भाषा

ENहिગુ
ग्रंथ पाठ

सुखावतीव्यूह · भाग 120

प्1
ओं नमो दशदिगनन्तापर्यन्तलोकधातुप्रतिष्ठितेभ्यः
सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्यो ऽतीतानागत-
प्रत्युत्पन्नेभ्यः.
नमो ऽमिताभाय. नमो ऽमितायुषे. नमो ऽचिन्त्यगुणाक-
रात्मने.
नमो ऽमिताभाय जिनाय, ते मुने.
सुखावतीं यामि ते चानुकम्पया.
सुखावतीं कनकविचित्रकाननां
मनोरमां सुगतसुतैर् अलंकृतां.
तथाश्रयां प्रथितयशस्य धीमतः,
प्रयामि तां बहुगुणरत्नसंचयाम्.
एवं मया श्रुतम् : एकस्मिन् समये भगवान् राजगृहे
विहरति स्म, गृध्रकूटे पर्वते महता भिक्षुसंघेन
सार्धं द्वात्रिंशता भिक्षुसहस्रैः, सर्वैर् अर्हद्भिः
क्षीणास्रवैर् निःक्लेशैर् उषितवद्भिः सम्यगाज्ञासुविमुक्तचित्तैः
परिक्षीणभवसंयोजनसहस्रैर् अनुप्राप्तस्वकार्थैर्
विजितवद्भिर्, उत्तमदमने शमथप्राप्तैः,
सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् महानागैः, षडभिज्ञैर्
वशीभूतैर् अष्टविमोक्षध्यायिभिर् बलप्राप्तैर् अभिज्ञानाभिज्ञातैः,
स्थविरैर्, महाश्रावकैः. तद् यथा : आज्ञातकौण्डिन्येन
च, अश्वजिता च, बाष्पेण च, महानाम्ना च, भद्रजिता
प्2
च, यशोदेवेन च, विमलेन च, सुबाहुना च, पूर्णेन
च मैत्रायणीपुत्रेण, गवांपतिना च, उरुविल्वाकाश्यपेन
च, नदीकाश्यपेन च, भद्रकाश्यपेन च, कुमारकाश्यपेन
च, महाकाश्यपेन च, शारिपुत्रेण च, महामौद्गल्यायनेन
च, महाकप्फिनेन च, महाचुन्देन च,
अनिरुद्धेन च, राधेन च, नन्दिकेन च, किम्पिलेन च,
सुभूतिना च, रेवतेन च, खदिरवनिकेन च, वक्कुलेन
च, स्वागतेन च, अमोघराजेन च, पारायणिकेन च, पन्थेन
च, चूलपन्थेन च, नन्देन च, राहुलेन च, आयुष्मता
चानन्देन. एभिश् चान्यैश् चाभिज्ञानाभिज्ञातैः स्थविरैर्
महाश्रावकैर्, एकपुद्गलं स्थापयित्वा शैक्षप्रतिपद्य् उत्तरिकरणीयं,
यद् इदम् : आयुष्मन्तम् आनन्दं, मैत्रेयपूर्वंगमैश्
च संबहुलैश् च बोधिसत्त्वैर् महासत्त्वैः.
अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांशम्
उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य
येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम्
एतद् अवोचत् : विप्रसन्नानि च तव भगवत इन्द्रियाणि,

परिशुद्धश् छविवर्णः, पर्यवदातो मुखवर्णः पीतनिर्भासः,
तद् यथा शारदं वनदं पाण्डु परिशुद्धं
पर्यवदातं पीतनिर्भासं. एवम् एव भगवतो
विप्रसन्नानीन्द्रियाणि, परिशुद्धो मुखवर्णः, पर्यवदातश्
छविवर्णः पीतनिर्भासः. तद् यथापि नाम भगवञ्
जांबूनदसुवर्णनिष्को, दक्षेण कर्मारेण कर्मारपुत्रेण
वोल्कामुखे संप्रवेश्य सुपरिनिष्ठितः पाण्डुकम्बलैर्
प्3
उपरि क्षिप्तो, ऽतीवपरिशुद्धो भवति ; पर्यवदातः
पीतनिर्भासः. एवम् एव भगवतो विप्रसन्नानीन्द्रियाणि,
परिशुद्धो मुखवर्णः, पर्यवदातश् छविवर्णः पीतनिर्भासः.
न खलु पुनर् अहं भगवन्न् अभिजानामि : इति
पूर्वं पुर्वतरम्, एवं विप्रसन्नानि तथागतस्येन्द्रियाण्य्,
एवं परिशुद्धं मुखवर्णं, पर्यवदातं छविवर्णं
पीतनिर्भासम्. तस्य मे भगवन्न् एवं भवति : बुद्धविहारेण
वताद्य तथागतो विहरति ; जिनविहारेण, सर्वज्ञताविहारेण,
महानागविहारेण वताद्य तथागतो विहरति.
अतीतानागतप्रत्युत्पन्नान् तथागतान् अर्हतः सम्यक्संबुद्धान्
समनुपश्यतीति.
एवम् उक्ते, भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् :
साधु साध्व् आनन्द, किं पुनस् ते देवता एतम् अर्थम् आरोचयन्त्य्,
उताहो बुद्धा भगवन्तः. अथ स्वेन प्रत्युत्पन्न-
मीमांसाज्ञानेनैवं प्रजानासीति. एवम् उक्ते, आयुष्मान्
आनन्दो भगवन्तम् एतद् अवोचत् : न मे भगवन् देवता
एतम् अर्थम् आरोचयन्ति, नापि बुद्धा भगवन्तः. अथ
तर्हि मे भगवन् स्वेनैव प्रत्यात्ममीमांसाज्ञानेनैवं
भवति : बुद्धविहारेणाद्य तथागतो विहरति ; जिनविहारेण,
सर्वज्ञताविहारेण, महानागविहारेण वताद्य तथागतो विहरति ;
अतीतानागतप्रत्युत्पन्नान् सर्वान् बुद्धान् भगवतः
प्4
समनुपश्यतीति.
एवम् उक्ते, भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् :
साधु साध्व् आनन्द ; उदारः खलु त उन्मिञ्जिः, भद्रिका
मीमांसा, कल्यानं प्रतिभानं, बहुजनहिताय यस्
त्वम् आनन्द प्रतिपन्नो, बहुजनसुखाय, लोकानुकम्पायै,
महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्यानां
च, यस् त्वं तथागतम् एतम् अर्थं परिप्रष्टव्यं
मन्यसे. एवम् एतद् भवत्य् आनन्द, तथागतेष्व् अर्हत्सु
सम्यक्संबुद्धेष्व् अप्रमेयेष्व् असंख्येयेषु ज्ञानदर्शनम्
उपसंहरतः, न च तथागतस्य ज्ञानम् उपहन्यते.

तत् कस्य हेतोः. अप्रतिहतहेतुज्ञानदर्शनो ह्य् आनन्द तथागतः.
आकाङ्क्षन् आनन्द तथागत एकपिण्डपातेन
कल्पं वा तिष्ठेत्, कल्पशतं वा, कल्पसहस्रं वा, कल्पशतसहस्रं
वा, यावत् कल्पकोटीनयुतशतसहस्रं वा, ततो
वोत्तरि, न च तथागतस्येन्द्रियाण्य् उपनश्येयुः ; न मुख-
वर्णस्यान्यथात्वं भवेत् ; नापि छविवर्ण उपहन्यते. तत्
कस्य हेतोः. तथा ह्य् आनन्द तथागतः समाधिमुख-
पारमिताप्राप्तः. सम्यक्संबुद्धानाम् आनन्द लोके सुदुर्लभः
प्रादुर्भावः ; तद् यथोदुम्बरपुष्पाणां लोके प्रादुर्भावः
सुदुर्लभो भवति, एवम् एव तथागतानाम् अर्थकामानां
हितैषिणाम् अनुकम्पकानां महाकरुणाप्रतिपन्नानां
सुदुर्लभः प्रादुर्भावः. अपि तु खल्व् आर्यानन्द
प्5
तथागतस्यैवैषो ऽनुभावो, यस् त्वं सर्वलोकाचार्याणाम्
सत्त्वानां लोके प्रादुर्भावाय बोधिसत्त्वानां महासत्त्वानाम्
अर्थाय तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे.
तेन ह्य् आनन्द शृणु साधु च सुष्ट्ःउ च, मनसि कुरु,
भाषिष्ये ऽहं ते. एवं भगवन्न् इत्य् आयुष्मान् आनन्दो
भगवतः प्रत्यश्रौषीत्.
भगवांस् तस्यैतद् अवोचत् : भूतपूर्वम् आनन्दातीते
ऽध्वनीतो ऽसंख्येये कल्पे ऽसंख्येयतरे विपुले ऽप्रमेये
ऽचिन्त्ये, यदासीत् तेन कालेन तेन समयेन दीपंकरो नाम
तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि. दीपंकरस्यानन्द
परेण परतरं प्रतापवान् नाम तथागतो
ऽभूत्. तस्य परेण परतरं प्रभाकरो नाम तथागतो
ऽभूत्. तस्य परेण परतरं चन्दनगन्धो नाम तथागतो
ऽभूत्. तस्य परेण परतरं सुमेरुकल्पो नाम तथागतो
ऽभूत्. एवं चन्द्राननो नाम, विमलाननो नाम,
अनुपलिप्तो नाम, विमलप्रभो नाम, नागाभिभूर् नाम,
सूर्याननो नाम, गिरिराजघोषो नाम, सुमेरुकूटो नाम, सुवर्णप्रभासो
नाम, ज्योतिष्प्रभो नाम, वैडूर्यनिर्भासो नाम,
ब्रह्मघोषो नाम, चन्द्राभिभूर् नाम, सूर्यघोषो
नाम, मुक्तकुसुमप्रतिमण्डितप्रभो नाम, श्रीकूतो नाम,
सागरवरबुद्धिविक्रीडिताभिज्ञो नाम, वरप्रभो नाम,
महागन्धराजनिर्भासो नाम, व्यपगतखिलमलप्रतिघो
नाम, शूरकूटो नाम, रत्नजहो नाम, महागुणधरबुद्धिप्राप्ताभिज्ञो
नाम, चन्द्रसूर्यजिह्मीकरणो नाम, उत्तप्तवैडूर्यनिर्भासो
नाम, चित्तधाराबुद्धिसंकुसुमिताभ्युद्गतो
प्6
नाम पुष्पावतीवनराजसंकुसुमिताभिज्ञो नाम, पुष्पाकरो

नाम, उदकचन्द्रोपमो नाम, अविद्यान्धकारविध्वंसनकरो
नाम, लोकेन्द्रो नाम, मुक्तच्छत्राप्रवाडसदृशो
नाम, तिष्यो नाम, धर्ममतिविनन्दितराजो नाम, सिंह-
सागरकूटविनन्दितराजो नाम, सागरमेरुचन्द्रो नाम, ब्रह्म-
स्वरनादाभिनन्दिनो नाम, कुसुमसंभवो नाम, प्राप्तसेनो
नाम, चन्द्रभानुर् नाम, मेरुकूटो नाम, चन्द्रप्रभो
नाम, विमलनेत्रो नाम, गिरिराजघोषेश्वरो नाम,
कुसुमप्रभो नाम, कुसुमवृष्ट्याभिप्रकीर्णो नाम, रत्नच्छत्रो
नाम, पद्मवीथ्युपशोभितो नाम, तगरगन्धो
नाम, रत्ननिर्भासो नाम, निर्मितो नाम, महाव्यूहो नाम,
व्यपगतखिलदोषो नाम, ब्रह्मघोषो नाम, सप्तरत्नाभिवृष्टो
नाम, महागुणधरो नाम, तमालपत्रचन्दनकर्दमो
नाम, कुसुमाभिज्ञो नाम, अज्ञानविध्वंसनो
नाम, केशरी नाम, मुक्तच्छत्रो नाम, सुवर्णगर्भो
नाम, वैडूर्यगर्भो नाम, महाकेतुर् नाम, धर्मकेतुर्
नाम, रत्नश्रीर् नाम, नरेन्द्रो नाम, लोकेन्द्रो नाम,
कारुणिको नाम, लोकसुन्दरो नाम, ब्रह्मकेतुर् नाम,
धर्ममतिर् नाम, सिंहो नाम, सिंहमतिर् नाम, सिंहमतेर्
आनन्द परेण परतरं लोकेश्वरराजो नाम तथागतो
ऽर्हन् सम्यक्संबुद्धो लोक उदपादि, विद्याचरण-
संपन्नः, सुगतो, लोकविदनुत्तरः, पुरुषदम्यसारथिः,
शास्ता देवानां च मनुष्याणां च, बुद्धो, भगवान्.
तस्य खलु पुनर् आनन्द लोकेश्वरराजस्य तथागतस्यार्हतः
सम्यक्संबुद्धस्य प्रवचने धर्माकरो नाम
भिक्षुर् अभूद्, अधिमात्रं स्मृतिमान्, गतिवान्, प्रज्ञावान्,
अधिमात्रं वीर्यवान्, उदाराधिमुक्तिः.
अथ खलु आनन्द स धर्माकरो भिक्षुर् उत्थायासनाद्
प्7
एकांसम् उत्तरासङ्गं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां
प्रतिष्ठाप्य, येनासौ भगवान् लोकेश्वरराजस् तथागतस्
तेनाञ्जलिं प्रणम्य, भगवन्तं नमस्कृत्य,
तस्मिन् समये संमुखम् आभिर् गाथाभिर् अभ्यष्टावीत् :
अमितप्रभ, अनन्ततुल्यबुद्धे,
न च इह अन्यप्रभा विभाति काचित्.
सूर्यमणिसिरीण चन्द्र-आभा,
न तपि न भासिषु एभि सर्वलोके. (1)
रूपम् अपि अनन्तु सत्त्वसारे,
तथ अपि बुद्धस्वरो अनन्तघोषः.
शीलम् अपि समाधिप्रज्ञवीर्यैः
सदृशु न ते ऽस्तिह लोकि कश्चिद् अन्यः. (2)

गभिरु विपुलु सूक्ष्म प्राप्तु धर्मो,
अचिन्ततु बुद्धवरो यथा समुद्रः.
तेनोन्नमना न चास्ति शास्तुः,
खिलदोषं जहिया अतार्षि पारम्. (3)
यथ बुद्धवरो अनन्ततेजा
प्रतपति सर्वदिशा नरेन्द्रराजा,
तथ अहु बुद्ध भवित्व धर्मस्वामी,
जरमरणान् प्रजां प्रमोचयेयम्. (4)
दानदमथशीलक्षान्तिवीर्य-
ध्यानसमाधि तथैव अग्रश्रेष्ठां,
एभि अहु व्रतां समाददामि,
बुद्ध भविष्यामि सर्वसत्त्वत्राता. (5)
बुद्धशतसहस्रकोट्य् अनेका
प्8
यथरिव वालिक गङ्गया अनन्ता,
सर्व त अहु पूजयिष्य नाथान्
शिववरबोधिगवेषको अतुल्यां. (6)
गङ्गरजसमान लोकधातूं
तत्र भूयोत्तरि ये अनन्त क्षेत्रा,
सर्वत प्रभ मुञ्चयिष्ये तत्रा
इति एतादृशि वीर्यम् आरभिष्ये. (7)
क्षेत्र मम उदारु अग्रश्रेष्ठो,
वरम् इह मण्ड पि संस्कृतेस्मिन्.
असदृश निर्वाणलोकधातुसौख्यं,
तच् च असत्त्वतया विशोधयिष्ये. (8)
दशदिशत समागतानि सत्त्वा
तत्र गताः सुखम् एधिष्यन्ति क्षिप्रम्.
बुद्ध मम प्रमाण अत्र साक्षी,
अवितथवीर्यबलं जनेमि च्छन्दं. (9)
दशदिशे लोकविदू असङ्गज्ञानी
सद मम चित्तु प्रजानयन्तु ते पि.
अविचिगतु अहं सदा वसेयं,
प्रणिधिबलं न पुनर् निवर्तयिष्ये. (10)
अथ खलु आनन्द स धर्माकरो भिक्षुस् तं भगवन्तं
लोकेश्वरराजं तथागतम् संमुखम् आभिर् गाताभिर्
अभिष्टुत्यैतद् अवोचत् : अहम् अस्मि भगवन्न् अनुत्तरां
सम्यक्संबोधिम् अभिसंबोधुकामः, पुनः पुनर्
अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयामि, परिणामयामि.
तस्य मे भगवान् साधु तथा धर्मं देशयतु,
यथाहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुधेयं ;

प्9
असमसमस् तथागतो लोके भवेयं ; तांश् च मे
भगवान् आकारान् परिकीर्तयतु, यैर् अहं बुद्धक्षेत्रस्य
गुणव्यूहसंपदं परिगृह्नीयाम्. एवम् उक्तश् चानन्द स
भगवांल् लोकेष्वरराजस् तथागतस् तं भिक्षुम् एतद्
अवोचत् : तेन हि त्वं भिक्षो स्वयम् एव बुद्धक्षेत्र-
गुणालंकारव्यूहसंपदं परिगृह्णीषे. सो ऽवोचत् : नाहं
भगवन्न् उत्सहे. अपि तु भगवान् एव भाषत्व् अन्येषां
तथागतानां बुद्धक्षेत्रगुणव्यूहालंकारसंपदं, यां
श्रुत्वा वयं सर्वाकारां परिपूरयिष्याम इति.
अथानन्द स लोकेश्वरराजस् तथागतो ऽर्हन् सम्यक्संबुद्धस्
तस्य भिक्षोर् आशयं ज्ञात्वा, परिपूर्णां वर्षकोटीम्
एकाशीतिबुद्धकोटीनयुतशतसहस्राणां बुद्धक्षेत्रगुणालंकार-
व्यूहसंपदं साकारां सोद्देशां सनिर्देशां संप्रकाशितवान् ;
अर्थकामो, हितैष्य्, अनुकम्पको, ऽनुकम्पाम्
उपादाय, बुद्धनेत्र्यानुपच्छेदाय, सत्त्वेषु महाकरुणां
संजनयित्वा. परिपूर्णांश् च द्वाचत्वारिम्शत्कल्पांस् तस्य
भगवत आयुष्प्रमाणम् अभूत्.
अथ खल्व् आनन्द स धर्माकरो भिक्षुर् यास् तेषाम् एकाशीति-
बुद्धकोटीनयुतशतसहस्राणां बुद्धक्षेत्रगुणालंकार-
व्यूहसंपदस् ताश् च सर्वा एकबुद्धक्षेत्रे परिगृह्य,
भगवतो लोकेश्वरस्य तथागतस्य पादौ शिरसा वन्दित्वा,
प्रदक्षिणीकृत्य, तस्य भगवतो ऽन्तिकात् प्राक्रामत्. उत्तरि
च पञ्चकल्पान् बुद्धक्षेत्रगुणालंकारव्यूहसंपदम्,
प्10
उदारतरांश् च प्रणीततरांश् च, सर्वलोके दशसु दिक्ष्व्
अप्रचरितपूर्वां परिगृहीतवान् ; उदारं च प्रणिधानम्
अकार्षीत्. इति ह्य् आनन्द या तेन भगवता लोकेश्वरराजेन
तथागतेन तेषाम् एकाशीतिबुद्धक्षेत्रकोटीनयुतशतसहस्राणां
संपत्तिः कथिता, ततो ऽतिरेकान्य् उदारप्रणीताप्रमेयतरां
बुद्धक्षेत्रसंपत्तिं परिगृह्य, येन स तथागतस्
तेनोपसंक्रम्य, तस्य भगवतः पादौ शिरसा वन्दित्वैतद्
अवोचत् : परिगृहीता मे भगवन् बुद्धक्षेत्रगुणालंकार-
व्यूहसंपद् इति. एवम् उक्ते, आनन्द, स लोकेश्वरराजस्
तथागतस् तं भिक्षुम् एतद् अवोचत् : तेन हि भिक्षो भाषस्व.
अनुमोदते तथागतः. अयं कालो भिक्षो, प्रमोदय
पर्षदं, हर्षं जनय, सिंहनादं नद, यं श्रुत्वा
बोधिसत्त्वा महासत्त्वा एतर्ह्य् अनागते चाध्वन्य् एवंरूपाणि
बुद्धक्षेत्रसंपत्तिप्रणिधानानि परिगृहीष्यन्ति.
अथानन्द स धर्माकरो भिक्षुस् तस्यां वेलायां तं

भगवन्तम् एतद् अवोचत् : तेन हि शृणोतु मे भगवान्, ये
मम प्रणिधानविशेषाः, यथा मे ऽनुत्तरां सम्यक्संबोधिम्
अभिसंबुद्धस्ये. अचिन्त्यगुणालंकारव्यूहसमन्वागतं
तद् बुद्धक्षेत्रं भविष्यति :
1. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे निरयो वा,
तिर्यग्योनिर् वा, प्रेतविषयो वासुरो वा कायो भवेत्, मा तावद्
अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
2. सचेन् मे भगवंस् तत्र बुद्धक्षेत्रे ये सत्त्वाः
प्11
प्रत्याजाता भवेयुस्, ते पुनस् ततश् च्युत्वा, निरयं वा,
तिर्यग्योनिं वा, प्रेतविषयं वासुरं वा कायं प्रपतेयुर्,
मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये-
यम्.
3. सचेन् मे भगवंस् तत्र बुद्धक्षेत्रे ये सत्त्वाः
प्रत्याजातास्, ते च सर्वे नैकवर्णाः स्युर्, यद् इदं : सुवर्णवर्णाः,
मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम्
अभिसम्बुध्येयम्.
4. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे देवानां
च मनुष्यानां च नानात्वं प्रज्ञयेतान्यत्र नामसंकेत-
संवृतिव्यवहारमात्रा देवा मनुष्या इति संख्यागणनातो,
मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये-
यम्.
5. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः
प्रत्याजातास् ते चेत् सर्वे न र्द्धिवशिता परमपारमिताप्राप्ता
भवेयुर्, अन्तश एकचित्तक्षणलवेन बुद्धक्षेत्रकोटीनियुत-
शतसहस्रातिक्रमणतयापि, मा तावद् अहम् अनुत्तरां
सम्यक्संबोधिम् अभिसंबुध्येयम्.
6. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः
प्रत्याजाता भवेयुस्, ते चेत् सर्वे न जातिस्मरा स्युर्, अन्तशः
कल्पकोटीनियुतशतसहस्रानुस्मरणतयापि, मा तावद् अहम्
अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
7. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः
प्रत्याजायेरंस्, ते सर्वे न दिव्यस्य चक्षुषो लाभिनो भवेयुर्,
अन्तशो लोकधातुकोटीनयुतशतसहस्रादर्शनतयापि, मा
प्12
तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
8. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये
सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न दिव्यस्य श्रोत्रस्य लाभिनो
भवेयुर्, अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्राद् अपि युगपत्
सद्धर्मश्रवणतया, मा तावद् अहम् अनुत्तरां

सम्यक्संबोधिम् अभिसंबुध्येयम्.
9. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः
प्रत्याजायेरंस्, ते सर्वे न परचित्तज्ञानकोविदा भवेयुर्,
अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्रपर्यापन्नानां
सत्त्वानां चित्तचरित्रपरिज्ञानतया, मा तावद् अहम् अनुत्तरां
सम्यक्संबोधिम् अभिसंबुध्येयम्.
10. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये
सत्त्वाः प्रत्याजायेरंस्, तेषां काचित् परिग्रहसंज्ञोत्पद्येतान्तशः
स्वशरीरे ऽपि, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम्
अभिसंबुध्येयम्.
11. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः
प्रत्याजायेरंस्, ते सर्वे न नियताः स्युर्, यद् इदं : सम्यक्त्वे
यावन् महापरिनिर्वाणाद्, मा तावद् अनुत्तरां सम्यक्संबोधिम्
अभिसंबुध्येयम्.
12. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ऽनुत्तरां
सम्यक्संबोधिम् अभिसंबुद्धस्य, कश्चिद् एव सत्त्वः
श्रावकानां गणानाम् अधिगच्छेद्, अन्तशस् त्रिसाहस्र-
महासाहस्रपर्यापन्ना अपि सर्वसत्त्वाः प्रत्येकबुद्धभूताः
कल्पकोटीनियुतशतसहस्रम् अपि गणयन्तो, मा तावद्
अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
13. सचेन् मे भगवन्न् अनुत्तरां सम्यक्संबोधिम्
प्13
अभिसंबुद्धस्य, तस्मिन् बुद्धक्षेत्रे प्रामाणिकी मे प्रभा
भवेद्, अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्रप्रमाणेनापि,
मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभि-
संबुध्येयम्.
14. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ऽनुत्तरां
सम्यक्सम्बोधिम् अभिसंबुद्धस्य बोधिप्राप्तस्य,
सत्त्वानां प्रमाणीकृत्यम् आयुष्प्रमानं भवेद्, अन्यत्र
प्रणिधानवशेन, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम्
अभिसंबुध्येयम्.
15. सचेन् मे भगवन् बोधिप्राप्तस्यायुष्प्रमाणं पर्यन्तीकृत्यं
भवेद्, अन्तशः कल्पकोटीनयुतशतसहस्रगणनयापि,
मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभि-
संबुध्येयम्.
16. सचेन् मे भगवन् बोधिप्राप्तस्य तस्मिन् बुद्धक्षेत्रे
सत्त्वानाम् अकुशलस्य नामधेयम् अपि भवेन्, मा
तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
17. सचेन् मे भगवन् बोधिप्राप्तस्य, नाप्रमेयेषु
बुद्धक्षेत्रेष्व् अप्रमेयासंख्येया बुद्धा भगवतो नामधेयं

परिकीर्तयेयुर्, न वर्णं भाषेरन्, न प्रशंसाम्
अभ्युदीरयेयुर्, न समुदीरयेयुर्, मा तावद् अहम् अनुत्तरां
सम्यक्संबोधिम् अभिसंबुध्येयम्.
18. सचेन् मे भगवन् बोधिप्राप्तस्य, ये सत्त्वा अन्येषु
लोकधातुष्व् अनुत्तरायाः सम्यक्संबोधेश् चित्तम् उत्पाद्य,
मम नामधेयं श्रुत्वा, प्रसन्नचित्ता माम् अनुस्मरेयुस्,
तेषां चेद् अहं मरणकालसमये प्रत्युपस्थिते भिक्षुसंघ-
परिवृतः पुरस्कृतो न पुरतस् तिष्ठेयम्, यद्
इदं : चित्ताविक्षेपतायै, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम्
प्14
अभिसंबुध्येयम्.
19. सचेन् मे भगवन् बोधिप्राप्तस्याप्रमेयासंख्येयेषु
बुद्धक्षेत्रेषु ये सत्त्वाः मम नामधेयं श्रुत्वा,
तत्र बुद्धक्षेत्रे चित्तं प्रेषयेयुर्, उपपत्तये कुशलमूलानि
च परिणामयेयुस्, ते च तत्र बुद्धक्षेत्रे नोपपद्येरन्,
अन्तशो दशभिश् चित्तोत्पादपरिवर्तैः, स्थापयित्वानन्तर्यकारिणः
सद्धर्मप्रतिक्षेपावरणावृतांश् च सत्त्वान्, मा
तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
20. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
बोधिसत्त्वाः प्रत्याजायेरन्, ते सर्वे न द्वात्रिंशता
महापुरुषलक्षणैः समन्वागता भवेयुर्, मा तावद्
अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
21. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
ये सत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे नैकजातिबद्धाः
स्युर् अनुत्तरायां सम्यक्संबोधौ, स्थापयित्वा प्रणिधानविशेषांस्
तेषाम् एव बोधिसत्त्वानां महासत्त्वानां, महा-
संनाहसंनद्धानां, सर्वलोकार्थसंनद्धानां, सर्व-
लोकार्थाभियुक्तानां, सर्वलोकपरिनिर्वापिताभियुक्तानां,
सर्वलोकधातुषु बोधिसत्त्वचर्यां चरितुकामानां, सर्व-
बुद्धान् सत्कर्तुकामानां, गङ्गानदीवालुकसमान् सत्त्वान्
अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापकानां, भूयश् चोत्तरि-
चर्याभिमुखानां समन्तभद्रचर्यानियतानां, मा
तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
22. सचेन् मे भगवन् बोधिप्राप्तस्य, तद्-बुद्धक्षेत्रे
प्15
ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्, ते सर्व एकपुरोभक्तेनान्यानि
बुद्धक्षेत्राणि गत्वा, बहूनि बुद्धशतानि, बहूनि
बुद्धसहस्राणि, बहूनि बुद्धशतसहस्राणि, बह्वीर्
बुद्धकोटीर्, यावद् बहूनि बुद्धकोटीनियुतशतसहस्राणि, नोपतिष्ठेरन्
सर्वसुखोपधानैर्, यद् इदं : बुद्धानुभावेन,

मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसं-
बुध्येयम्.
23. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
ये बोधिसत्त्वा यथारूपैर् आकारैर् आकांक्षेयुः कुषलमूलान्य्
अवलोपितुं, यद् इदं : सुवर्णेन वा, रजतेन वा,
मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडस्फटिकमुसालगल्वालोहित-
मुक्ताश्मगर्भादिभिर् वान्यतमान्यतमैः सर्वरत्नैर्
वा, सर्वपुष्पगन्धमाल्यविलेपनचूर्णचीवरच्छत्र-
ध्वजपताकाप्रदीपैर् वा, सर्वनृत्यगीतवाद्यैर् वा, तेषां
चेत् तथारूपा आकाराः सहचित्तोत्पादान् न प्रादुर् भवेयुर्,
मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये-
यम्.
24. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
ये सत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे न सर्वज्ञतासहगतां
धर्मां कथाम् कथयेयुर्, मा तावद् अहम् अनुत्तरां
सम्यक्संबोधिम् अभिसंबुध्येयम्.
25. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
बोधिसत्त्वानाम् एवं चित्तम् उत्पाद्येत, यन् न्व् इहैव
वयं लोकधातौ स्थित्वाप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु
बुद्धान् भगवतः सत्कुर्यामो गुरुकुर्यामो मानयेमः
प्16
पूजयेमः, यद् इदं : चीवरपिण्डपातशयनासनग्लान-
प्रत्ययभैषज्यपरिष्कारैः पुष्पधूपगन्धमाल्यविलेपन-
चूर्णचीवरच्छत्रध्वजपताकाभिर् नानाविधनृत्तगीतवादित-
रत्नवर्षैर् इति, तेषां चेत् ते बुद्धा भगवन्तः सहचित्तोत्पादान्
तन् न प्रतिगृह्णीयुर्, यद् इदम् : अनुकम्पाम् उपादाय,
मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसं-
बुध्येयम्.
26. सचेन् मे भगवन् बोधिप्राप्तस्य, तद्-बुद्धक्षेत्रे
ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे न नारायण-
वज्रसंहननात्मभावस्थामप्रतिलब्धा भवेयुर्,
मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये-
यम्.
27. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
कश्चित् सत्त्वो ऽलंकारस्य वर्णपर्यन्तम् अनुगृह्णीयाद्,
अन्तशो न दिव्येनापि चक्षुषैवंवर्णम् एवंविभूतिर् इति
बुद्धक्षेत्रम् इति नानावर्णतां संजानीयान्, मा तावद् अहम्
अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
28. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
यः सर्वपरीत्तकुशलमूलो बोधिसत्त्वः स षोडशयोजन-

शतोच्छ्रितम् उदारवर्णबोधिवृक्षं न संजानीयान्, मा
तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये-
यम्.
29. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
प्17
कस्यचित् सत्त्वस्योद्देशो वा स्वाध्यायो वा कर्तव्यः स्यान्,
न ते सर्वे प्रतिसंवित्प्राप्ता भवेयुर्, मा तावद् अहम्
अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
30. सचेन् मे भगवन् बोधिप्राप्तस्य, नैवंप्रभास्वरं
तद् बुद्धक्षेत्रं भवेद्, यत्र समन्ताद् अप्रमे-
यासंख्येयाचिन्त्यातुल्यापरिमाणानि बुद्धक्षेत्राणि संदृश्येरन्,
तद् यथापि नाम सुपरिमृष्ट आदर्शमण्डले मुखमण्डलं,
मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम्
अभिसंबुध्येयम्.
31. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
धरणितलम् उपादाय, यावद् अन्तरीक्षाद्, देवमन्ष्यवि-
षयातिक्रान्तस्याभिजातस्य धूपस्य तथागतस्य बोधिसत्त्वस्य
पूजा प्रत्यहं सर्वरत्नमयानि नानासुरभिगन्धघटिकाशत-
सहस्राणि सदा निर्धूपितान्य् एव न स्युर्, मा तावद्
अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
32. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
न सदाभिप्रविष्टान्य् एव सुगन्धिनानारत्नपुष्पवर्षाणि,
सदा प्रवादिताश् च मनोज्ञस्वरा वाद्यमेघा न स्युर्,
मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये-
यम्.
33. सचेन् मे भगवन् बोधिप्राप्तस्य, ये सत्त्वा अप्र-
मेयासंख्येयाचिन्त्यातुल्येषु लोकधातुष्व् आभया स्फुटा भवेयुस्,
ते सर्वे न देवमनुष्यसमतिक्रान्तेन सुखेन समन्वागता
प्18
भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम्
अभिसंबुध्येयम्.
34. सचेन् मे भगवन् बोधिप्राप्तस्य, समन्ताच् चाप्र-
मेयासंख्येयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु बोधिसत्त्वा
मम नामाधेयं श्रुत्वा, तच्-छ्रवणसहगतेन
कुशलमूलेन जातिव्यवृत्ताः सन्तो, न धारणीप्रतिलब्धा
भवेयुर्, यावद् बोधिमण्डपर्यन्तम् इति, मा तावद् अहम्
अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
35. सचेन् मे भगवन् बोधिप्राप्तस्य, समन्ताद् अप्रमे-
यासंख्येयाचिन्त्यातुल्यापरिमानेषु बुद्धक्षेत्रेषु याः स्त्रियो
मम नामधेयं श्रुत्वा, प्रसादं संजनयेयुर्, बोधिचित्तं

चोत्पादयेयुः, स्त्रीभावं च विजुगुप्स्येरन्, जातिव्यतिवृत्ताः
समानाः सचेद् द्वितीयं स्त्रीभावं प्रतिलभेरन्,
मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसं-
बुध्येयम्.
36. सचेन् मे भगवन् बोधिप्राप्तस्य, समन्ताद् दशसु
दिक्ष्व् अप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु
ये बोधिसत्त्वा मम नामधेयं श्रुत्वा, प्रणिपत्य
पञ्चमण्डलनमस्कारेण वन्दिष्यन्ते, ते बोधिसत्त्वचर्यां
चरन्तो, न सदेवकेन लोकेन नमसा सत्कृत्येरन्, मा तावद्
अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
37. सचेन् मे भगवन् बोधिप्राप्तस्य, कस्यचिद् बोधिसत्त्वस्य
चीवरधावनशोषणसीवनरजनकर्म कर्तव्यं भवेन्,
प्19
न नवनवाभिजातचीवररत्नैः प्रावृतम् एवात्मानं
संजानीयुः, सहचित्तोत्पादात् तथागतस्याज्ञानुज्ञातैर्, मा
तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
38. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
सहोत्पन्नाः सत्त्वा नैवंविधं सुखं प्रतिलभेरंस्,
तद् यथापि नाम निष्परिदाहस्यार्हतो भिक्षोस् तृतीयध्यान-
समापन्नस्य, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम्
अभिसंबुध्येयम्.
39. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
ये बोधिसत्त्वाः प्रत्यजातास्, ते यथारूपं बुद्धक्षेत्र-
गुणालंकारव्यूहम् आकांक्षेयुस्, तथारूपं नाना-
रत्नवृक्षेभ्यो न संजानीयुर्, मा तावद् अहम् अनुत्तरां
सम्यक्संबोधिम् अभिसंबुध्येयम्.
40. सचेन् मे भगवन् बोधिप्राप्तस्य, तं मम नामधेयं
श्रुत्वान्यबुद्धक्षेत्रोपपन्ना बोधिसत्त्वा इन्द्रियबलवैकल्पं
निर्गच्छेयुर्, मा तावद् अहम् अनुत्तरां
सम्यक्संबोधिम् अभिसंबुध्येयम्.
41. सचेन् मे भगवन् बोधिप्राप्तस्य, तद्-अन्यबुद्धक्षेत्र-
स्था बोधिसत्त्वा मम नामधेयं श्रुत्वा, सहश्रवणान्
न सुविभक्तवतीं नाम समाधिं प्रतिलभेरन्, यत्र
समाधौ स्थित्वा बोधिसत्त्वा एकक्षणव्यतिहारेणाप्रमेया-
संख्येयाचिन्त्यातुल्यापरिमाणान् बुद्धान् भगवतः
पश्यन्ति, स चैषां समाधिर् अन्तरा विप्रनश्येन्, मा तावद्
अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
प्20
42. सचेन् मे भगवन् बोधिप्राप्तस्य, मम नामधेयं
श्रुत्वा, तच्-छ्रवणसहगतेन कुशलमूलेन सत्त्वा

नाभिजातकुलोपपत्तिं प्रतिलभेरन्, यावद् बोधिमण्ड-
पर्यन्तं, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम्
अभिसंबुध्येयम्.
43. सचेन् मे भगवन् बोधिप्राप्तस्य, तद्-अन्येषु बुद्धक्षेत्रेषु
ये सत्त्वा मम नामधेयं श्रुत्वा, तच्-छ्रवण-
सहगतेन कुशलमूलेन यावद् बोधिपर्यन्तं न
सर्वे बोधिसत्त्वचर्यायां प्रीतिप्रामोद्यकुशलमूलसमवधान-
गता भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम्
अभिसंबुध्येयम्.
44. सचेन् मे भगवन् बोधिप्राप्तस्य, सहनामधेय-
श्रवणात् तद्-अन्येषु लोकधातुषु बोधिसत्त्वा न समन्तानुगतं
नाम समाधिं प्रतिलभेरन्, यत्र स्थित्वा बोधिसत्त्वा
एकक्षणव्यतिहारेणाप्रमेयासंख्येयाचिन्त्यापरिमाणान्
बुद्धान् भगवतः सत्कुर्वन्ति, स चैषां समाधिर् अन्तराद्
विप्रनश्येद्, यावद् बोधिमण्डपर्यन्तं, मा तावद् अहम्
अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
45. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्, ते यथारूपां धर्मदेशनाम्
आकांक्षेयुः, श्रोतुम् तथारुपां सहचित्तोत्पादान्
प्21
न शृणुयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम्
अभिसंबुध्येयम्
46. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
तद्-अन्येषु बुद्धक्षेत्रेषु ये बोधिसत्त्वा मम नामधेयं
शृणुयुर्, यस् ते सहनामधेयश्रवणान् नावैवर्त्तिका
भवेयुर् अनुत्तरायाः सम्यक्संबोधेर्, मा तावद् अहम्
अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
47. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे
ये बोधिसत्त्वा मम नामधेयं शृणुयुस्, ते सहनामधेय-
श्रवणान् न प्रथमद्वितीयतृतीयाः क्षान्तीः प्रतिलभेरन्,
नावैवर्त्तिको भवेद् बुद्धधर्मेभ्यो, मा तावद्
अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्.
अथ खल्व् आनन्द स धर्माकरो भिक्षुर् इमान् एवंरूपान्
प्रणिधानविशेषान् निर्दिश्य, तस्यां वेलायां बुद्धानुभावेनेमा
गाथा अभाषत :
सचि मि इमि विशिष्ट नैकरूपा
वरप्रणिधान सिया खु बोधिप्राप्ते,
म अहु सिय नरेन्द्र सत्त्वसारो,
दशबलधारि अतुल्यदक्षिणीयः (1)
सचि मि सिय न क्षेत्र एवरूपं

बहु अधनान प्रभूत दिव्यचित्रं,
सुखि न नरकमय दुःखप्राप्तो,
म अहु सिया रतनो नराण राजा. (2)
सचि मि उपगतस्य बोधिमण्डं,
दशदिशि प्रव्रजि नामधेयु क्षिप्रं
प्22
पृथु बहव अनन्तबुद्धक्षेत्रां,
म अहु सिया बलप्राप्तु लोकनाथ. (3)
सचि खु अहु रमेय कामभोगां,
स्मृतिमतिगतिया विहीनु सन्तः,
अतुलशिव समेयमाण बोधि,
म अहु सिया बलप्राप्तु शास्तु लोके. (4)
विपुलप्रभ अतुल्यनन्त नाथा
दिशि विदिशि स्फुरि सर्वबुद्धक्षेत्रां,
राग प्रशमि प्रशमिय सर्वदोषमोहां,
नरकगतिस्मि प्रशामि धूमकेतुं. (5)
जानिय सुरुचिरं विशालनेत्रं,
विधुनिय सर्वनराण अन्धकारम्,
अपनिय सुन अक्षणान् अशेषान्,
उपनिय स्वर्गपथान् अनन्ततेजा. (6)
न तपति नभ चन्द्रसूर्य-आभा
मणिगण अग्निप्रभा व देवतानां,
अभिभवति नरेन्द्र-आभ सर्वान्
पुरिमचरिं परिशुद्ध आचरित्वा. (7)
पुरुषवरु निधान दुःखितानां,
दिशि विदिशासु न अस्ति एवरूपा.
कुशलशतसहस्र सर्व पूर्णा,
पर्षगतो नदि बुद्धसिंहनदं. (8)
पुरिमजिन स्वयंभु सत्करित्वा,
व्रततपकोटि चरित्व अप्रमेयां,
प्रवर वर समेस्ति ज्ञानस्कन्धं,
प्रणिधिबलं परिपूर्ण सत्त्वसारो. (9)
प्23
यथा भगवन् असङ्गज्ञानदर्शी,
त्रिविध प्रजानति संस्कृतं नरेन्द्रः.
अहम् अपि सिय तुल्यदक्षिणीयो,
विदुः प्रवरो नरनायको नराणां. (10)
सचि मि अयु नरेन्द्र एवरूपा
प्रणिधि समृध्यति बोधि प्रापुणित्वा,
चलतु अयु सहस्रलोकधातूं

कुसुमु प्रवर्ष नभातु देवसंघान्. (11)
प्रचलित वसुधा प्रवर्षि पुष्पाः,
तूर्यशता गगने थ संप्रणेदुः.
दिव्यरुचिरचन्दनस्य चूर्णा,
अभिकिरि चैव भविष्यि लोकि बुद्ध, इति. (12)
एवंरूपयानन्द प्रणिधिसंपदा स धर्माकरो भिक्षुर्
बोधिसत्त्वो महासत्त्वः समन्वागतो ऽभूत्. एवंरूपया
चानन्द प्रणिधिसंपदा अल्पका बोधिसत्त्वाः समन्वागताः.
अल्पकानां चैवंरूपाणां प्रणिधीनां लोके प्रादुर्भावो
भवति, परीत्तानां न पुनः सर्वशो नास्ति.
स खलु पुनर् आनन्द धर्माकरो भिक्षुस् तस्य भगवतो
लोकेश्वरराजस्य तथागतस्य पुरतः, सदेवकस्य लोकस्य
समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः
प्रजायाः सदेवमानुषासुरायाः पुरत, इमान् एवंरूपान् प्रणिधिविशेषान्
निर्दिश्य, यथाभूतं प्रतिज्ञाप्रतिपत्तिस्थितो
ऽभूत्. स इमाम् एवंरूपां बुद्धक्षेत्रपरिशुद्धिं बुद्धक्षेत्र-
माहात्म्यं बुद्धक्षेत्रोदारतां समुदानयन्, बोधिसत्त्वचर्यां
चरन्, अप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानि
प्24
वर्षकोटीनयुताशतसहस्राणि न जातु
कामव्यापादविहिंसावितर्का वितर्कितवान्, न जातु कामव्यापाद-
विहिंसासंज्ञा उत्पादितवान्, न जातु रूपशब्दगन्धरस-
स्प्रष्टव्यसंज्ञा उत्पादितवान्. स दहरो मनोहर एव
सुरतो ऽभूत् ; सुखसंवासो, ऽधिवासनजातीयः, सुभरः, सुपोषो,
ऽल्पेच्छसंतुष्टः, प्रविविक्तो, ऽदुष्टो, ऽमूढो, ऽवङ्को,
ऽजिह्मो, ऽशथो, ऽमायावी, सुखिलो, मधुरः, प्रियालापो, नित्याभियुक्तः
शुक्लधर्मपर्येष्टौ ; अनिक्षिप्तधुरः, सर्वसत्त्वानाम्
अर्थाय महाप्रणिधानं समुदानीतवान् ; बुद्धधर्म-
संघाचार्योपाध्यायकल्याणमित्रसगौरवो ; नित्यसंनद्धो
बोधिसत्त्वचर्यायाम् ; आर्जवो, मार्दवो, ऽकुहको,
निलपको, गुणवान्, पूर्वंगमः सर्वसत्त्वकुशलधर्मसमादापनतायै ;
शून्यतानिमित्ताप्रणिहितानभिसंस्कारानुत्पादविहारविहारी ;
निर्माणः स्वारक्षितवाक्यश् चाभूत्. बोधिसत्त्वचर्यां
चरन्, स यद् वाक्कर्मोत्सृष्टम्, आत्मपरोभयं
व्यावाधाय संवर्तते ; तथाविधं त्यक्त्वा यद् वाक्कर्म
स्वपरोभये हितसुखसंवर्तकं, तद् एवाभिप्रयुक्तवान्.
एवं च संप्रजानो ऽभूत्. यद् ग्रामनगर-
निगमजनपदराष्ट्रराजधानीष्व् अवतरन्, न जातु रूपशब्द-
गन्धरसस्प्रष्टव्यधर्मेण नीतो ऽभूत्. अप्रतिहतः स
बोधिसत्त्वचर्यां चरन्, स्वयं च दानपारमितायाम् अचरत् ;

परांश् च तत्रैव समादापितवान्. स्वयं च शीलक्षान्तिवीर्य-
ध्यानप्रज्ञापारमितास्व् अचरत् ; परांश् च तत्रैव समादापितवान्.
तथारूपाणि च कुशलमूलानि समुदानीतवान्. यैः
समन्वागतो यत्र यत्रोपपद्यते, तत्र तत्रास्यानेकानि निधन-
प्25
कोटीनयुतशतसहस्राणि धरण्याः प्रादुर्भवन्ति.
तेन बोधिसत्त्वचर्यां चरता, तावद् अप्रमेयासंख्येयानि
सत्त्वकोटीनियुतशतसहस्राण्य् अनुत्तरायां सम्यक्संबोधौ
प्रतिष्ठापितानि, येषां न सुकरो वाक्कर्मणा
पर्यन्तो ऽधिगन्तुम् ; तावद् अप्रमेयासंख्येया बुद्धा
भगवन्तः सत्कृता गुरुकृता मानिताः पूजिताश्, चीवरपिण्डपात-
शयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैः
स्पर्शविहारैश् च प्रतिपादिताः ; यावन्तः सत्त्वाः
श्रेष्ठिगृहपत्यामात्यक्षत्रियब्राह्मणमहाशालकुलेषु प्रतिष्ठापितास्,
तेषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तो
ऽधिगन्तुम् ; एवं जाम्बूद्वीपेश्वरत्वे प्रतिष्ठापिताश्, चक्रवर्तित्वे
लोकपालत्वे शक्रत्वे सुयामत्वे संतुषितत्वे सुनिर्मितत्वे
वशवर्तित्वे देवराजत्वे महाब्राह्मत्वे च प्रतिष्ठापिताः ;
तावद् अप्रमेयासंख्येया बुद्धा भगवन्तः सत्कृता
गुरुकृता मानिताः पूजिता, धर्मचक्रप्रवर्तनार्थं चाधिष्ठास्,
तेषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तो ऽधि-
गन्तुम्.
स एवंरूपं कुशलं समुदानीयं, यद् अस्य बोधिसत्त्वचर्याश्
चरतो, ऽप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानि
कल्पकोटीनयुतशतसहस्राणि सुरभिदिव्यातिक्रान्त-
चन्दनगन्धो मुखात् प्रवाति स्म ; सर्वरोमकूपेभ्य
उत्पलगन्धो वाति स्म ; सर्वलोकाभिरूपश् चाभूत्,
प्रासादिको, दर्शनीयः, परमशुभवर्णपुष्कलतया समन्वागतः.
लक्षणानुव्यञ्जनसमलंकृतेनात्मभावेन तस्य
सर्वरत्नालंकाराः, सर्ववस्त्रचीवराभिनिर्हाराः, सर्वपुष्प-
धूपगन्धमाल्यविलेपनच्छत्रध्वजपताकाभिनिर्हाराः,
प्26
सर्ववाद्यसंगीत्यभिनिर्हाराश् च सर्वरोमकूपेभ्यः पाणितलाभ्यां
च निश्चरन्ति स्म. सर्वान्नपानखाद्यभोज्यलेह्य-
रसाभिनिर्हाराः सर्वोपभोगपरिभोगाभिनिर्हाराश् च पाणितलाभ्यां
प्रस्यन्दन्तः प्रादुर्भवन्ति. इति हि सर्व-
परिष्कारवशितापारमिप्राप्तः स आनन्द धर्माकरो भिक्षुर्
अभूत्, पूर्वं बोधिचर्याश् चरन्.
एवम् उक्ते, आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् :
किं पुनर् भगवन् स धर्माकरो बोधिसत्त्वो महासत्त्वो

ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यातीतः परिनिर्वृत,
उताहो ऽनभिसंबुद्धो, ऽथ प्रत्युत्पन्नो ऽभिसंबुद्ध,
एतर्हि तिष्ठति ध्रियते यापयति, धर्मं च देशयति. भगवान्
आह : न खलु पुनर् आनन्द स तथागतो ऽतीतो, नानागतः.
अपि त्व् एष स तथागतो ऽनुत्तरां सम्यक्संबोधिम्
अभिसंबुद्ध, एतर्हि तिष्ठति ध्रियते यापयति, धर्मं
च देशयति. पश्चिमायां दिशीतः कोटीनयुतशतसहस्रतमे
बुद्धक्षेत्रे सुखावत्यां लोकधाताव् अमिताभो
नाम तथागतो ऽर्हन् सम्यक्संबुद्धो, ऽपरिमाणैर् बोधिसत्त्वैः
परिवृतः पुरस्कृतो, ऽनन्तैः श्रावकैर् अनन्त्या बुद्धक्षेत्र-
संपदा समन्वागतः. अमिता चास्य प्रभा, यस्या
न सुकरं प्रामाणं पर्यन्तो वाधिगन्तुम् ; इयन्ति बुद्धक्षेत्राणि,
इयन्ति बुद्धक्षेत्रशतानि, इयन्ति बुद्धक्षेत्रसहस्राणि,
इयन्ति बुद्धक्षेत्रशतसहस्राणि, इयन्ति बुद्धक्षेत्रकोटी,
इयन्ति बुद्धक्षेत्रकोटीशतानि, इयन्ति बुद्धक्षेत्र-
कोटीसहस्राणि, इयन्ति बुद्धक्षेत्रकोटीशतसहस्राणि, इयन्ति बुद्धक्षेत्र-
कोटीनयुतशतसहस्रानि स्फुरित्वा तिष्ठन्तीति. अपि त्व्
प्27
खल्व् आनन्द संक्षिप्तेन पूर्वस्यां दिशि गङ्गानदीवालिकासमानि
बुद्धक्षेत्रकोटीनयुतशतसहस्राणि तया तस्य
भगवतो ऽमिताभस्य तथागतस्य प्रभया सदा स्फुटानि.
एवं दक्षिणपश्चिमोत्तरासु दिक्ष्व् अध ऊर्ध्वम् अनुविदिक्ष्व्
एकैकस्यां दिशि समन्ताद् गङ्गानदीवालिकासमानि बुद्धक्षेत्र-
कोटीनयुतशतसहस्राणि तस्य भगवतो ऽमिताभस्य
तथागतस्य तया प्रभया सदा स्फुटानि, स्थापयित्वा
बुद्धान् भगवतः पूर्वप्रणिधानाधिष्ठानेन ये व्योम-
प्रभयैकद्वित्रिचतुःपञ्चदशविंशतित्रिंशच्चत्वारिंशद्योजन-
प्रभया, योजनशतप्रभया, योजनसहस्रप्रभया, योजन-
शतसहस्रप्रभया, यावद् अनेकयोजनकोटीनयुतशतसहस्र-
प्रभया, यावल् लोकं स्फरित्वा तिष्ठन्ति.
नास्त्य् आनन्दोपमोपन्यासो, येन शक्यं तस्यामिताभस्य
तथागतस्य प्रभयाः प्रमाणम् उद्गृहितुम्. तद् अनेनानन्द
पर्यायेण स तथागतो ऽमिताभ इत्य् उच्यते ; अमितप्रभो,
ऽमितप्रभासो, ऽसमाप्तप्रभो, ऽसण्गप्रभो, ऽप्रतिहतप्रभो,
नित्योत्सृष्टप्रभो, दिव्यमणिप्रभो, ऽप्रतिहत-
रश्मिराजप्रभो, रञ्जनीयप्रभः, प्रेमणीयप्रभः, प्रामोदनीय-
प्रभः, प्रह्लादनीयप्रभ, उल्लोकनीयप्रभो, निबन्धनीय-
प्रभो, ऽचिन्त्यप्रभो, ऽतुल्यप्रभो, ऽभिभूयनरेन्द्रासुरेन्द्र-
प्रभो, ऽभिभूयचन्द्रसूर्यजिह्मीकरणप्रभो,
ऽभिभूयलोकपालशक्रब्रह्मशुद्धावासमहेश्वरसर्वदेव-

जिह्मीकरणप्रभः, सर्वप्रभापारगत इत्य् उच्यते.
सा चास्य प्रभा विमला, विपुला, कायसुखसंजननी,
चित्तौद्बिल्यकरणी, देवासुरनागयक्षगन्धर्वगरुडमहोरग-
किन्नरमनुष्यामनुष्याणां प्रीतिप्रामोद्यसुखकरणी,
कुशलाशयानां कल्यलघुगतिविचक्षणबुद्धिप्रामोद्यकरण्य्
प्28
अन्येष्व् अपि अनन्तापर्यन्तेषु बुद्धक्षेत्रेषु.
अनेन चानन्द पर्यायेण तथागतः परिपूर्णं कल्पं
भाषेत, तस्यामिताभस्य तथागतस्य नामकर्मोपादाय प्रभाम्
आरभ्य, न च शक्तो गुणपर्यन्तो ऽधिगन्तुं तस्याः
प्रभायाः.
न च तथागतस्य वैशारद्योपच्छेदो भवेत्. तत्
कस्य हेतोः. उभयम् अप्य् एतद् आनन्दाप्रमेयम् असंख्येयम्
अचिन्त्यापर्यन्तम्, यद् इदं तस्य भगवतो प्रभागुणविभूतिस्
तथागतस्य चानुत्तरं प्रज्ञाप्रतिभानम्.
तस्य खलु पुनर् आनन्दामिताभस्य तथागतस्याप्रमेयः
श्रावकसंघो, यस्य न सुकरं प्रमाणम् उद्गृहीतुम् ;
इयत्यः श्रावककोट्य, इयन्ति श्रावककोटीशतानि, इयन्ति श्रावक-
कोटीसहस्राणि, इयन्ति श्रावककोटीशतसहस्राणि, इयन्ति कङ्कराणि,
इयन्ति बिंबराणि, इयन्ति नयुतानि, इयन्त्य् अयुतानि,
इयन्ति अक्षोभ्याणि, इयन्त्यो विवाहा, इयन्ति श्रोतांसि, इयन्त्यो
जाया, इयन्त्य् अप्रमेणेयाणि, इयन्त्य् असंख्येयानि, इयन्त्य्
अगण्यानि, इयन्त्य् अतुल्याणि, इयन्त्य् अचिन्त्यानीति.
तद् यथानन्द मौद्गल्यायनो भिक्षुर् ऋद्धिवशिताप्राप्तः
स आकांक्षन् त्रिसाहस्रमहासाहस्रलोकधातौ यावन्ति तारारूपाणि
तानि सर्वाण्य् एकरात्रिं दिवेन गणयेद्, एवंरूपानां
च र्द्धिमतां कोटीनयुतशतसहस्रं भवेत्, ते वर्षकोटी-
नयुतशतसहस्रम् अनन्यकर्मणो ऽमिताभस्य तथागतस्य
प्रथमं श्रावकसन्निपातं गणयेयुस्, तैर् गणयद्भिः
शततमो ऽपि भागो न गणितो भवेत् ; सहस्रतमो
ऽपि, शतसहस्रतमो ऽपि, यावत् कलाम् अप्य्, उपमाम् अप्य्, उपनिशाम्
अपि, न गणितो भवेत्.
तद् यथानन्द महासमुद्राच् चतुरशीतियोजनसहस्राण्य्
आवेधेन तिर्यग् अप्रमेयात्, कश्चिद् एव पुरुषः शतधाभिन्नया
प्29
वालाग्रकोट्यैकम् उदकबिन्दुम् अभ्युत्क्षिपेत्, तत् किं
मन्यसे, आनन्द, कतमो बहुतरो, यो वा शतधाभिन्नया
वालाग्रकोट्याभ्युत्क्षिप्त एक उदकबिन्दुर्, यो वा महासमुद्रे
ऽप्स्कन्धो ऽवशिष्ट इति. आह : योजनसहस्रम् अपि तावद्
भगवन् महासमुद्रस्य परीत्तं भवेत्. किम् अङ्ग

पुनर्, यः शतधाभिन्नया वालाग्रकोट्याभ्युत्क्षिप्त एक उदकबिन्दुः.
भगवान् आह : तद् यथा स एक उदकबिन्दुर् ;
इयन्तः स प्रथमसन्निपातो ऽभूत्, तैर् मौद्गल्यायनसदृशैर्
भिक्षुभिर् गणयद्भिस् तेन वर्षकोटीनयुतशतसहस्रेण
गणितं भवेद्, यथा महासमुद्रे ऽप्स्कन्धो ऽवशिष्ट,
एवम् अगणितं द्रष्टव्यम्. कः पुनर् वादो द्वितीयतृतीयादीनां
श्रावकसन्निपातादीनाम्. एवम् अनन्तापर्यन्तस्
तस्य भगवतः श्रावकसंघो, यो ऽप्रमेयासंख्येय इत्य्
एव संख्यां गच्छन्ति.
अपरिमितं चानन्द तस्य भगवतो ऽमिताभस्य तथागतस्यायुष्प्रमाणं,
यस्य न सुकरं प्रमाणम् अधिगन्तुम् ;
इयन्ति वा कल्पा, इयन्ति वा कल्पशतानि, इयन्ति वा कल्पसहस्राणि,
इयन्ति वा कल्पशतसहस्राणि, इयत्यो वा कल्पकोट्य, इयन्ति वा
कल्पकोटीशतानि, इयन्ति वा कल्पकोटीसहस्राणि, इयन्ति वा कल्पकोटी-
शतसहस्राणि, इयन्ति वा कल्पकोटीनयुतशतसहस्राणीति.
अथ तर्ह्य् आनन्दापरिमितम् एव तस्य भगवत आयुष्प्रमाणम्
अपर्यन्तम्. तेन स तथागतो ऽमितायुर् इत्य् उच्यते.
यथा चानन्देह लोकधातौ कल्पसंख्या कल्पगणना प्रज्ञप्तिकसंकेतस्,
तथा सांप्रतं दशकल्पास् तस्य भगवतो
ऽमितायुषस् तथागतस्योत्पन्नस्यानुत्तरां सम्यक्संबोधिम्
प्30
अभिसंबुद्धस्य.
तस्य खलु पुनर् आनन्द भगवतो ऽमिताभस्य सुखावती
नाम लोकधातुर्, ऋद्धा च, स्फीता च, क्षेमा च, सुभिक्षा
च, रमणीया च, बहुदेवमनुष्याकीर्णा च. तत्र खल्व्
अप्य् आनन्द लोकधातौ न निरयाः सन्ति, न तिर्यग्योनिर्,
न प्रेतविषयो, नासुराः काया, नाक्षणोपपत्तयः ; न च
तानि रत्नानि लोके प्रचरन्ति, यानि सुखावत्यां लोकधातौ
संविद्यन्ते.
सा खल्व् आनन्द सुखावती लोकधातुः सुरभिनानागन्धसमीरिता,
नानापुष्पफलसमृद्धा, रत्नवृक्षसमलंकृता,
तथागताभिनिर्मितमनोज्ञस्वरनानाद्विजसंघनिषेविता.
ते चानन्द रत्नवृक्षा नानावर्णा, अनेकवर्णा, अनेकशत-
सहस्रवर्णाः : सन्ति तत्र रत्नवृक्षाः सुवर्णवर्णाः सुवर्ण-
मयाः ; सन्ति रूप्यवर्णा रूप्यमयाः ; सन्ति वैडूर्यवर्णा
वैडूर्यमयाः ; सन्ति स्फटिकवर्णाः स्फटिकमयाः ;
सन्ति मुसारगल्ववर्णा मुसारगल्वमयाः ; सन्ति लोहितमुक्तावर्णा
लोहितमुक्तामयाः ; सन्त्य् अश्मगर्भवर्णा अश्मगर्भमयाः.
सन्ति केचिद् द्वयो रत्नवृक्षयोः सुवर्णस्य
रूप्यस्य च. सन्ति त्रयाणां रत्नानां सुवर्णस्य रूप्यस्य

वैडूर्यस्य च. सन्ति चतुर्णां सुवर्णस्य रूप्यस्य वैडूर्यस्य
स्फटिकस्य च. सन्ति पञ्चानां सुवर्णस्य रूप्यस्य
वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य च. सन्ति षण्णां
सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य
लोहितमुक्तायाश् च. सन्ति सप्तानां रत्नानां सुवर्णस्य
रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसालगल्वस्य लोहितमुक्ताया,
अश्मगर्भस्य च सप्तमस्य.
प्31
तत्रानन्द सौवर्णाणां वृक्षाणां सुवर्णमयानि मूल-
स्कन्धविटपशाखापत्त्रपुष्पानि फलानि रौप्यमयानि ; रौप्यमयानां
वृक्षाणां रूप्यमयान्य् एव मूलस्कन्धविटप-
शाखापत्त्रपुष्पानि फलानि वैडूर्यमयानि ; वैडूर्यमयानां
वृक्षानां वैडूर्यमयानि मूलस्कन्धविटपशाखापत्त्र-
पुष्पाणि फलानि स्फटिकमयानि ; स्फटिकमयानां
वृक्षाणां स्फटिकमयान्य् एव मूलस्कन्धविटपशाखापत्त्र-
पुष्पाणि फलानि मुसारगल्वमयानि ; मुसारगल्वमयानां
वृक्षाणां मुसारगल्वमयान्य् एव मूलस्कन्धविटपशाखा-
पत्त्रपुष्पाणि फलानि लोहितमुक्तामयानि ; लोहितमुक्तामयानां
वृक्षाणां लोहितमुक्तामयान्य् एव मूलस्कन्धविटपशाखा-
पत्त्रपुष्पाणि फलान्य् अश्मगर्भमयाणि ; अश्मगर्भ-
मयाणां वृक्षानाम् अश्मगर्भमयाण्य् एव मूलस्कन्धविटप-
शाखापत्त्रपुष्पाणि फलानि सुवर्णमयानि.
केषांचिद् आनन्द वृक्षाणां सुवर्णमयानि मूलानि, रौप्यमयाः
स्कन्धा, वैडूर्यमया विटपाः, स्फटिकमयाः शाखा,
मुसारगल्वमयानि पत्त्राणि, लोहितमुक्तामयानि पुष्पाण्य्,
अश्मगर्भमयाणि फलानि ; केषांचिद् आनन्द वृक्षाणां रूप्यमयानि
मूलानि, वैडूर्यमयाः स्कन्धाः, स्फटिकमया
विटपा, मुसारगल्वमयाः शाखा, लोहितमुक्तामयानि पत्त्राण्य्,
अश्मगर्भमयाणि पुष्पाणि, सुवर्णमयानि फलानि ; केषांचिद्
आनन्द वृक्षाणां वैडूर्यमयानि मूलानि, स्फटिकमयाः
स्कन्धा, मुसारगल्वमया विटपा, लोहितमुक्तामयाः
शाखा, अश्मगर्भमयाणि पत्त्राणि, सुवर्णमयानि पुष्पाणि,
रौप्यमयानि फलानि ; केषांचिद् आनन्द वृक्षाणां
प्32
स्फटिकमयानि मूलानि, मुसारगल्वमयाः स्कन्धा, लोहितमुक्तामया
विटपा, अश्मगर्भमयाः शाखाः, सुवर्णमयानि
पत्त्राणि, रौप्यमयानि पुष्पाणि, वैडूर्यमयानि फलानि ; केषांचिद्
आनन्द वृक्षानां मुसारगल्वमयानि मूलानि, लोहित-
मुक्तामयाः स्कन्धा, अश्मगर्भमया विटपाः, सुवर्ण-
मयाः शाखा, रौप्यमयानि पत्त्राणि, वैडूर्यमयानि पुष्पाणि,

मूल पाठ: Sukhāvatīvyūha · Data entry Yoshimichi Fujita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc