भाषा

ENहिગુ
ग्रंथ पाठ

सुखावतीव्यूह · भाग 4143

प्रतिलप्स्यन्त, उद्ग्रहीष्यन्ति, धारयिष्यन्ति,
वाचयिष्यन्ति, पर्यवाप्स्यन्ति, परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति,
भावनाभिरताश् च भविष्यन्त्य्, अन्तशो लिखित्वा
पूजयिष्यन्ति, बहु च ते पुण्यं प्रसविष्यन्ति, यस्य न
सुकरा संख्या कर्तुम्.
इति ह्य् अजित यत् तथागतेन कृत्यं कृतं तन् मया.
यूष्माभिर् इदानीं निर्विचिकित्सैर् योगः करणीयः. मा संशय
तम् असङ्गम् अनावरणं बुद्धज्ञानम्. मा भूत् सर्वाकारावरोपेत-
रत्नमयपद्मबन्धनागारप्रवेशः. दुर्लभो
ह्य् अजित बुद्धोत्पादः, दुर्लभा धर्मदेशना, दुर्लभा
क्षणसंपत्. आख्याताजित मया पूर्वकुशलमूलपारमिप्राप्तिः.
यूयम् इदानीम् अभियुज्यत प्रतिपद्य वै.
अस्य खलु पुनर् अजित धर्मपर्यायस्य महतीं
परीन्दनां करोम्य् अविप्रनाशाय. मा बुद्धधर्माणाम्
अन्तर्धानाय पराक्रमिष्यथ. मा तथागताज्ञां क्सोभ-
यिष्यथ.
अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अभा-
षत :
नेमे अकृतपुण्यानां श्रवा भेष्यन्ति ईदृशाः,
ये तु ते शूर सिद्धार्थाः ते श्रोष्यन्ति इमां गिरां.(1)
दृष्टो यैश् च हि संबुद्धो
लोकनाथ प्रभंकरः,
स गौरवैः श्रुतो धर्मः
प्रीतिं प्राप्स्यन्ति ते परां.(2)
न शक्त हीनेभि कुशीददृष्तिभिः
बुद्धान धर्मेषु प्रसाद विन्दितुम्.
ये पूर्वबुद्धेषु अकार्षु पूजां,
प्65
ते लोकनाथान् चर्यासु शिक्षिषु.(3)
यथान्धकारे पुरुषो ह्य् अचक्षुः
मार्गं न जाने कुतु संप्रकाशयेत्.
सर्वे तथा श्रावक बुद्धज्ञाने
अजानकाः किं पुनर् अन्यसत्त्वाः.(4)
बुद्धो हि बुद्धस्य गुणा प्रजानते.
न देवनागासुरयक्षश्रावकाः.
प्रत्येकबुद्धान पि को गती यथो,
बुद्धस्य ज्ञाने हि प्रकाश्यमाने.(5)
यदि सर्वसत्त्वाः सुगता भवेयुः
विशुद्धज्ञाना परमकोविदा,
ते कल्पकोटीर् अथ वापि उत्तरे

एकस्य बुद्धस्य गुणान् कथेयुः.(6)
अत्रान्तरे निर्वृत ते भवेयुः
प्रकाश्यमाना बहुकल्पकोटीः,
न च बुद्धज्ञानस्य प्रमाणु लभ्यते,
तथा हि ज्ञानाश् चरियं जिनानां.(7)
तस्मान् नरः पण्डित विज्ञजातियः,
यो मह्य वाक्यम् अभिश्रद्धधेयुः,
कृत्स्नां स साक्षी जिनज्ञानराशिं.
बुद्ध प्रजानाति गिराम् उदीरयेत्.(8)
कदाचि लभ्याति मनुष्यलाभः,
कदाचि बुद्धान पि प्रादुर्भावः.
श्रद्धा थ प्रज्ञा सुचिरेण लप्स्यते,
तस्यार्थप्रज्ञैर् जनयाथ वीर्यं.(9)
य ईदृशां धर्म श्रुणित्वा श्रेष्ठां
लभ्यन्ति प्रीतिं सुगतं स्मरन्तः,
ते मित्रम् अस्माकम् अतीतम् अध्वनि,
ये बुद्धा बोधाय जनेन्ति च्छन्दम्, इति.(10)
प्66
अस्मिन् खलु पुनर् धर्मपर्याये भगवता भाष्यमाने
द्वादशानां सत्त्वनयुतकोटीनां विरजो विगतमलं धर्मेषु
धर्मचक्षुर् विशुद्धं, चतुर्विंशत्या कोटीभिर् अनागामिफलं
प्राप्तम्. अष्टानां भिक्षुशतानाम् अनुत्पादायास्रवेभ्यश्
चित्तानि विमुक्तानि. पञ्चविंशत्या बोधिसत्त्वकोटीभिर्
अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धाः. देवमानुषिकायाश्
च प्रजायाश् चत्वारिंशत्कोटीनयुतशतसहस्राणाम् अनुत्पत्तिपूर्वाण्य्
अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि
सुखावत्युपपत्तये च कुशलमूलान्य् अवरोपितानि, भगवतो
ऽमिताभस्य दर्शनकामतया.
सर्वे ते तत्रोत्पाद्यानुपूर्वेण मञ्जुस्वरा नाम तथागता
अन्येषु लोकधातुषूपपत्स्यन्ते. अशीतिश् च नयुतकोट्यो दीपङ्करेण
तथागतेन लब्धक्षान्तिका अवैवर्त्या अनुत्तरायाः
सम्यक्संबोधेर्, अमितायुषैव तथागतेन परिपाचिताः
पूर्वबोधिसत्त्वचर्याश् चरन्तास्, ताश् च सुखावत्यां
लोकधाताव् उपपद्य पूर्वप्रणिधानचर्याः परिपूरयिष्यन्ति.
तस्यां च वेलायाम् अयं त्रिसाहस्रमहासाहस्रो लोकधातुः
षड्विकारं प्रकम्पितः. विविधानि च प्रातिहार्याणि
संदृश्यन्ति, जानुमात्रं च मन्दरवपुष्पैः पृथिव्यां
संस्तृतम् अभूत्. दिव्यमानुषिकानि च तूर्याणि संवादितान्य्
अभूवन्. अनुमोदकाशब्देन च यावद् अकनिष्ठभवनं
विज्ञप्तम् अभूत्.

इदम् अवोचद् भगवान् आत्तमना, अजितो बोधिसत्त्वो महासत्त्व
आयुष्मांश् चानन्दः, सा च सर्वावती पर्षत्
सदेवमानुष्यासुरगन्धर्वश् च लोको भगवतो भाषितम्
प्67
अभ्यनन्दन्न् इति.
भगवतो ऽमिताभस्य गुणपरिकीर्तनं बोधिसत्त्वानाम्
अवैवर्त्तिकभूमिप्रवेशः. अमिताभस्य सुखावती-व्यूह-
परिवर्तः समाप्तः.

मूल पाठ: Sukhāvatīvyūha · Data entry Yoshimichi Fujita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc