भाषा

ENहिગુ
ग्रंथ पाठ

सुखावतीव्यूह, विस्तरमातृका · श्लोक vs_31-32

vs_31

बहुगन्धापूटी गृहित्वा नानावर्ण सुरभी मनोरमां ।
ओकिरन्ति नरनायकोत्तमं अमितायुं नरदेवपूजितम्

vs_32

पूजित्व वा ते बहुबोधिसत्त्वा वन्दित्व पादाममितप्रभस्य ।
प्रदक्षिणीकृत्य वदन्ति चैवं अहो ऽद्भुतं शोभति बुद्धक्षेत्रम्

vs_33

ते पुष्पपूटीहि पुनोकिरन्ति उदग्रचित्ता अतुलाय प्रीतिये ।
कामं प्रभाषन्ति पुरस्त नायके अस्मापि क्षेत्रं सिय एवरूपम्

vs_34

ये पुष्पपूटा इति क्षिप्त तत्र छत्रंतया संस्थिहि योजनाशतम् ।
स्वलंकृतं शोभति चित्ररवतो छादन्ते बुद्धस्य समन्त कायम्

vs_35

ते बोधिसत्त्वा तथा सत्करित्वा कथं करोन्ती इति तुष्ट तत्र ।
सुलब्ध लाभाः खलु तेहि सत्त्वैः येही श्रुतं नाम नरोत्तमस्य

vs_36

अस्मेहि पी लाभ सुलब्धपूर्वा यदा गतास्य इम बुद्धक्षेत्रम् ।
पश्याथ स्वप्नोपम मैत्र कीदृशं यत्कल्पितं कल्पसहस्र शास्तुः

vs_37

पश्याथ बुद्धा वर पुण्यराशिः परिवृतो शोभति बोधिसत्त्वैः ।
अमिताभस्य आभा अमिता च तेजा अमितं च आयूरमितश्च संघः

vs_38

स्मितं करोती अमितायुनाथं षट्त्रिंशकोटीनयुतान अर्चिषाम् ।
ये निश्चरित्वा मुखमण्डलातः स्फूरन्ति क्षेत्राणि सहस्रकोटीः

vs_39

ताः सर्वसूरीः पुनरेत्य तत्र मूर्धे च अस्तं गमि नायकस्य ।
देवा मनुष्या जनयन्ति प्रीतिं अर्चिस्तदा अस्यमिदां विदित्वा

vs_40

उत्तिष्ठते बुद्धसुतो महायशा नाथ सो हि अवलोकितेश्वरः ।
को हेतुरत्र भगवं कः प्रत्ययो येन स्मितं कुर्वसि लोकनाथ

vs_41

तं व्याकरोही यत्र सो ऽर्थकोविदो हितानुकम्पी बहुसत्त्वमोचकः ।
श्रुत्वेति वाचं परमां मनोरमां उदग्रचित्ता भविष्यन्ति सत्त्वाः

vs_42

ये बोधिसत्त्वा बहुलोकधातुतः सुखावतीं प्रस्थित बुद्ध पश्यतां ।
ते श्रुत्वा प्रीतिं विपुलां जनेत्वा क्षिप्रमिमं क्षेत्र विलोकयेयुः

vs_43

आगत्य च क्षेत्रमिदं उदारं ऋद्धीबलं प्रापुणि क्षिप्रमेव ।
दिव्यं च चक्षुस्तथ श्रोत्र दिव्यं जातिस्मराः पारमिकोविदाश्च

vs_44

अमितायु बुद्धस्तद व्याकरोति मम ह्ययं प्रणिधि बभूव पूर्वम् ।
कथं पि सत्त्वा श्रुणियानि नाम व्रजेयु क्षेत्रं मम नित्यमेव

vs_45

स मे अयं प्रणिधि प्रपूर्ण शोभना सत्त्वाश्च एभि बहुलोकधातुतः ।
आगत्य क्षिप्रं मम अन्तिकस्मिं अवैवर्तिका भोन्तिह एकजातिया

vs_46

तस्माद्य इच्छतिह बोधिसत्त्वः ममापि क्षेत्रं सिय एवरूपम् ।
अहं पि सत्त्वान् बहु मोचयेयं नामेन घोषेण थ दर्शनेन

vs_47

स शीघ्रशीघ्रं त्वरमाणरूपः सुखावतीं गच्छतु लोकधातुम् ।
गत्त्वा च पूर्वममितप्रभस्य पूजेतु बुद्धान सहस्रकोटीः

vs_48

बुद्धान कोटी बहु पूजयित्वा ऋद्धीबलेन बहु क्षेत्र गत्त्वा ।
कृत्वान पूजां सुगतान सन्तिके भक्त्या गमिष्यन्ति सुखावतीतः

31

इति

32

स्तर्त् सुख्व् 32:
तस्य खलु पुनरानन्द अमितायुषस्तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिवृक्षः । स दश योजनशतान्युच्चैस्त्वेन,अष्टौ योजनशतान्यभिप्रलम्बितशाखापत्रपलाशः पञ्चयोजनशतमूलारोहपरिणाहः सदापत्रः सदापुष्पः सदाफलो नानावर्णो ऽनेकशतसहस्रवर्णो नानापत्रो नानापुष्पो नानाफलो नानाविचित्रभूषणसमलंकृतश्चन्द्रभासमणिरत्नपरिस्फुटः शक्राभिलग्नमणिरत्नविचित्रितश्चिन्तामणिरत्नाकीर्णः सागरवरमणिरत्नसुविचित्रितो दिव्यसमतिक्रान्तः स्वर्णसूत्राभिप्रलम्बितो रुचकहाररत्नहारवत्सहारकटकहारलोहितमुक्ताहारनीलमुक्ताहारसिंहलतामेखलाकलापरत्नसूत्रसर्व-रत्नवस्तुशताभिविचित्रितः स्वर्णजालमुक्ताजालसर्वरत्नजालकिङ्किणीजालततो मकरस्वस्तिकनन्द्यावर्तचन्द्रसमलंकृतः किङ्किणीमणिजालसौवर्णसर्वरत्नालंकारविभूषितो यथाशयसत्त्वविज्ञप्तिसमलंकृतश्च । तस्य खलु पुनरानन्द बोधिवृक्षस्य वातसमीरितस्य यः शब्दो घोषो निश्चरति सो ऽपरिमाणांल्लोकधातून् विज्ञापयति । तत्रानन्द येषां सत्त्वानां स बोधिवृक्षः श्रोत्रावभासमागच्छति, तेषां श्रोत्ररोगो न प्रतिकाङ्क्षितव्यो यावद्बोधिपर्यन्तम् । येषामप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानां सत्त्वानां स बोधिवृक्षश्चक्षुष आभासमागच्छति, तेषां चक्षूरोगो न प्रतिकाङ्क्षितव्यो यावद्बोधिपर्यन्तम् । ये खलु पुनरानन्द सत्त्वास्ततो बोधिवृक्षाद्गन्धं जिघ्रन्ति, तेषां यावद्बोधिपर्यन्तं न जातु घ्राणरोअगः प्रतिकाङ्क्षितव्यः । ये सत्त्वास्ततो बोधिवृक्षत्फलान्यास्वादयन्ति, तेषां यावद्बोधिपर्यन्तं न जातु जिह्वारोगः प्रतिकाङ्क्षितव्यः । ये सत्त्वास्तस्य बोधिवृक्षस्याभया स्फुटा ( सुख्व्, वैद्य 245 ) भवन्ति, तेषां यावद्बोधिपर्यन्तं न जातु कायरोगः प्रतिकाङ्क्षितव्यः । ये च खलु पुनरानन्द सत्त्वास्तं बोधिवृक्षं धर्मतो निध्यायन्ति, तेषां तत उपादाय यावद्बोधिपर्यन्तं न जातु चित्तविक्षेपः प्रतिकाङ्क्षितव्यः । सर्वे च ते सत्त्वाः सहदर्शनात्तस्य बोधिवृक्षस्यावैवर्तिकाः संतिष्ठन्ते यदुतानुत्तरायाः सम्यक्संबोधेः । तिस्रश्च क्षान्तीः प्रतिलभन्ते यदिदं घोषानुगामनुलोमिकीमनुत्पत्तिकधर्मक्षान्तिं च तस्यैवामितायुषस्तथागतस्य पूर्वप्रणिधानाधिष्ठानेन पूर्वजिनकृताधिकारतया पूर्वप्रणिधानपरिचर्यया च सुसमाप्यया सुभावितयानूनाविकलतया

मूल पाठ: Sukhāvatīvyūha, vistaramātṛkā · Edition: P.L. Vaidya: Mahāyāna-sūtra-saṃgrahaḥ, Part 1) Darbhanga : The Mithila Institute, 1961, pp. 221-253. (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc