, स्निग्धचित्ताः, कर्मण्यचित्ताः, प्रसन्नचित्ताः,
स्थिरचित्ता, विनीवरणचित्ता, अक्षुभितचित्ता, अलुडितचित्ताः,
प्रज्ञापारमिताचर्याचरणचित्ताश्, चित्ताधारबुद्धिप्रविष्टाः,
सागरसमाः प्रज्ञया, मेरुसमा बुद्ध्यानेकगुणसंनिचया,
बोध्यङ्गसंगीत्या विक्रीडिता, बुद्धसंगीत्याभियुक्ता ;
मांसचक्षुः प्रतिचिन्वन्ति. दिव्यं चक्षुर् अभिनिर्हरन्ति.
प्रज्ञाचक्षुर्गतिंगताः, धर्मचक्षुःपारंगताः ;
बुद्धचक्षुर् निष्पादयन्तो, देशयन्तो, द्योतयन्तो, विस्तारेण
प्रकाशयन्तो ; ऽसङ्गज्ञानम् अभिनिर्हरन्तस्, त्रैधातुकसमतयाभियुक्ता,
दान्तचित्ताः, शान्तचित्ताः, सर्वधर्मानुपलब्धि-
प्52
समन्वागताः, समुदयनिरुक्तिकुशला, धर्मनिरुक्तिसमन्वागता,
हाराहारकुशला, नयानयस्थानकुशला ; लोकिकीषु
कथास्व् अनपेक्षा विहरन्ति. लोकोत्तराभिः कथाभिः सारं
प्रत्ययन्ति. सर्वधर्मपर्येष्टिकुसलाः, सर्वधर्मप्रकृतिव्युपसमज्ञान-
विहारिनो, ऽनुपलम्भगोचरा, निष्किञ्चना,
निरुपादाना, निश्चिन्ता, निरुपायासा, अनुपादाय सुविमुक्ता,
अनङ्गणा, अपर्यन्तस्थायिनो, ऽभिज्ञास्व् अमूलस्थायिनो,
ऽसङ्गचित्ता, अनवलीना, गम्भीरेषु धर्मेष्व् अभियुक्ता न
संसीदन्ति. दुरनुबोधबुद्धज्ञानप्रवेशोद्गता, एकायतनमार्गानुप्राप्ता,
निर्विचिकित्सास्, तीर्णकथंकथा, अपरप्रत्ययज्ञाना,
अनधिमानिनः ; सुमेरुसमा ज्ञाने ऽभ्युद्गताः ; सागरसमा
बुद्ध्याक्षोभ्या ; चन्द्रसूर्यप्रभातिक्रान्ताः प्रज्ञया,
पाण्डरसुशुक्लशुभचित्तया च ; उत्तप्तहेमव्र्णसदृअशावभास-
निर्भासगुणप्रधानतया च ; वसुंधरासदृशाः सर्वसत्त्व-
शुभाशुभक्षपनतया ; अप्सदृशाः सर्वक्लेशमलनिधावन-
प्रवाहनतया ; अग्निराजसदृशाः सर्वधर्ममन्यनाक्लेशनिर्दहनतया ;

वायुसदृशाः सर्वलोकासंजनतया ; आकाशसदृशाः
सर्वधर्मनैर्वेधिकतया, सर्वशो निष्किंचनतया च.
पद्मसदृशाः सर्वलोकानुपलिप्तया ; कालानुसारिमहामेघसदृशा
धर्माभिगर्जनतया ; महावृष्टिसदृशा धर्मसलिलाभिवर्षणतया ;
ऋषभसदृशा महागणाभिभवनतया ;
महानागसदृशाः परमसुदान्तचित्ततया ; भद्राश्वाजानेयसदृशाः
सुविनीततया ; सिंहमृगराजसदृशा विक्रमवैशारद्यासंत्रस्ततया ;
प्53
न्यग्रोधद्रुमराजसदृशाः सर्वसत्त्वपरित्राणतया ;
सुमेरुपर्वतराजसदृशाः सर्वपरवाद्यकम्पनतया ;
गगनसदृशा अपरिमाणमैत्रीभावनतया ; महाब्रह्मसमाः
सर्वकुशलमूलधर्माधिपत्यपूर्वंगमनतया ;
पक्षिसदृशाः संनिचयस्थानतया ; गरुडद्विजराजसदृशाः
परप्रवादिविध्वंसनतया ; उदुम्बरपुष्पसदृशा
दुर्लभोत्पत्त्यर्थितया ; नागवत् सुसमाहिता, अविक्षिप्ता, अजिह्मेन्द्रिया ;
विनिश्चयकुशलाः, क्षान्तिसौरभ्यबहुला ; अनीर्ष्यकाः
परसंपत्त्यप्रार्थतया. विशारदा धर्मकथास्व् ;
अतृप्ता धर्मपर्येष्टौ ; वैडूर्यसदृशाः शीलेन ; रत्नाकराः
श्रुतेन ; मञ्जुस्वरा महाधर्मदुन्दुभिघोषेन ; महाधर्मभेरीं
पराघ्नन्तो ; महाधर्मशङ्खम् आपूरयन्तो ;
महाधर्मध्वजाम् उच्छ्रापयनतो ; महाधर्मोल्कां
प्रज्वालयन्तः ; प्रज्ञाविलोकिनो, ऽसंमूढा, निर्दोषाः,
शान्ताखिलाः, शुद्धा, निरामगन्धा, अलुब्धाः, संविभागरता,
मुक्तत्यागाः, प्रसृतपाणयो, दानसंविभागरता धर्मामिषाभ्याम्,
दाने ऽमत्सरिणो, ऽसंसृष्टा, अनुत्त्रस्तमानसा,
विरक्ता, धीरा, वीरा, धौरेया, धृतिमन्तो, ह्रीमन्तो, ऽसादृश्या,
निरर्गडा, प्राप्ताभिज्ञाः, सुरताः सुखसंवासा, अर्थकरा,
प्54
लोकप्रद्योता, नायका, नन्दीरागानुनयप्रतिघाः, प्रहीणाः,
शुद्धाः, शोकापगता, निर्मलास्, त्रिमलप्रहीणा, विक्रीडिताभिज्ञा,
हेतुबलिकाः, प्रणिधानबलिका, अजिह्मा, अकुटिलाः.
ये ते बहुबुद्धकोटीनयुतशतसहस्रावरोपितकुशलमूला,
उत्पाटितमानशल्या, अपगतरागद्वेषमोहाः, शुद्धाः, शुद्धाधिमुक्ता,
जिनवरप्रशस्ता, लोकपण्डिता, उत्तप्तज्ञानसमुद्गता,
जिनस्तुतास्, चित्तौद्बिल्यसमन्वागताः, शूरा, दृढा, असमा,
अखिला, अतुला, अरजसः, सहिता, उदारा, ऋषभा, ह्रीमन्तो,
धृतिमन्तः, स्मृतिमन्तो, मतिमन्तो, गतिमन्तः, प्रज्ञाशस्त्रप्रहरणाः,
पुण्यवन्तो, द्युतिमन्तो, व्यपगतखिलमलप्रहीणा,
अभियुक्ताः सातत्येषु धर्मेषु.
ईदृशा आनन्द तस्मिन् बुद्धक्षेत्रे बोधिसत्त्वा महासत्त्वाः

संक्षिप्तेन. विस्तरेण पुनः सचेत् कल्पकोटीनयुतशतसहस्रस्थितिकेनाप्य्
आयुष्प्रमाणेन तथागतो निर्दिशेद्, न त्व् एव
शक्यं तेषां सत्पुरुषाणां गुणपर्यन्तो ऽधिगन्तुम्. न च
तथागतस्य वैशारद्योपच्छेदो भवेत्. तत् कस्य हेतोः. उभयम्
अप्य् एतद् आनन्दाचिन्त्यम् अतुल्यम्, यद् इदम् : तेषां
च बोधिसत्त्वानां गुणास् तथागतस्य चानुत्तरं प्रज्ञाप्रतिभानम्.
अपि चानन्द उत्तिष्ठ पश्चान्मुखो भूत्वा, पुष्पाण्य् अवकीर्याञ्जलिं
प्रगृह्य, प्रणिपत. एषासौ दिग्, यत्र स भगवान्
अमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते
प्55
यापयति, धर्मं च देशयति ; विरजो विशुद्धो, यस्य
तं नामधेयम् अनावरणं दशदिशि लोके विघुष्टम् एकैकस्यां
दिशि गङ्गानदीवालिकासमा बुद्धा भगवन्तो वर्णयन्ति,
स्तुवन्ति, प्रशंसन्त्य्, असकृद् असकृद् असङ्गवाचाप्रतिवाक्याः.
एवम् उक्त, आयुस्मान् आनन्दो भगवन्तम्
एतद् अवोचत् : इच्छाम्य् अहं भगवन्तं तम् अमिताभम्
अमितप्रभम् अमितायुषं तथागतम् अर्हन्तं सम्यक्संबुद्धं
द्रष्टुम्, तांश् च बोधिसत्त्वान् महासत्त्वान्
बहुबुद्धकोटीनयुतशतसहस्रावरोपितकुशलमूलान्. समनन्तराभाषिता
चायुष्मतानन्देनेयं वाक्, अथ तावद् एव
सो ऽमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धः स्वपाणितलात्
तथारूपां प्रभां प्रामुञ्चत्, ययेदं कोटीशतसहस्रतमं
बुद्धक्षेत्रं महतावभासेन स्फुटम् अभूत्.
तेन खल्व् अपि समयेन सर्वत्र कोटीशतसहस्रबुद्धक्षेत्राणां,
ये केचित् कालपर्वता वा, रत्नपर्वता वा,
मेरुमहामेरुमुचिलिन्दमहामुचिलिन्दचक्रवाडमहाचक्रवाडा
वा, भित्तयो वा, स्तम्भा वा, वृक्षगहनोद्यानविमानानि
वा दिव्यमानुष्यकानि, तानि सर्वाणि तस्य तथागतस्य तया
प्रभयाभिनिर्भिन्नान्य् अभूवन्, समभिभूतानि.
तद् यथापि नाम पुरुषो व्याममात्रके स्थितो द्वितीयं
पुरुषं प्रत्यवेक्षत आदित्ये ऽभ्युद्गत ; एवम् एवास्मिन्
बुद्धक्षेत्रे भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्ष-
गन्धर्वासुरगरुडकिन्नरमहोरगाश् च तस्यां वेलायाम्
अद्राक्षुस् तम् अमिताभं तथागतम् अर्हन्तं सम्यक्संबुद्धं,
सुमेरुम् इव पर्वतराजानं सर्वक्षेत्राभ्युद्गतम्,
सर्वदिसो ऽभिभूय, भासमानं तपन्तं विरोचमानं
प्56
बिभ्राजमानं, तं च महान्तं बोधिसत्त्वगणं, तं च
भिक्षुसंघं, यद् इदं बुद्धानुभावेन तस्याः प्रभयाः
परिशुद्धत्वात्.

तद् यथेयं महापृथिव्य् एकोदकजाता भवेत्, तत्र न
वृक्षा, न पर्वता, न द्वीपा, न तृणगुल्मौषधिवनस्पतयो,
न नदीश्वभ्रप्रपाताः प्रज्ञायेरन्, अन्यत्रैकार्णवीभूतमहापृथिव्य्
ऐका स्यात् ; एवम् एव तस्मिन् बुद्धक्षेत्रे नास्त्य्
अन्यत् किंचिल् लिङ्गं वा, निमित्तं वान्यत्रैव व्यामप्रभाः
श्रावकास्, ते च योजनकोटीशतसहस्रप्रभा बोधिसत्त्वाः, स
च भगवान् अमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धस्,
तं च श्रावकगणं तं च बोधिसत्त्वगणम् अभिभूय,
सर्वा दिशः प्रभासयन् संदृश्यते.
तेन खल्व् अपि समयेन तस्यां सुखावत्यां लोकधातौ
बोधिसत्त्वाः श्रावाकदेवमनुष्याश् च सर्वे त इमां लोकधातुं,
शाक्यमुनिं च तथागतं महता भिक्षुसंघेन
परिवृतं पश्यन्ति स्म, धर्मं च देशयन्तम्.
तत्र खलु भगवान् अजितं बोधिसत्त्वं महासत्त्वम्
आमन्त्रयते स्म : पश्यसि त्वम् अजितामुष्मिन् बुद्धक्षेत्रे
गुणालंकारव्यूहसंपदम् ; उपरिष्टाश् चान्तरीक्ष आरामरमणीयानि,
वनरमणीयान्य्, उद्यानरमणीयानि, नदीपुष्किरिणीरमणीयानि,
नानारत्नमयोत्पलपद्मकुमुदपुण्डऋईकाकीर्णानि ;
अधस्ताच् च धरणितलम् उपादाय, यावद् अकनिष्ठभवनाद्,
गगनतलं पुष्पाभिकीर्णं, पुष्पावलिसमुपशोभितं,
नानास्तम्भपङ्क्तिपरिस्फुटं तथागताभिनिर्मित-
नानाद्विजसंघनिषेवितम्. आह : पश्यामि भगवन्, भगवान्
आह : पश्यसि पुनस् त्वम् अजितैतान् अपरान् द्विजसंघान्
प्57
सर्वबुद्धक्षेत्रान् बुद्दस्वरेणाभिजिज्ञापयन्ति, येनैते
बोधिसत्त्वा नित्यम् अविरहिता बुद्धानुस्मृत्या. आह : पश्यामि
भगवन्. भगवान् आह : पश्यसि त्वम् अजितात्र बुद्धक्षेत्रे
अमून् सत्त्वान् योजनशतसहस्रकेषु विमानेष्व् अभिरूढान्,
अन्तरीक्षे ऽसक्तान् क्रामतः. आह : पश्यामि भगवन्.
भगवान् आह : तत् किं मन्यसे ऽजित ; अस्ति किंचिन्
नानात्वं देवानां वा परनिर्मितवशवर्तिनां सुखावत्याम्
लोकधातौ मनुष्यणां वा. आह : एकम् अप्य् अहं भगवन्
नानात्वं न समनुपश्यामि. यावद् महर्द्धिका अत्र
सुखावत्यां लोकधातौ मनुष्याः. भगवान् आह : पश्यसि
पुनस् त्वम् अजित तत्र सुखावत्यां लोकधाताव् एकेषां
मनुष्याणाम् उदारेषु पद्मेषु गर्भावासम्. आह ; तद् यथापि
नाम भगवन् त्रयश्त्रिंशा देवा यामा देवा वा, पञ्चाशद्योजनकेषु
वा, योजनशतिकेषु वा, पञ्चयोजनशतिकेषु
विमानेषु प्रविष्टाः क्रीडन्ति, रमन्ति, परिचारयन्ति ; एवम्
एवाहं भगवन् अत्र सुखावत्यां लोकधाताव् एकेषां

मनुष्याणाम् उदारपद्मेषु गर्भावासं पश्यामि.
सन्ति खलु पुनर् अत्र भगवन् सत्त्वा य उपपादुकाः
पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति. तत् को ऽत्र भगवन्
हेतुः, कः प्रत्ययो, यद् अन्ये पुनर् गर्भावासे प्रतिवसन्ति ;
अन्ये पुनर् उपपादुकाः पर्यङ्कैः पद्मेषु प्रादुर्भवन्ति.
भगवान् आह : ये ते ऽजित बोधिसत्त्वा अन्येषु बुद्धक्षेत्रेषु
स्थिताः सुखावत्यां लोकधाताव् उपपत्तये विचिकित्साम्
प्58
उत्पादयन्ति, तेन चित्तेन कुशलमूलान्य् अवरोपयन्ति,
तेषाम् अत्र गर्भावासो भवति. ये पुनर् निर्विचिकित्साश् च्छिन्नकांक्षाः
सुखावत्यां लोकधाताव् उपपत्तये कुशलमूलान्य्
अवरोपयन्ति, बुद्धानां भगवताम् असङ्गज्ञानम् अवकल्पयन्त्य्
अभिश्रद्धधत्य् अधिमुच्यन्ते ; तत्रोपपादुकाः
पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति. ये ते ऽजित बोधिसत्त्वा
महासत्त्वा अन्यत्रबुद्धक्षेत्रस्थाश् चित्तम् उत्पादयन्त्य्
अमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय,
न विचिकित्साम् उत्पादयन्ति, न कांक्षन्त्य् असङ्गबुद्धज्ञानं,
स्वकुचलमूलं चाभिश्रद्धधति, तेषाम्
औपपादुकानां पर्यङ्कैः पद्मेषु प्रादुर्भूतानां
मुहूर्तमात्रेणैवैवंरूपः कायो भवति, तद् यथान्येषां
चिरोपपन्नानां सत्त्वानाम्.
पश्याजित प्रज्ञादौर्बल्यं प्रज्ञावैमात्रं प्रज्ञापरिहाणिं
प्रज्ञापरीत्ततां, यत्र हि नाम पञ्चवर्षशतानि परिहीणा
भवन्ति बुद्धदर्शनाद्, बोधिसत्त्वदर्शनात्, सद्धर्मदर्शनाद्,
धार्मसंकथ्यात् ; कुशलमूलचर्यायाः परिहीणा
भवन्ति सर्वकुशलमूलसंपत्तेर्, यद् इदं विचिकित्सापतितैः
संज्ञामनसिकारैः.
तद् यथाजित राज्ञः क्षत्रियस्य मूर्धानाभिषिक्तस्य
बन्धनागारं भवेत्, सर्वसौवर्णवैडूर्यप्रत्युप्तम्,
अवसक्तपट्टमाल्यदामकलापं, नानारङ्गविततवितानं,
दूष्यपट्टसंच्छन्नं, नानामुक्तकुसुमाभिकीर्णम्, उदारं,
धूपनिर्धूपितं, प्रासादहर्म्यगवाक्षवेदिकातोरणविचित्र-
सर्वरत्नप्रतिमण्डितं, हेमरत्नकंकणीजालसंच्छन्नं,
चतुरस्रं, चतुःस्थूणं चतुर्द्वारं, चतुःसोपानकम्.
तत्र तस्य राज्ञः पुत्रः केनचिद् एव कृत्येन प्रक्षिप्तो
प्59
जाम्बूनदसुवर्णमयैर् निगडैर् बद्धो भवति. तस्य
च तत्र पर्यङ्कः प्रज्ञप्तः स्याद्, अनेकगोणिकास्तीर्णस्,
तूलिकापलालिकास्तीर्णः, काचिलिन्दिकसुखसंस्पर्शः, कालिङ्ग-
प्रावरणसोत्तरपटच्छदन, उभयान्तलोहितोपधानश्, चित्रो,

दर्शनीयः. स तत्राभिनिषण्णो वाभिनिपन्नो वा भवेत्. बहु
चास्यानेकविधं शुचिप्रणीतं पानभोजनं तत्रोपनाम्येत्.
तत् किं मन्यसे ऽजित ; उदारस् तस्य राजपुत्रस्य स परिभोगो
भवेत्. आह : उदारो भगवन्. भगवान् आह : तत् किं
मन्यसे ऽजित ; अपि त्व् आस्वादयेत्, स तन् निगमयेद् वा,
तेन वा तुष्टिं विद्यात्. आह : नो हीदं भगवन्. अपि तु
खलु पुनर् येन व्यपनीतेन राज्ञा तत्र बन्धनागारे
प्रक्षिप्तो भवेत्, स ततो मोक्षम् एवाकांक्षयेत्. अभिजातान्
कुमारान् अमात्यान् स्त्र्यागारान् श्रेष्ठिनो गृहपतीन् कोट्टराज्ञो
वा पर्येषेद्, य एनं ततो बन्धनागारात् परिमोचयेयुः.
किं चापि भगवंस् तस्य कुमारस्य तत्र बन्धनागारे
नाभिरतिः. नात्र परिमुच्यते, यावन् न राजा प्रसादम् उपदर्शयति.
भगवान् आह : एवम् एवाजित, ये ते बोधिसत्त्वाः
विचिकित्सापतिताः कुशलमूलान्य् अवरोपयन्ति, कांक्षन्ति
बुद्धज्ञानम् असमसमज्ञानं, किं चापि ते बुद्धनामश्रवणेन,
तेन च चित्तप्रसादमात्रेणात्र सुखावत्यां
लोकधाताव् उपपद्यन्ते. न तु खल्व् औपपादुकाः पद्मेषु
पर्यङ्कैः प्रादुर्भवन्ति. अपि तु पद्मेषु गर्भावासे
प्60
प्रतिवसन्ति. किं चापि तेषां तत्रोद्यानविमानसंज्ञाः
संतिष्ठन्ते. नास्त्य् उच्चारप्रस्रावं, नास्ति खेटसिंहानकं,
न प्रतिकूलं मनसः प्रवर्तते. अपि तु खलु पुनः
पञ्च वर्षशतानि विरहिता भवन्ति बुद्धदर्शनेन,
धर्मश्रवणेन, बोधिसत्त्वदर्शनेन, धर्मसांकथ्यविनिश्चयेन,
सर्वकुशलधर्मचर्याभिश् च. किं चापि ते
तत्र नाभिरमन्ते, न तुष्टिं विदन्ति. अपि तु खलु पुनः
पूर्वापराधं क्षपयित्वा, ते भूयस् ततः पश्चान् निष्क्रामन्ति.
न चैषां ततो निष्क्रामतां निष्क्रमः प्रज्ञायत, ऊर्ध्वम्
अधस् तिर्यग् वा.
पश्याजित ; यत्र हि नाम पञ्चभिर् वर्षशतैर् बहूनि
बुद्धकोटीनयुतशतसहस्राण्य् उपस्थातव्यानि, बह्वसंख्येयाप्रमेयानि
च कुशलमूलान्य् अवरोपयितव्यानि च स्युः.
बुद्धधर्माश् च परिगृहीतव्याः. तत् सर्वं विचिकित्सादोषेण
विरागयन्ति. पश्याजित कियन् महते ऽनर्थाय
बोधिसत्त्वानां विचिकित्सा संवर्तत इति.
तस्मात् तर्ह्य् अजित ; बोधिसत्त्वैर् निर्विचिकित्सैर् बोधाय
चित्तम् उत्पाद्य, क्षिप्रं सर्वसत्त्वहितसुखाधानाय
सामर्थाप्रतिलम्भार्थं, सुखावत्यां लोकधाताव्
उपपत्तये कुशलमूलानि परिणामयितव्यानि, यत्र भगवान्
अमितायुस् तथागतो ऽर्हन् सम्यक्संबुद्धः.

एवम् उक्ते, ऽजितो बोधिसत्त्वो भगवन्तम् एतद् अवोचत् :
कियन्तः पुनर् भगवन् बोधिसत्त्वा इतो बुद्धक्षेत्रात्
परिनिष्पन्ना, अन्येषां वा बुद्धानां भगवताम् अन्तिकाद्
ये सुखावत्यां लोकधाताव् उपपत्स्यन्ते. भगवान् आह :
प्61
इतो ह्य् अजित बुद्धक्षेत्राद् द्वासप्ततिकोटीनयुतानि बोधिसत्त्वानां
परिनिष्पन्नानि, यानि सुखावत्यां लोकधाताव् उपपत्स्यन्ते,
परिनिष्पन्नानाम् अवैवर्त्तिकानां बहुबुद्धकोटी-
शतसहस्रावरोपितैः कुशलमूलैः. कः पुनर् वादस्, ततः
परीत्ततरैः कुशलमूलैः.
दुष्प्रसहस्य तथागतस्यान्तिकाद् अष्टादशकोटीनयुतानि
बोधिसत्त्वानां सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;
पूर्वान्तरे दिग्भागे रत्नाकरो नाम तथागतो विहरति.
तस्यान्तिकान् नवतिबोधिसत्त्वकोट्यः सुखावत्याम् लोकधाताव्
उपपत्स्यन्ते ;
ज्योतिष्प्रभस्य तथागतस्यान्तिकाद् द्वाविंशतिबोधिसत्त्वकोट्यः
सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;
अमितप्रभस्य तथागतस्यान्तिकात् पञ्चविंशतिबोधिसत्त्वकोट्यः
सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;
लोकप्रदीपस्य तथागतस्यान्तिकात् षष्टिबोधिसत्त्वकोट्यः
सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;
नागाभिभुवस् तथागतस्यान्तिकात् चतुःषष्तिबोधिसत्त्वकोट्यः
सुखावत्याम् लोकधाताव् उपपत्स्यन्ते ;
विरजप्रभस्य तथागतस्यान्तिकात् पञ्चविंशतिबोधिसत्त्वकोट्यः
सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;
सिंहस्य तथागतस्यान्तिकाद् अष्टादशबोधिसत्त्वसहस्राणि
सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;
श्रीकूटस्य तथागतस्यान्तिकाद् एकाशीतिबोधिसत्त्वकोटीनयुतानि
सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;
नरेन्द्रराजस्य तथागतस्यान्तिकाद् दशबोधिसत्त्वकोटीनयुतानि
सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;
प्62
बलाभिज्ञस्य तथागतस्यान्तिकाद् द्वादशबोधिसत्त्वसहस्राणि
सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;
पुष्पध्वजस्य तथागतस्यान्तिकात् पञ्चविंशतिर् वीर्यप्राप्ता
बोधिसत्त्वकोट्य एकप्रस्थानसंस्थिता एकेनाष्टाहेन
नवनवतिकल्पकोटीनयुतशतसहस्राणि पश्चान्मुखीकृत्य
याः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;
ज्वलनाधिपतेस् तथागतस्यान्तिकाद् द्वादशबोधिसत्त्वकोट्यः
सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;

वैशारद्यप्राप्तस्य तथागतस्यान्तिकाद् एकोनसप्ततिर्
बोधिसत्त्वकोट्यो याः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;
अमिताभस्य तथागतस्य दर्शनाय, वन्दनाय,
पर्युपासनाय परिपृच्छनायै परिप्रश्नीकरणाय.
एतेनाजित पर्यायेण परिपूऋणकल्पकोटीनयुतं नामधेयानि
परिकीर्तयेयं तेषां तथागतानाम्, येभ्यस् ते बोधिसत्त्वा
उपसंक्रामन्ति सुखावतीं लोकधातुं तम् अमिताभं
तथागतं द्रष्टुं वन्दितुं पर्युपासितुं, न च शक्यः
पर्यन्तो ऽधिगन्तुम्.
पश्याजित कियत् सुलब्धलाभास् ते सत्त्वा ये ऽमिताभस्य
तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं
श्रोष्यन्ति, नपि ते सत्त्वा हीनाधिमुक्तिका भविष्यन्ति,
ये ऽन्तश एकचित्तप्रसादम् अपि तस्मिन् तथागते प्रतिलप्स्यन्ते,
ऽस्मिंश् च धर्मपर्याये.
तस्मात् तर्ह्य् अजित ; आरोचयामि वः, प्रतिवेदयामि वः,
सदेवकस्य लोकस्य पुरतो ऽस्य धर्मपर्यायस्य स्रवणाय,
प्63
त्रिसाहस्रमहासाहस्रम् अपि लोकधातुम् अग्निपरिपूऋणाम्
अवगाह्यातिक्रम्यैकचित्तोत्पादम् अपि विप्रतिसारो न कर्तव्यः.
तत् कस्य हेतोः. बोधिसत्त्वकोट्यो ह्य् अजिताश्रवणाद् एषाम्
एवंरूपाणां धर्मपर्यायाणां विवर्तन्ते ऽनुत्तरायाः
सम्यक्संबोधेः. तस्माद् अस्य धर्मपर्यायस्याध्याशयेन
श्रवणोद्ग्रहणधारणार्थां, पर्यवाप्तये,
विस्तरेण संप्रकाशनार्थाय, भावनार्थं च, सुमहद्वीर्यम्
आरब्धव्यम्. अन्तश एकरात्रिम् दिवसम् अप्य्, एक-
गोदोहमात्रम् अप्य् अन्तशः, पुस्तकगतावरोपितम् अपि कृत्वा
सुलिखितो धारयितव्यः, शस्तृसंज्ञा च तत्रोत्पादाय कर्तव्या,
इच्छद्भिः क्षिप्रम् अपरिमितान् सत्त्वान् अवैवर्त्तिकांश्
चानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितुं, तं च
तस्य भगवतो ऽमिताभस्य तथागतस्य बुद्धक्षेत्रं
द्रष्टुम्. आत्मनश् च विसिष्टां बुद्धक्षेत्रगुणालंकारव्यूहसंपदं
परिगृहीतुम् इति.
अपि तु खल्व् अजित ; अत्यर्थं सुलब्धलाभास् ते सत्त्वा
अवरोपितकुशलमूलाः, पूर्वजिनकृताधिकारा, बुद्धाधिष्ठानाधिष्ठिताश्
च भविष्यन्ति, येषाम् अनागते ऽध्वनि, यावत्
सद्धर्मप्रलोपे वर्तमान इम एवंरूपा उदारा धर्मपर्यायाः
सर्वबुद्धसंवर्णिताः, सर्वबुद्धप्रशस्ताः
सर्वबुद्धानुज्ञाता, महतः, सर्वज्ञज्ञानस्य क्षिप्रम् आहारकाः
श्रोतावभासम् आगच्छन्ति. श्रुत्वा चोदारं प्रीतिप्रामोद्यं
प्64

मूल पाठ: Sukhāvatīvyūha · Data entry Yoshimichi Fujita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc