भाषा

ENहिગુ
ग्रंथ पाठ

सुखावतीव्यूह, विस्तरमातृका · श्लोक 19-vs_30

19

स्तर्त् सुख्व् 19:
तस्यां खलु पुनरानन्द सुखावत्यां लोकधातौ ये सत्त्वाः प्रत्याजाताः प्रत्याजनिष्यन्ते, सर्वे ते एवंरूपेण वर्णेन बलेन स्थाम्ना आरोहपरिणाहेन आधिपत्येन पुण्यसंचयेन अतिष्णभिर्वस्त्राभरणोद्यानविमानकूटागारपरिभोगैरेवंरूपशब्दगन्धरसस्पर्शपरिभोगैः एवंरूपैश्च सर्वैरपि भोगपरिभोगैः समन्वागताः, तद्यथापि नाम देवाः परनिर्मितवशवर्तिनः । न खलु पुनरानन्द सुखावत्यां लोकधातौ सत्त्वा औदारिकयूषफाणिताकाराहारमाहरन्ति । अपि तु खलु पुनर्यथारूपमेवाहरमाकाङ्क्षन्ति, तथारूपमाहृतमेव संजानन्ति, प्रीणितकायाश्च भवन्ति प्रीणितमानाः । न तेषां भूयः काये प्रक्षेपः करणीयः । ते प्रीणितकायास्तथारूपाणि गन्धजातान्याकाङ्क्षन्ति - ईद्दशैरेव गन्धजातैर्दिव्यैस्तद्बुद्धक्षेत्रं सर्वमेव निर्धूपितं भवति । तत्र यस्तं गन्धमाघ्रातुकामो भवति, तस्य सर्वशो गन्धर्वराज्ञो वासना न समुदाचरति । एवं ये यथारूपाणि गन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकातूर्याण्याकाङ्क्षन्ति, तेषां तथारूपैश्च तैः सर्वं तद्बुद्धक्षेत्रं परिस्फुटं भवति । चीवराण्याकाङ्क्षन्ति नानावर्णान्यनेकशतसहस्रवर्णानि, तेषां तादृशैरेव चीवररत्नैः सर्वं तद्बुद्धक्षेत्रं परिस्फुटं भवति,प्रावृतमेव चात्मानं संजानन्ति । ते यथारूपाण्याभरणान्याकाङ्क्षन्ति, तद्यथा - शीर्षाभरणानि वा कर्णाभरणानि वा ग्रीवाभरणानि वा हस्तपादाभरणानि वा यदिदं मुकुटानि कुण्डलानि कटककेयूराणि वत्सहारा रूचकहारा कर्णिका मुद्रिकाः स्वर्णसूत्राणि मेखलाः स्वर्णसूताणि जालानि मुक्ताजालानि सर्वरत्नजालानि स्वर्णरत्नकिङ्किणीजालानि, तथारूपैराभरणैरनेकरत्नशतसहस्रप्रत्युप्तैः स्फुटं ( सुख्व्, वैद्य 239 ) तद्बुद्धक्षेत्रं पश्यन्ति यदिदमाभरणवृक्षावसक्तैः । तैश्चाभरणैरलंकृतमात्मानं संजानन्ति । ते यादृशं विमानमाकाङ्क्षन्ति यद्वर्णलिङ्गसंस्थानं यावदारोहपरिणाहं नानारत्नमयनिर्यूहशतसहस्रसमलंकृतं नानादिव्यपुष्पसंस्तीर्णं चित्रोपधानविन्यस्तपर्यङ्कम्, तादृशमेव विमानं तेषां पुरतः प्रादुर्भवति । तेषु मनोनिर्वृत्तेषु विमानेषु सप्तसप्तास्परसहस्रपरिवृताः पुरस्कृता विहरन्ति क्रीडन्ति रमन्ते परिचारयन्ति

20

स्तर्त् सुख्व् 20:
न च तत्र लोकधातौ देवानां वा मनुष्याणां वा नानात्वमस्ति अन्यत्र संवृतिव्यवहारेण देवमनुष्याविति संख्यां गच्छन्ति । तद्यथा आनन्द राज्ञश्चक्रवर्तिनः पुरतो मनुष्यहीनो मनुष्यप्रेतको न भासते न तपते न विरोचते, न च भवति विशारदो न प्रभाश्वरः, एवमेव देवानां परनिर्मितवशवर्तिनां पुरतः शक्रो देवानामिन्द्रो न भासते न तपते न विरोचते यदिदमुद्यानविमानवस्त्राभरणैराधिपत्येन ऋद्ध्या वा प्रातिहार्येण वा ऐश्वर्येण वा आनन्द, स खलु धर्माभिसमयेन धर्मपरिभोगेण वा । तत्र आनन्द यथा देवाः परिनिर्मितवशवर्तिनः, एवं सुखावत्यां लोकधातौ मनुष्या द्रष्टव्याः

21

स्तर्त् सुख्व् 21:
तस्यां खलु पुनरानन्द सुखावत्यां लोकधातौ पूर्वाह्णकालसमये प्रत्युपस्थिते समन्ताच्चतुर्दिशमाकुलाः समाकुला वायवो वान्ति । तेषां रत्नवृक्षाणां चित्रान् दर्शनीयान् नानावर्णाननेकवृन्तान् नानासुरभिदिव्यगन्धपरिवासितान् क्षोभयन्ति संक्षोभयन्ति ईरयन्ति समीरयन्ति यतो बहूनि पुष्पशतानि तस्यां रत्नमय्यां महापृथिव्यां प्रपतन्ति मनोज्ञगन्धानि दर्शनीयानि । तैश्च पुष्पैस्तद्बुद्धक्षेत्रं समन्तात्सप्तपौरुषं संस्कृतरूपं भवति । तद्यथापि नाम पुरुषः कुशलः पृथिव्यां पुष्पसंस्तरं संस्तृणुयात्, उभाभ्यां पाणिभ्यां समं रचयेत्सुचित्रं दर्शनीयम्, एवमेव तद्बुद्धक्षेत्रं तैः पुष्पैर्नानागन्धवर्णैः समन्तात्सप्तपौरुषं स्फुटं भवति । तानि च पुष्पजातानि मृदूनि काचिलिन्दिकसुखसंस्पर्शानि औपम्यमात्रेण, यानि निक्षिप्ते पादे चतुरङ्गुलमवनमन्ति, उत्क्षिप्ते पादे चतुरङ्गुलमेवोन्नमन्ति । निर्गते पुनः पूर्वाह्णकालसमये तानि पुष्पाणि निरवशेषमन्तर्धीयन्ते । अथे तद्बुद्धक्षेत्रं विविक्तं रम्यं शुभं भवत्यपरिक्लिष्टैः पूर्वपुष्पैः । ततः पुनरपि समन्ताच्चतुर्दिशं वायवो वान्ति, ये पूर्ववदभिनवानि पुष्पाण्यभिप्रकिरन्ति । यथा पूर्वाह्णे, एवं मध्याह्नकालसमये संध्यायां रात्र्याः प्रथमे यामे मध्यमे यामे पश्चिमे यामे । तैश्च वातैर्वायद्भिर्नानागन्धपरिवासितैस्ते सत्त्वाः स्पृष्टाः सन्तः एवं सुखसमर्पिता भवन्ति तद्यथापि नाम निरोधसमापन्नो भिक्षुः

22

स्तर्त् सुख्व् 22:
तस्मिश्चानन्द बुद्धक्षेत्रे सर्वशो ऽग्निसूर्यचन्द्रग्रहनक्षत्रतारारूपाणां तमोन्धकारस्य नामधेयप्रज्ञप्रप्तिरपि नास्ति । सर्वशो रात्रिंदिवं प्रज्ञप्तिरपि नास्ति अन्यत्र तथागतव्यवहारात्, सर्वशश्चारामपरिग्रहसंज्ञा नास्ति

23

स्तर्त् सुख्व् 23:
तस्यां खलु पुनरानन्द सुखावत्यां लोकधातौ काले दिव्यगन्धोदकमेघा अभिप्रवर्षयन्ति दिव्यानि सर्ववर्णिकानि कुसुमानि, दिव्यानि सप्तरत्नानि, दिव्यं चन्दनचूर्णम्, दिव्याश्छत्रध्वजपताका अभिप्रवर्षयन्ति । दिव्यानि सर्ववर्णिकानि कुसुमानि, दिव्यानि ( सुख्व्, वैद्य 240 ) वितानानि ध्रियन्ते, दिव्यानि च्छत्ररत्नानि सर्वाभरणान्याकाशे ध्रियन्ते, दिव्यानि वाद्यानि प्रवाद्यन्ते, दिव्याश्चाप्सरसो नृत्यन्ति

24

स्तर्त् सुख्व् 24:
तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये सत्त्वा उपपन्ना उत्पद्यन्ते उत्पस्यन्ते, सर्वे ते नियताः सम्यक्त्वे यावन्निर्वाणम् । तत्कस्य हेतोः? नास्ति तत्र द्वयो राश्योर्व्यवस्थानं प्रज्ञप्तिर्वा यदिदमनियतस्य वा मिथ्यात्वनियतस्य वा । तदनेनाप्यानन्द पर्यायेण सा लोकधातुः सुखावतीत्युच्यते संक्षिप्तेन, न पुनर्विस्तरेण । कल्पो ऽप्यानन्द परिक्षीयेत सुखावत्यां लोकधातौ सुखकारणेषु परिकीर्त्यमानेषु, न च तेषां सुखकारणानां शक्यं पर्यन्तमधिगन्तुम्

vs_23

स्तर्त् सुख्व् 25:
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
सर्वे ऽपि सत्त्वाः सुखिता भवेयुर्विशुद्धज्ञानाः परमार्थकोविदाः ।
ते कल्पकोटीमथ वापि चोत्तरिं सुखावतीवर्ण प्रकाशयेयुः

vs_24

क्षये कल्पकोटी वज्रे सुराश्च सुखावतीये न च वर्णसारुः ।
क्षयं न गच्छेत्प्रतिभा च तेषां प्रकाशयन्तान तु वर्ण नानां

vs_25

ये लोकधातू परमाणुसादृशांश्छिद्येय भिद्येय रजश्च कुर्यात् ।
अतो बहू उत्तरि लोकधातु पूरेत दानं रतनाहि दद्यात्

vs_26

नैता कलापि उपमापि तस्य पुण्यस्य भोन्ती पृथुलोकधातवः ।
ये लोकधातूय सुखावतीये श्रुत्वैव नामं भवतीह पुण्यम्

vs_27

ततो बहू पुण्य भवेत तेषां ये श्रद्धते जिनवचनं सप्रज्ञाः ।
श्रद्धा हि मूलं जगतस्य प्राप्तये तस्माद्धि श्रुत्वा विचितिं विनोदयेत्

25

इति ॥
एवमप्रमेयगुणवर्णा आनन्द सुखावती लोकधातुः

26

स्तर्त् सुख्व् 26:
तस्य खलु पुनरानन्द भगवतो ऽमिताभस्य तथागतस्य दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीवालुकासमेषु बुद्धक्षेत्रेषु गङ्गानदीवालुकासमा बुद्धा भगवन्तो नामधेयं ( सुख्व्, वैद्य 241 ) परिकीर्तयन्ते, वर्णं भाषन्ते, यशः प्रकाशयन्ति, गुणमुदीरयन्ति । तत्कस्य हेतोः? ये केचित्सत्त्वास्तस्य भगवतो ऽमिताभस्य नामधेयं शृण्वन्ति, श्रुत्वा चान्तश एकचित्तोत्पादमप्यध्याशयेन प्रसादसहगतेन चित्तमुत्पादयन्ति,ते सर्वे ऽवैवर्तिकतायां सन्त्यनुत्तरायाः सम्यक्संबोधेः

27

स्तर्त् सुख्व् 27:
ये चानन्द केचित्सत्त्वास्तं तथागतं पुनः सत्कारमनसिकरिष्यन्ति, बह्वपरिमितं कुशलमूलमवरोपयिष्यन्ति बोधये चित्तं परिणाम्य, तत्र च लोकधातावुपपत्तये प्रणिधास्यन्ति, तेषां सो ऽमिताभस्तथागतो ऽर्हन् सम्यक्संबुद्धो मरणकालसमये प्रत्युपस्थिते ऽनेकभिक्षुगणपरिवृतः पुरस्कृतः स्थास्यति । ततस्ते तं भगवन्तं दृष्ट्वा प्रसन्नचित्ताश्च्युताः सन्तस्तत्रैव सुखावत्यां लोकधातावुपपत्स्यन्ते । यश्च आनन्द आकाङ्क्षेत कुलपुत्रो वा कुलदुहिता वा किमित्यहं दृष्ट एव धर्मे तममिताभं तथागतं पश्येयमिति, तेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य अध्याशयातिशयतया संतत्या तस्मिन् बुद्धक्षेत्रे चित्तं संप्रेष्य उपपत्तये कुशलमूलानि च परिणामयितव्यानि

28

स्तर्त् सुख्व् 28:
ये पुनस्तं तथागतं न भूयो मनसिकरिष्यन्ति, न च बह्वपरिमितं कुशलमूलमभीक्ष्णमवरोपयिष्यन्ति, तेषां तादृशेनैव सो ऽमिताभस्तथागतो ऽर्हन् सम्यक्संबुद्धो वर्णसंस्थानारोहपरिणाहेन भिक्षुसंघपरिवारेण च तादृश एव बुद्धिनिर्मितो मरणकालसमये पुरतः स्थास्यति । ते तेनैव तथागतदर्शनप्रसादालम्बनेन समाधिना अप्रमुषितया स्मृत्या च्युतास्तत्रैव बुद्धक्षेत्रे प्रत्याजनिष्यन्ति

29

स्तर्त् सुख्व् 29:
ये पुनरानन्द सत्त्वास्तं तथागतं दशचित्तोत्पादात्समनुस्मरिष्यन्ति, स्पृहां च तस्मिन् बुद्धक्षेत्र उत्पादयिष्यन्ति, गम्भीरेषु च धर्मेषु भाष्यमाणेषु तुष्टिं प्रतिलप्स्यन्ते, न विपत्स्यन्ते,न विषादमापत्स्यन्ते,न संसदनमापत्स्यन्ते, अन्तश एकचित्तोत्पादेनापि तं तथागतं मनसिकरिष्यन्ति, स्पृहां चोत्पादयिष्यन्ति तस्मिन् बुद्धक्षेत्रे, ते ऽपि स्वप्नान्तरगता अमिताभं तथागतं द्रक्ष्यन्ति, सुखावत्यां लोकधातावुपपत्स्यन्ते, अवैवर्तिकाश्च भविष्यन्त्यनुत्तरायाः सम्यक्संबोधेः

30

स्तर्त् सुख्व् 30:
इमं खल्वानन्द अर्थवशं संपश्य तथागता दशसु दिक्षु अप्रमेयासंख्येयासु लोकधातुषु तस्यामिताभस्य तथागतस्य नामघेयं परिकीर्तयन्तो वर्णं घोषयन्तः संप्रशंसामभ्युदीरयन्ति । तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे दशभ्यो दिग्भ्य एकैकस्यां दिशि गङ्गानदीवालुकासमा बोधिसत्त्वास्तममिताभं तथागतमुपसंक्रमन्ति दर्शनाय वन्दनाय पर्युपासनाय परिप्रश्नीकरणाय, तं च बोधिसत्त्वगणं तांश्च बुद्धक्षेत्रगुणालंकारव्यूहसंपद्विशेषान् द्रष्टुम्

vs_28

स्तर्त् सुख्व् 31:
अथ खलु भगवांस्तस्यां वेलायामिममेवार्थं भूयस्या मात्रया परिदीपयन्निमा गाथा अभाषत -
यथैव गङ्गानदीवालुकासमा बुद्धान क्षेत्रा अमितायुनायकम्

vs_29

बहुपुष्पपूटी गृहीत्व ते नानावर्णं सुरभी मनोरमां ।
ओकिरन्ति नरनायकोत्तमं अमितायुं नरदेवपूजितम्

vs_30

तथ दक्षिणपश्चिमोत्तरासु बुद्धान क्षेत्रा दशतासु यात्तकाः ।
यतो यतो आगमि बुद्ध वन्दितुं सबोधिसत्त्वा अमितायुनायकम्

मूल पाठ: Sukhāvatīvyūha, vistaramātṛkā · Edition: P.L. Vaidya: Mahāyāna-sūtra-saṃgrahaḥ, Part 1) Darbhanga : The Mithila Institute, 1961, pp. 221-253. (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc