भाषा

ENहिગુ
ग्रंथ पाठ

सुखावतीव्यूह, विस्तरमातृका · श्लोक 33-vs_57

33

स्तर्त् सुख्व् 33:
तत्रैव खलु पुनरानन्द ये बोधिसत्त्वाः प्रत्याजाताः प्रत्याजायन्ते प्रत्याजनिष्यन्ते वा, सर्वे ते एकजातिप्रतिबद्धास्तत एवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते स्थापयित्वा प्रणिधानवशं ये ते बोधिसत्त्वा महासिंहनादनादिन उदारसंनाहसंनद्धाः सर्वसत्त्वपरिनिर्वाणाभियुक्ताश्च

34

स्तर्त् सुख्व् 34:
तस्मिन खलु पुनरानन्द बुद्धक्षेत्रे ये श्रावकान्ते व्यामप्रभाः, ते बोधिसत्त्वास्ते योजनकोटीशतसहस्रप्रभाः, स्थापयित्वा द्वौ बोधिसत्त्वौ ययोः प्रभया सा लोकधातुः सततसमितं नित्यावभासस्फुटा । अथ खल्वायुष्मानानन्दो भगवन्तमेतदवोचत् - किंनामधेयौ भगवंस्तौ बोधिसत्त्वौ महासत्त्वौ? भगवानाह - एकस्तयोरानन्द अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः द्वितीयो महास्थामप्राप्तो नाम । इत एव चानन्द बुद्धक्षेत्राच्च्युता तौ तत्रोपपन्नौ

35

स्तर्त् सुख्व् 35:
तत्र चानन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे ते द्वात्रिंशन्महापुरुषलक्षणसमन्वागताः परिपूर्णगात्रा ध्यानाभिज्ञाकोविदाः प्रज्ञाप्रभेदकुशलास्तीक्ष्णेन्द्रियाः सुसंवृतेन्द्रिया आज्ञातावीन्द्रिया अदीनाबलेन्द्रियाः प्रतिलम्भक्षान्तिका अनन्तापर्यन्तगुणाः

36

स्तर्त् सुख्व् 36:
तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये बोधिसत्त्वा प्रत्याजाताः, सर्वे ते ऽविरहिता बुद्धदर्शनेनाविनिपातधर्माणो यावद्बोधिपर्यन्तम् । सर्वे ते तत उपादाय न जातु जातिस्मरा भविष्यन्ति स्थापयित्वा तथारूपेषु कल्पसंक्षोभेषु ये पूर्वस्थानप्रणिहिताः पञ्चसु कषायेषु वर्तमानेषु यदा बुद्धानां भगवतां लोके प्रादुर्भावो भवति तद्यथापि नाम ममैतर्हि

37

स्तर्त् सुख्व् 37:
तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे ते एकपुरोभक्तेनान्यांल्लोकधातून् गत्वा अनेकानि बुद्धकोटीनियुतशतसहस्राण्युपतिष्ठन्ति यावदाकाङ्क्षन्ति बुद्धानुभावेन । ते यथा यथा चित्तमुत्पादयन्ति एवमेवंरूपैः पुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीतूर्यसंगीतिवाद्यैः पूजां कुर्याम इति, तेषां सहचित्तोत्पादात्तथारूपाणि च सर्वपूजाविधानानि पाणौ प्रादुर्भवन्ति । ते तैः पुष्पैर्यावद्वाद्यैस्तेषु बुद्धेषु भगवत्सु पूजां कुर्वन्तो बह्वपरिमाणासंख्येयं कुशलमुपचिन्वन्ति । सचेत्पुनराकाङ्क्षन्ति एवंरूपाः पुष्पपुटाः पाणौ प्रादुर्भवन्त्विति, तेषां सहचित्तोत्पादान्नानावर्णा अनेकवर्णा नानागन्धा दिव्याः पुष्पपुटाः पाणौ प्रादुर्भवन्ति । ते तैस्तथारूपैः पुष्पपुटैस्तान् बुद्धान् भगवतो ऽवकिरन्ति अभ्यवकिरन्ति अभिप्रकिरन्ति । तेषां च यः सर्वपरीतः पुष्पपुट ( सुख्व्, वैद्य 246 ) उत्सृष्टः स दशयोजनविस्तरं पुष्पच्छत्रं प्रादुर्भवति उपर्यन्तरीक्षे । द्वितीये चानुत्सृष्टे न प्रथमो धरण्यां प्रपतति । सन्ति तत्र पुष्पपुटा य उत्सृष्टाः सन्तो विंशतियोजनविस्ताराणि पुष्पच्छत्राण्युपर्यन्तरीक्षे प्रादुर्भवन्ति । सन्ति त्रिंशच्चत्वारिंशत्पञ्चाशद्योजनविस्ताराणि, सन्ति यावद्योजनशतसहस्रविस्ताराणि पुष्पच्छत्राण्युपर्यन्तरीक्षे प्रादुर्भवन्ति । तत्र ये उदारं प्रीतिप्रामोद्यं संजनयन्ति, उदारं च चित्तौद्विल्यं प्रतिलभन्ते, ते बह्वपरिमितमसंख्येयं कुशलमूलमवरोप्य बहूनि च बुद्धकोटीनियुतशतसहस्राण्युपस्थाय एकपूर्वाह्णेन पुनरपि सुखावत्यां लोकधातौ प्रतिष्ठन्ते तस्यैवामितायुषस्तथागतस्य पूर्वप्रणिधानाधिष्ठानपरिग्रहेण पूर्वदत्तधर्मश्रवणेन पूर्वजिनावरोपितकुशलमूलतया पूर्वप्रणिधानसमृद्धिपरिपूर्यात्मभूतया सुविभक्तभावितया

38

स्तर्त् सुख्व् 38:
तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाताः, सर्वे ते सर्वज्ञतासहगतामेव धर्मकथां कथयन्ति । न च तत्र बुद्धक्षेत्रे सत्त्वानां काचित्परिग्रहसंज्ञास्ति । ते सर्वे च तद्बुद्धक्षेत्रमनुचंक्रममाणा अनुविचरन्तो न रतिं नारतिमुत्पादयन्ति । प्रक्रामन्तश्चानपेक्षाः, न च प्रक्रामन्ति सापेक्षाः । सर्वसत्त्वेषामेव चित्तं नास्ति । तत्र खलु पुनरानन्द सुखावत्यां लोकधातौ ये सत्त्वाः प्रत्याजाताः, नास्ति तेषामन्यतमकसंज्ञा, नास्ति स्वकसंज्ञा, नास्त्यसमसंज्ञा, नास्ति विग्रहः,नास्ति विवादः,नास्ति विरोधः । समचित्ता मैत्रचित्ता मृदुचित्ताः स्निग्धचित्ताः कर्मण्यचित्ताः प्रसन्नचित्ताः स्थिरचित्ता विनीवरणचित्ता अक्षुभितचित्ता अलुलितचित्ताः प्रज्ञापारमिताचर्याचरणचित्ताश्चित्ताधारबुद्धिप्रविष्टाः । सागरसमाः प्रज्ञया,मेरुसमा बुद्ध्या, अनेकगुणसंनिचयाः, बोध्यङ्गसंगीत्या विक्रीडिताः, बुद्धसंगीत्यभियुक्ता मांसचक्षुः प्रविचिन्वन्ति, दिव्यं चक्षुरभिनिर्हरन्ति, प्रज्ञाचक्षुर्गतिंगता धर्मचक्षुःपारगता बुद्धचक्षुर्निष्पादयन्तो दर्शयन्तो द्योतयन्तो विस्तरेण प्रकाशयन्तो ऽसङ्गज्ञानमभिनिर्हरन्ति । त्रैधातुकसमतायामभियुक्ता दान्तचित्ताः शान्तचित्ताः सर्वधर्मधातूपलब्धिसमन्वागताः समुदयनिरुक्तिकुशला धर्मनिरुक्तिसमन्वागता हाराहारकुशला नयानयकुशलाः स्थानकुशला लौकिकीषु कथास्वनपेक्षा विहरन्ति । लोकोत्तराभिः कथाभिः सारं प्रत्ययन्ति । सर्वधर्मपर्येष्टिकुशलाः सर्वधर्मप्रकृतिव्युपशमज्ञानविहारिणो ऽनुपलम्भगोचरा निष्किंचना निरुपादाना निश्चिन्ता निरुपधयो ऽनुपादाय सुविमुक्ता अनङ्गणा अपर्यस्थायिनो ऽभिज्ञासु अमूलस्थायिनो ऽसङ्गाचारिका अनवलीना गम्भीरेषु धर्मेष्वभियुक्ता न संसीदन्ति दूरनुबोधबुद्धज्ञानप्रवेशोद्गता एकायनमार्गानुप्राप्ता निर्विचिकित्सास्तीर्णकथंकथा अपरप्रत्ययज्ञाना अनधिमानिनः । सुमेरुसमा ज्ञानाभ्युद्गताः । सागरसमा बुद्ध्यक्षोभ्याः । चन्द्रसूर्यप्रभातिक्रान्ताः प्रज्ञाभया पाण्डरसुशुक्लशुद्धशुभचित्ततया च । उत्तप्तहेमवर्णसदृशा अवभासनिर्भासतया च । वसुंधरासदृशाः सर्वसत्त्वशुभाशुभक्षमणतया । अप्सदृशाः सर्वक्लेशमूलनिर्धावनप्रवाहणतया च । अग्निराजसदृशाः सर्वधर्ममन्यनाक्लेशनिर्दहनतया । वायुसदृशाः सर्वलोकासञ्जनतया । आकाशसदृशाः सर्वधर्मनैर्वेधिकतया सर्वशो निष्किंचनतया च । ( सुख्व्, वैद्य 247 ) पद्मसदृशाः सर्वलोकानुपलिप्ततया । कालानुसारिमहामेघसदृशा धर्माभिगर्जनतया । महावृष्टिसदृशा धर्मसलिलाभिप्रवर्षणतया । ऋषभसदृशा महागणाभिभवनतया । महानागसदृशाः परमसुदान्तचित्ततया । भद्राश्वाजानेयसदृशाः सुविनीततया । सिंहमृगराजसदृशा विक्रमवैशारद्यासंत्रस्ततया । न्यग्रोधद्रुमराजसदृशाः सर्वसत्त्वपरित्राणतया । पर्वतराजसदृशाः सर्वपरप्रवाद्यकम्पनतया । गगनसदृशा अपरिमाणमैत्रीप्रभावनतया । महाब्रह्मसमाः सर्वकुशलमूलधर्माधिपत्यपूर्वंगमतया । पक्षिसदृशा असंनिचयस्थानतया । गरुडद्विजराजसदृशाः सर्वपरप्रवादिविध्वंसनतया । उदुम्बरपुष्पसदृशा दुर्लभाप्रत्यर्थितया । नागवत्सुसमाहिता अविक्षिप्ताजिह्मेन्द्रियतया । विनिश्चयकुशलाः क्षान्तिसौरभ्यबहुलाः । अनीर्षुकाः परसंपत्त्यप्रार्थनतया । विशारदा धर्मकथा स्वतृप्ता धर्मपर्येष्टया । वैडूर्यसदृशाः शीलेन । रत्नाकराः श्रुतेन । मञ्जुस्वरा महाधर्मदुन्दुभिनिर्घोषेण । महाधर्मभेरीं पराघ्नन्तो महाधर्मशङ्खमापूरयन्तो महाधर्मध्वजमुच्छ्रापयन्तो धर्मोल्कां प्रज्वालयन्तः प्रज्ञाविलोकिनो ऽसंमूढा निर्दोषाः शान्तखिलाः शुद्धा निरामगन्धा अलुब्धाः संविभागरता मुक्तत्यागाः प्रसृतपाणयो दानसंविभागरता धर्मामिषाभ्यां दाने ऽमत्सरिणो ऽसंसृष्टा उर्त्रस्तमानसा विरक्ता धीरा धौरेया धृतिमन्तो ह्रीमन्तः सुव्यूढसत्त्वा निर्गाढाः प्राप्ताभिज्ञाः सुरताः सुखसंवासा अर्थकरा लोकप्रद्योता नापदागन्तुं धीरा रागं तमः प्रनेकस्वष्ठः(?) शोकापगता निर्मला निमेषप्रहीणा विक्रीडिताभिज्ञा हेतुबलिकाः प्रणिधानबलिका अजिह्मा अकुटिला एते लक्षकोटीनियुतशतसहस्रावरोपितकुशलमूला उत्पाटितमानशल्या अपगतरागद्वेषमोहाः शुद्धाः शुद्धाधिमुक्ता जिनबलप्रशस्ता लोकपण्डिता उत्तप्तज्ञानसमुदागता जिनसुताश्चित्तौद्बिल्यसमन्वागताः शूरा दृढा अममा अखिला अतुला अरजस्काः सहिता उदारा ऋषभा ह्रीमन्तो धृतिमन्तः स्मृतिमन्तो मतिमन्तो गतिमन्तः प्रज्ञाशस्त्रप्रहरणा पुण्यवन्तो द्युतिमन्तो व्यपगतखिला मलप्रहीणाः स्मृतियुक्ताः शान्तज्ञानालम्भाः । ईदृशा आनन्द तस्मिन् बुद्धक्षेत्रे सत्त्वाः संक्षिप्तेन च । विस्तरेण पुनः सचेत्कल्पकोटीनियुतशतसहस्रस्थितिकेनाप्यायुष्प्रमाणेन तथागता निर्दिश्येरन्,नैव शक्यं तेषां सत्पुरुषाणां गुणपर्यन्तमधिगन्तुम्, न च तथागतस्य वैशारद्योपच्छेदो भवेत् । तत्कस्य हेतोः? उभयमप्येव आनन्द अचिन्त्यमतुल्यं यदिदं तेषां बोधिसत्त्वानां गुणास्तथागतस्य चानुत्तरप्रज्ञाप्रतिभानम्

39

स्तर्त् सुख्व् 39:
अपि चानन्द उत्तिष्ठ, पश्चान्मुखीभूत्वा पुष्पावकीर्णाञ्जलीं प्रगृह्य प्रणिपत । एषा सा दिग् यत्र स भगवानमिताभस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति, धर्मं च देशयति विरजो विशुद्धं यस्य तन्नामधेयमनावरणे दशदिशि लोके विघुष्टम् एकैकस्यां दिशि गङ्गानदीवालुकासमा बुद्धा भगवन्तो वर्णयन्ति स्तुवन्ति प्रशंसन्त्यसकृदसकृदसङ्गवाचाप्रतिवाक्याः । एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत् - इच्छाम्यहं भगवंस्तममिताभममितप्रभममितायुषं तथागतमर्हन्तं सम्यक्संबुद्धं द्रष्टुम्, तांश्च बोधिसत्त्वान् महासत्त्वान् बहुबुद्धकोटीनियुतशतसहस्रावरोपितकुशलमूलान् । समनन्तरभाषिता आयुष्मतानन्देनेयं ( सुख्व्, वैद्य 248 ) वाक्, अथ तावदेव सो ऽमिताभस्तथागतो ऽर्हन् सम्यक्संबुद्धः स्वपाणितलात्तथारूपं रश्मिं प्रामुञ्चद्यदिदं कोटीनियुतशतसहस्रतमं बुद्धक्षेत्रं महतावभासेन स्फुटमभूत् । तेन खलु पुनः समयेन सर्वत्र कोटीशतसहस्रबुद्धक्षेत्राणां ये केचित्कालपर्वता वा रत्नपर्वता वा मेरुमहामेरुमुचिलिन्दमहामुचिलिन्दचक्रवालमहाचक्रवाला वा चितयो वा स्तम्भा वा वृक्षगहनोद्यानविमानानि दिव्यमनुष्यकाणि, तानि सर्वाणि तस्य तथागतस्य तया प्रभयाभिनिर्भिन्नान्यभूवन् समभिभूतानि । तद्यथापि नाम पुरुषो व्याममात्रके ऽन्वितो द्वितीयं पुरुषं प्रत्यवेक्षेदादित्ये ऽभ्युद्गते, एवमेवास्मिन् बुद्धक्षेत्रे भिक्षुभिक्षुण्युपासकोपासिकादेवनागयक्षराक्षसगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याश्च तस्यां वेलायामद्राक्षुस्तममिताभं तथागतमर्हन्तं सम्यक्संबुद्धं सुमेरुमिव पर्वतराजं सर्वक्षेत्राभ्युद्गतं सर्वा दिशो ऽभिभूय भासमानं तपन्तं विरोचमानं विभ्राजमानम्, तं च महान्तं बोधिसत्त्वगणं तं च भिक्षुसंघं यदिदं बुद्धानुभावेन तस्याः प्रभायाः परिशुद्धत्वात् । तद्यथेयं महापृथिवी एकोदकजाता भवेत्, तत्र न वृक्षा न पर्वता न द्वीपा न तृणगुल्मौषधिवनस्पतयो न नदीश्वभ्रप्रपाताः प्रज्ञापयेरन्, अन्यत्रैकार्णवीभूता महापृथिव्येका स्यात्, एवमेव तस्मिन् बुद्धक्षेत्रे नास्त्यन्यत्किंचिल्लिङ्गं वा निमित्तं वा अन्यत्रैव व्यामप्रभाः श्रावकास्ते च योजनकोटीशतसहस्रप्रभा बोधिसत्त्वाः । स च भगवानमिताभस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तं च श्रावकगणं तं च बोधिसत्त्वगणमभिभूय सर्वा दिशः प्रभासयन् संदृश्यते । तेन खल्वपि समयेन तस्यां सुखावत्यां लोकधातौ बोधिसत्त्वाः श्रावकदेवमनुष्याश्च सर्वे ते इमाः सहालोकधातुं शाक्यमुनिं च तथागतमर्हन्तं सम्यक्संबुद्धमर्हता भिक्षुसंघेन परिवृतं पश्यन्ति स्म धर्मं देशयन्तम्

40

स्तर्त् सुख्व् 40:
तत्र खलु भगवानजितं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - पश्यसि त्वमजित अमुष्मिन बुद्धक्षेत्रे गुणालंकारव्यूहसंपदम्? उपरिष्टाच्चान्तरीक्षे आरामरमणीयान्युद्यानरमणीयानि नदीपुष्करिणीरमणीयानि नानारत्नपद्मोत्पलकुमुदपुण्डरीकाकीर्णानि? अधस्ताच्च धरणीतलमुपादाय यावदकनिष्ठभवनाद्गगनतलं पुष्पाभिकीर्णं पुष्पावलिसमुपशोभितं नानारत्नस्तम्बपङ्क्तिपरिस्फुटं तथागताभिनिर्मितनानाद्विजसंघनिषेवितम्? अजितो बोधिसत्त्व आह - पश्यामि भगवन् । भगवानाह - पश्यसि पुनस्त्वमजित एतानमरान् द्विजसंघान् सर्वबुद्धक्षेत्रं बुद्धस्वरेणाभिविज्ञापयन्तं येनैते बोधिसत्त्वा नित्यमविरहिता बुद्धानुस्मृत्या? अजित आह - पश्यामि भगवन् । भगवानाह - पश्यसि पुनस्त्वमजित अत्र बुद्धक्षेत्रे ऽमून् सत्त्वान् योजनशतसहस्रिकेषु विमानेष्वभिरूढानन्तरीक्षे ससत्कारान् क्रामन्तः? अजित आह - पश्यामि भगवन् । भगवानाह - तत्किं मन्यसे अजित अस्ति किंचिन्नानात्वं देवानां परनिर्मितवशवर्तिनां सुखावत्यां लोकधातौ मनुष्याणां वा? अजित आह - एकमप्यहं भगवन् नानात्वं न समनुपश्यामि यावन्महर्द्धिका अत्र सुखावत्यां लोकधातौ मनुष्याः । भगवानाह - पश्यसि पुनस्त्वमजित तत्र सुखावत्यां लोकधातावेतेषां मनुष्याणामुदारेषु पद्मेषु गर्भावासम्? आह - तद्यथापि नाम देवास्त्रायस्त्रिंशा देवा यामा वा पञ्चाशद्योजनिकेषु वा ( सुख्व्, सुख्व्, वैद्य 249 ) योजनशतिकेषु वा पञ्चयोजनशतिकेषु वा विमानेषु प्रविष्टाः क्रीडन्ति रमन्ति परिचारयन्ति, एवमेवाहं भगवन् अत्र सुखावत्यां लोकधातावेतेषां मनुष्याणामुदारेषु पद्मेषु गर्भावासं पश्यामि

41

स्तर्त् सुख्व् 41:
सन्ति खलु पुनरत्र भगवन् सत्त्वा य औपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति । तत्को ऽत्र भगवन् हेतुः कः प्रत्ययो यदन्ये गर्भावासं प्रतिवसन्ति, अन्ये पुनरौपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति? भगवानाह - ये ते अजित बोधिसत्त्वा अन्येषु बुद्धक्षेत्रेषु स्थिताः सुखावत्यां लोकधातावुपपत्तये विचिकित्सामुत्पादयन्ति, तेन चित्तेन कुशलमूलान्यवरोपयन्ति, तेषामत्र गर्भावासो भवति । ये पुनर्निर्विचिकित्सामुत्पाद्य च्छिन्नकाङ्क्षाः सुखावत्यां लोकधातावुपपत्तये कुशलमूलान्यवरोपयन्ति, बुद्धानां भगवतामसङ्गज्ञानमेवाकल्पयन्ति अभिश्रद्दधति अधिमुच्यन्ते,ते औपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति । ये ते अजित बोधिसत्त्वा महासत्त्वा अन्यत्र बुद्धक्षेत्रेषु स्थिताश्चित्तमुत्पादयन्ति अमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय, न विचिकित्सामुत्पादयन्ति, न काङ्क्षन्ति असङ्गं बुद्धज्ञानम्, स्वकुशलमूलं चाभिश्रद्दधति, तेषामौपपादुकानां पर्यङ्कैः प्रादुर्भूतानां मुहूर्तमात्रेण एवंरूपः कायो भवति तद्यथान्येषां चिरोपपन्नानां सत्त्वानाम् । पश्य अजित प्रज्ञाविशेषं प्रज्ञावैमात्र्यं प्रज्ञापरिहाणिं प्रज्ञापरीत्तताम् - यत्तु हिताय पञ्चवर्षशतानि परिहीणा भवन्ति बुद्धदर्शनाद्बोधिसत्त्वदर्शनाद्धर्मश्रवणाद्धर्मसंकथनात् । कुशलमूलचर्यायाः परिहीणा भवन्ति सर्वकुशलमूलसंपत्तिभिः यदिदं विचिकित्सापतितैः संज्ञामनसिकारैः । तद्यथापि नाम अजित राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य बन्धनागारं भवेत्सर्वसौवर्णवैडूर्यप्रत्युप्तमवसक्तपट्टमाल्यदामकलापं नानारङ्गविभववितानं दूष्यपट्टसंछन्नं नानापुष्पकुसुमाभिकीर्णमुदारधूपनिर्धूपितं प्रासादहर्म्यनिर्यूहगवाक्षवेदिकातोरणविचित्रं सप्तरत्नं किङ्किणीजालसंछन्नं चतुरस्रं चतुःस्थूणं चतुर्द्वारं चतुःसोपानम् । तत्र तस्य स राज्ञः पुत्रः केनचिदेव कृत्येन प्रक्षिप्य जाम्बूनदसुवर्णमयैर्निगडैर्बद्धो भवति । तस्य च तत्र पर्यङ्कः प्रज्ञप्तः स्यादनेकगोणिकास्तीर्णस्तूलिकापर्णकास्तीर्णः कालिङ्गप्रावरणप्रत्यास्तरणसोत्तरपदच्छद उभयान्तलोहितोपधानश्चित्रो दर्शनीयः । स तत्र तदाभिषण्णो वा अभिसंपन्नो वा भवेत् । बहु चास्यानेकविधं शुचि विनीतं पानभोजनं तत्रोपनाम्येत । तत्किं मन्यसे अजित उदारस्तस्य राजपुत्रस्य स परिभोगो भवेत्? अजित आह - उदारो भगवन् । भगवानाह - तत्किं मन्यसे अजित अपि त्वास्वादयेत्तत्र निशामयेच्च,तेन वा तुष्टिं विद्यात्?आह - नो हीदं भगवन् । अपि तु खलु पुनर्यद्यपनीत्य राज्ञा तत्र बन्धनागारे प्रक्षिप्तो भवेत्,स ततो मोक्षमेवाकाङ्क्षेत् । अभिजातान् कुमारानमात्यान् स्त्र्यागारान् श्रेष्ठिनो गृहपतीन् कोट्टराजांश्च पर्येषयेत्, य एनं ततो बन्धनागारात्परिमोचयेयुः । किंचापि भगवंस्तस्य राजकुमारस्य तत्र बन्धानागारे नाभिरतिः, नात्र परिमुच्यते, यावन्न राजा प्रसादमुपदर्शयति । भगवानाह - एवमेव अजित ये ते बोधिसत्त्वा विचिकित्सापतिताः कुशलमूलान्यवरोपयन्ति, ( सुख्व्, वैद्य 250 ) काङ्क्षति बुद्धज्ञानम्, किंचापि तेन बुद्धनामश्रवणेन तेन च चित्तप्रसादमात्रेण अत्र सुखावत्यां लोकधातावुपपद्यन्ते, न तु खल्वौपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति, अपि तु पद्मेषु गर्भावासं प्रतिवसन्ति । किंचापि तेषां तत्रोद्यानविमानसंज्ञाः संतिष्ठन्ते, नास्त्युच्चारप्रस्रावम्, नास्ति खेटसिंहाणकम्, न प्रतिकूलं मनसः प्रवर्तते, अपि तु खलु पुनः पञ्च वर्षशतानि विरहिता भवन्ति बुद्धदर्शनेन धर्मश्रवणेन बोधिसत्त्वदर्शनेन धर्मसांकथ्यविनिश्चयेन सर्वकुशलमूलेन धर्मचर्याभिश्च । किंचापि ते तत्र नाभिरमन्ते न तुष्टिं विजानन्ति,अपि तु खलु पुनः पूर्वापरान् क्षपयित्सते भूयस्ततः पश्चान्निस्क्रामन्ति । न चैषां ततो निष्क्रामतां निष्क्रमः प्रज्ञायते ऊर्ध्वमधस्तिर्यग्वा । पश्य अजित एतर्हि नाम पञ्चभिर्वर्षशतैर्बहूनि बुद्धकोटीनियुतशतसहस्रोपस्थानानि स्युर्बह्वपरिमाणासंख्येयाप्रमेयाणि च कुशलमूलान्यवरोपयितव्यानि । तत्सर्वं विचिकित्सादोषेण विनाशयन्ति । पश्य अजित कियन्महते ऽनर्थाय बोधिसत्त्वानां विचिकित्सा संवर्तत इति । तस्मात्तर्हि अजित बोधिसत्त्वैर्निर्विचिकित्सैर्बोधये चित्तमुत्पाद्य क्षिप्रं सर्वसत्त्वहितसुखाधानाय सामर्थ्यप्रतिलम्भार्थं सुखावत्यां लोकधातावुपपत्तये कुशलमूलानि परिणामयितव्यानि, यत्र भगवानमिताभस्तथागतो ऽर्हन् सम्यक्संबुद्धः

42

स्तर्त् सुख्व् 42:
एवमुक्ते अजितो बोधिसत्त्वो भगवन्तमेतदवोचत् - किं पुनर्भगवन् बोधिसत्त्वा इतो बुद्धक्षेत्रात्परिनिष्पन्ना अन्येषां वा बुद्धानां भगवतामन्तिकात्सुखावत्यां लोकधातावुपपत्स्यन्ते? भगवानाह - इतो ह्यजित बुद्धक्षेत्राद् द्वासप्ततिकोटीनियुतानि बोधिसत्त्वानां परिनिष्पन्नानि यानि सुखावत्यां लोकधातावुपपत्स्यन्ते परिनिष्पन्नानामवैवर्तिकानां बहुबुद्धकोटीनियुतशतसहस्राण्यवरोपितैः कुशलमूलैः, कः पुनर्वादस्ततः परीत्ततरैः कुशलमूलैः दुष्प्रसहस्य तथागतस्यान्तिकादष्टादशकोटीनियुतशतानि बोधिसत्त्वानां सुखावत्यां लोकधातावुपपत्स्यन्ते । पूर्वान्तरे दिग्भागे रत्नाकरो नाम तथागतो विहरति । तस्यान्तिकान्नवतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते । ज्योतिष्प्रभस्य तथागतस्यान्तिकाद्द्वाविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते । अमितप्रभस्य तथागतस्यान्तिकात्पञ्चविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते । लोकप्रदीपस्य तथागतस्यान्तिकात्षष्टिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते । नागाभिभुवस्तथागतस्यान्तिकाच्चतुःषष्टिर्बोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते । विरजःप्रभस्य तथागतस्यान्तिकात्पञ्चविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते । सिंहस्य तथागतस्यान्तिकात्षोडशबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते । सिंहस्य तथागतस्यान्तिकादष्टादशबोधिसत्त्वसहस्रानि सुखावत्यां लोकधातावुपपतस्यन्ते । श्रीकूटस्य तथागतस्यान्तिकादेकाशीतिबोधिसत्त्वकोटीनियुतानि सुखावत्यां लोकधातावुपपत्स्यन्ते । नरेन्द्रराजस्य तथागतस्यान्तिकाद्दशबोधिसत्त्वकोटीनियुतानि सुखावत्यां लोकधातावुपपत्स्यन्ते । बलाभिज्ञस्य तथागतस्यान्तिकाद्द्वादशबोधिसत्त्वसहस्राणि सुखावत्यां लोकधातावुपपत्स्यन्ते । पुष्पध्वजस्य ( सुख्व्, वैद्य 251 ) तथागतस्यान्तिकात्पञ्चविंशतिर्वीर्यप्राप्ता बोधिसत्त्वकोट्य एकप्रस्थानप्रस्थिता एकेनाष्टाहेन नवतिकल्पकोटीनियुतशतसहस्राणि पश्चान्मुखीकृत्य सुखावत्यां लोकधातावुपपत्स्यन्ते । ज्वलनाधिपतेस्तथागतस्यान्तिकाद्द्वादशबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते । वैशारद्यप्राप्तस्य तथागतस्यान्तिकादेकोनसप्ततिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते अमिताभस्य तथागतस्य दर्शनाय वन्दनाय पर्युपासनाय परिपृच्छनाय परिप्रश्नीकरणाय । एतेन अजित पर्यायेण परिपूर्णकल्पकोटीनियुतं नामधेयानि परिकीर्तयेयं तेषां तथागतानां येभ्यस्ते बोधिसत्त्वा उपसंक्रामन्ति सुखावत्यां लोकधातौ तममिताभं तथागतं द्रष्टुं वन्दितु पर्युपासितुम्, न शक्यश्च पर्यन्तो ऽधिगन्तुम्

43

स्तर्त् सुख्व् 43:
पश्य अजित कियत्सुलब्धलाभास्ते सत्त्वा ये ऽमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रोष्यन्ति । नापि ते सत्त्वा हीनाधिमुक्तिका भविष्यन्ति ये ऽन्तशएकचित्तप्रसादमपि तस्मिंस्तथागते ऽभिलप्यन्ते, अस्मिंश्च धर्मपर्याये । तस्मात्तर्हि अजित आरोचयामि वः, प्रतिवेदयामि सदेवकस्य लोकस्य पुरतो ऽस्य धर्मपर्यायस्य श्रावणाय । त्रिसाहस्रमहासाहस्रमपि लोकधातुमग्निपूर्णमवगाह्य अतिक्रमैकचित्तोत्पादमपि प्रतिसारो न कर्तव्यः । तत्कस्य हेतोः? बोधिसत्त्वकोट्यो ह्यजित अश्रवणादेषामेवंरूपाणां धर्मपर्यायाणां विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः । तस्मादस्य धर्मपर्यायस्याध्याशयेन श्रवणोद्ग्रहणधारणार्थं पर्यावाप्तये विस्तरेण संप्रकाशाय भावनार्थं च सुमहद्वीर्यमारब्धव्यम् । अन्तश एकरात्रिंदिनमपि, एकगोदोहमात्रमपि, अन्तशः पुस्तकावरोपितं कृत्वा सुलिखितो धारयितव्यः । शास्तृसंज्ञा च तत्रोपाध्याये कर्तव्या य इच्छति क्षिप्रमपरिमितान् सत्त्वानवैवर्तिकत्वे ऽनुत्तरायाः सम्यक्संबोधेः प्रतिष्ठापयितुम्, तच्च तस्य भगवतो ऽमिताभस्य तथागतस्य बुद्धक्षेत्रं द्रष्टुम्, आत्मनश्च विशिष्टां बुद्धक्षेत्रगुणालंकारव्यूहसंपदं परिग्रहीतुमिति । अपि तु खलु अजित अत्यर्थं सुलब्धलाभास्ते सत्त्वा अवरोपितकुशलमूलाः पूर्वजिनकृताधिकारा बुद्धाधिष्ठिताश्च भविष्यन्ति, येषामनागते ऽध्वनि यावत्सद्धर्मविप्रलोपे वर्तमाने इमे एवंरूपा उदारा धर्मपर्यायाः सर्वबुद्धसंवर्णिताः सर्वबुद्धप्रशस्ताः सर्वबुद्धानुज्ञाता महतः सर्वज्ञज्ञानस्य क्षिप्रमाहारकाः श्रोत्रावभासमागमिष्यन्ति । ये श्रुत्वा चोदारप्रीतिप्रामोद्यं प्रतिलप्स्यन्त उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति परेभ्यो विस्तरेण संप्रकाशयिष्यन्ति, भावनाभिरताश्च भविष्यन्ति, अन्तशो लिखित्वा पूजयिष्यन्ति, बहु च ते पुण्यं प्रसविष्यन्ति, यस्य न सुकरा संख्या कर्तुम् । इति हि अजित यत्तथागतेन कर्तव्यम्, कृतं मया । युष्माभिरिदानीं निर्विचिकित्सायोगः करणीयः । मा संशयत असङ्गमनावरणं बुद्धज्ञानम् । मा भूत्सर्वाकारावरोपितरत्नमये बन्धनागारे प्रवेशः । दुर्लभो हि अजित बुद्धोत्पादः । दुर्लभा धर्मदेशना । दुर्लभा क्षणसंपत् । आख्याता च अजित मया सर्वकुशलमूलपारमिताप्राप्तिः । यूयमिदानीमभियुज्यत प्रतिपद्यध्वम् । अस्य खलु पुनरजित धर्मपर्यायस्य महतीं परीन्दनां करोमि । अविप्रणाशाय बुद्धधर्माणामनन्तर्धानाय पराक्रमिष्यथ । मा तथागताज्ञां क्षोभयिष्यथ

vs_49

स्तर्त् सुख्व् 44:
अथ खलु पुनर्भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
न मे अकृतपुण्यानां श्रवा भेष्यन्ति ईदृशाः ।
ये तु ते शूर सिद्धार्थाः श्रोष्यन्ति च इमां गिरम्

vs_50

दृष्टो यैश्च हि संबुद्धो लोकनाथः प्रभंकरः ॥
सगौरवैः श्रुतो धर्मः प्रीतिं प्राप्स्यन्ति ते पराम्

vs_51

न शक्त हीनेहि कुसीददृष्टिभिः बुद्धान धर्मेषु प्रसाद विन्दितुम् ।
ये बुद्धक्षेत्रेषु अकार्षि पूजां त्रैलोकनाथान चर्यासु शिक्षिषु

vs_52

यथान्धकारे पुरुषो ह्यचक्षुः मार्गं न जाने कुतु संप्रकाशयेत् ।
सर्वं तथा श्रावक बुद्धज्ञाने अजानकाः किं पुनरद्य सत्त्वाः

vs_53

बुद्धो हि बुद्धस्य गुणां प्रजानते न देवनागासुरयक्षश्रावकाः ।
अनेकबुद्धान पि नो गती यथो बुद्धस्य ज्ञाने हि प्रकाश्यमाने

vs_54

यदि सर्वसत्त्वाः समता भवेयुः विशुद्धज्ञाने परमार्थकोविदाः ।
ते कल्पकोटीरथ वापि उत्तरे नैकस्य बुद्धस्य गुणान् कथेयुः

vs_55

अत्रान्तरे निर्वृत ते भवेयुः प्रकाशमाना बहुकल्पकोटीः ।
न च बुद्धज्ञानस्य प्रमाणु लभ्यते तथा हि ज्ञानाश्चर्यं जिनानाम्

vs_56

तस्मान्नरः पण्डित विज्ञजातियः यो मह्य वाक्यमभिश्रद्दधेय ।
कृत्स्नां स साक्षाज्जिनज्ञानमार्गान् बुद्धः प्रजानं ति गिरामुदीरयेत्

vs_57

कदाचि लभ्यति मनुष्यलाभः कदाचि बुद्धान पि प्रादुर्भावः ।
श्रद्धार्थप्रज्ञा सुचिरेण लभ्यते तस्यार्थप्राप्त्यै जनयेत् वीर्यम्

मूल पाठ: Sukhāvatīvyūha, vistaramātṛkā · Edition: P.L. Vaidya: Mahāyāna-sūtra-saṃgrahaḥ, Part 1) Darbhanga : The Mithila Institute, 1961, pp. 221-253. (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc