भाषा

ENहिગુ
ग्रंथ पाठ

शुकसप्तति · भाग 4160

तत्सुताया मदनरेखाया गले ग्रन्थिर्बभूव ।
वैद्यैरसाध्येत्युक्त्वा परित्यक्ता ततो राज्ञा डिण्डिमाघोषणं कारितं यथा यः को ऽपि मत्सुतां गतरोगां करोति तमहं दारिद्र्यरहित करोमीति श्रुत्वा परग्रामादागतया कयाचिद्द्विजभार्यया डिण्डिमः स्पृष्टः ।
तस्मिन्पृष्टे तयोक्तम्-यन्मम पतिर्मान्त्रिकः ।
स राजसुता प्रगुणां विधास्यति ।
ततो राजपुरुषैः समानीतः ।
तस्य च नीयमानस्य भार्या जगाद-"नाथ! गच्छ नगरम् ।
राजसुतायां प्रगुणीकृतायां तव बहु फलं भावि ।
स च मण्डलोपविष्टो मन्त्रादिकमजानम् कथं भवत्विति प्रश्नः ।
शुक उत्तरं प्राह-स मान्त्रिक आचार्यविस्तारं कृत्वा मन्त्रमित्युच्चारयामास ।
हौं जीवणु जाणौं काइं चडुडै वावै साइं ।
घल्लिउ बम्भणि वीसासु पैं भुञ्जसु सुकअसु हाइं ॥ सुक्_41.2 (=195) ॥
[अहं जीवनं जानामि किम् तत् पिष्यते विहीयते ।
गृहे ब्राह्मणि विश्राम्य पतिं सेवस्व सुखमेवं भवति] ॥ सुक्_41.2* (=195*) ॥
वणं इह आखुरिअदन्तप्पहसन्तअं ।
कहिं पि औरन्तअम्बेहि सिंगरिअं ॥ सुक्_41.3 (=196) ॥
[वनमिदमङ्कुरितदन्तप्रहसन्तं ।
कुत्रापि अङ्कुरिताम्रैः शृङ्गारितम्] ॥ सुक्_41.3* (=196*) ॥
सरसखीरमालिअफलभारणाझिप्रं ।
कहिं पि टिस्बुरिणिजम्बुइणिअअसोहिअं ॥ सुक्_41.4 (=197) ॥
[सरसक्षीरमालिकाफलभारनामितम् ।
कुत्रापि टिम्बुरिणीजम्बूनिचयशोभितम्] ॥ सुक्_41.4* (=197*) ॥
कहिं पि करवन्दाइजालसंराइअं ।
कहिं पि कप्पूरकङ्कोलगन्धवहं ॥ सुक्_41.5 (=198) ॥
[कुत्रापि करविन्दजालसंराजितम् ।
कुत्रापि कर्पूरकङ्कोलगन्धवहम्] ॥ सुक्_41.5* (=198*) ॥
देवदारुप्पिअङ्गुचूअमल्लीलां ।
कहिं पि सिरिखण्डऐगरुतरुमण्डिअं ॥ सुक्_41.6 (=199) ॥
[देवदारुप्रियङ्गुचूतमल्लोलतम् ।
कुत्रापि श्रीखण्डागरुतरुमण्डितम्] ॥ सुक्_41.6* (=199*) ॥
णाअपुंणाअदाडिमवरणाडम्बरं ।
मअरबोरीर्हि कविवीहिपीलुघणं ॥ सुक्_41.7 (=200) ॥
[नागपुन्नागदाडिमावरणाडम्बरम् ।
मकरबदरोकपित्थवीथीपीलुघनम्] ॥ सुक्_41.7* (=200*) ॥
दीहघणवास जलीर्हि ऐखोहिअं ।
कहिं पि रत्त-----डम्बरं ॥ सुक्_41.8 (=201) ॥
[दीर्घघनवासजालैः अतिक्षोभितम् ।
कुत्रापि रक्त------डम्बरम्] ॥ सुक्_41.8* (=201*) ॥
पोष्फलीविडवघणकरम्मरुद्धम्बरं ॥ सुक्_41.9 (=202) ॥
[पोप्पलीविटपघनकम्ररुद्धाम्बरम्] ॥ सुक्_41.9* (=202*) ॥
किञ्च-

रत्तकणवीरे कणवीरिअं फलिअं ।
अण्णवच्छम्मि सेवत्तिआ फुल्लिआ ॥ सुक्_41.10 (=203) ॥
[रक्तकर्णवीरे कर्णवीरकं फलितम् ।
अन्यवृक्षके सेवन्तिका फुल्लिता] ॥ सुक्_41.10* (=203*) ॥
अण्णवच्छम्मि कारन्द आवच्छअं ।
अण्णवच्छम्मि सिन्दूरअं फुल्लिअं ॥ सुक्_41.11 (=204) ॥
[अन्यवृक्षके कारण्डमाच्छादितम् ।
अन्यवृक्षके सिन्दूरकं फुल्लितम्] ॥ सुक्_41.11* (=204*) ॥
अण्णवच्चम्मि फुल्लस्तमन्दारअं ।
सिरिसौत्तुङ्गगन्धोहवरमारुअं ॥ सुक्_41.12 (=205) ॥
[अन्यवृक्षके फुल्लमन्दारकम् ।
शिरीषोत्तुङ्गगन्धहरमारुतम्] ॥ सुक्_41.12* (=205*) ॥
अण्णवच्छम्मि सिरिआतोरणं ।
फुल्लिअं मणोहरं जणिअपरिसोहिअं ॥ सुक्_41.13 (=206) ॥
[अन्यवृक्षके सिन्दूरिकातोरणम् ।
फुल्लितं मनोहरं जनितपरिशोभितम्] ॥ सुक्_41.13* (=206*) ॥
अण्णवच्छम्मि जुत्तद्दअं कुन्दअं ।
मल्लिणोमालिआकुसुमा घणपुप्फिआ ॥ सुक्_41.14 (=207) ॥
[अन्यवृक्षके युक्तदलं कुन्दकम् ।
मल्लीनवमालिकाकुसुमानि घनपुष्पितानि] ॥ सुक्_41.14* (=207*) ॥
इत्येवं बाह्मणस्य वदतो राजपुत्र्या हसितम् ।
हास्यतिरेकेण गलग्रन्धिर्द्विधा बभूव ।
द्विधा जाते च तस्मिन् राजसुतायाः सुखमुत्पन्नम् ।
नृपेण च कृतार्थीकृतो विप्रः स्वसदन गतः ।
इति कथां श्रुत्वो प्रभावती सुप्ता ।
इति शुकसप्ततौ एकचत्वारिंशत्तमो कथा ॥
स्तर्त् सुक् 42:
अरेपद्युः प्रभावती "गच्छामी"ति शुकं प्रत्याह ।
शुकः-
सुखोपभोगः संसारे सारं सर्वाङ्गसुन्दरि ।
व्रज चेद्व्याघ्रमारीव वेत्सि वक्तुं त्वमुत्तरम् ॥ सुक्_42.1 (=208) ॥
तच्छ्रुत्वा प्रभावत्याह-"सुखोपभोगः संसारे कोर! कथां कथय" ।
शुकः कथां प्राह- अस्ति देउलाख्यो ग्रामः ।
तत्र राजसिंहो नाम राजपुत्रः तद्भार्या कलहप्रियेति विश्रुता ।
सान्यदा भर्त्रा सार्धं कलहं विधाय पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता ।
सा च कोपवशात्पत्तनानि बहूनि वनानि च बहून्यतिक्रम्य गता मलयपाश्वस्थं महाकाननम् ।
तच्च कथं भूतम् ।
चन्दणसत्तच्छआसण्णअं सरलवरतुङ्गतरुसाहसंछण्णअं ।
कहिं पि सहआरखज्जूरिअं फणसअ मत्तालिविहङ्गभारिअं ॥ सुक्_42.2 (=209) ॥
[चन्दनसप्तच्छदसन्नद्धं सरलवरतुङ्गतरुशाखासंच्छन्नम् ।

क्वापि सहकारखर्जूरिकं पनसे मत्तालिविहङ्गभरितम्] ॥ सुक्_42.2* (=209*) ॥
कहिं पि सेलुपीलुफपूरिअन्तअं सरसवोरबहुतिन्तडीछण्णअं दाडिमीफलबिल्लफलसुगन्धिवाअअं ॥ सुक्_42.3 (=210) ॥
[क्वापि सेलुपीलूप्रपूरितान्तरं सरसबदरबहुतिन्तिडीच्छन्नम् दाडिमीफलबिल्वफलसुगन्धिवातकम्] ॥ सुक्_42.3* (=210*) ॥
एवंविधे गहने गता सा कलहप्रिया व्याघ्रं ददर्श ।
स च व्याघ्रस्तव सपुत्रां दृष्ट्वा पुच्छेन भूमिमाहत्य धावितः ।
ततः सा कथं भवतु? इति प्रश्नः ।
उत्तरं शुकः प्राह-सा व्याघ्रमागच्छमानं दृष्ट्वा घार्ष्ट्यात् पुत्रौ चपेटया हत्वा इति जगाद- कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः ।
अयमेकस्तावद्विभज्य भुज्यताम् ।
पश्चादन्यो द्वितीयः कश्चिल्लक्ष्यते ।
इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः ।
निजबुद्ध्या विमुक्ता सा भयाद्व्याघ्रस्य भामिनि ।
अन्यो ऽपि बुद्धिमांल्लोके मुच्यते महतो भयात् ॥ सुक्_42.4 (=211) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ द्विचत्वारिंशत्तमो कथा ॥
स्तर्त् सुक् 43:
अन्येद्युः शुकमापृच्छति स्म कामिनी ।
शुकः प्राह-
व्रज देवि न ते ऽयुक्तं व्रजनं गजगामिनि ।
व्याघ्रमारीव बुद्धिस्ते द्वितीयापि यदि स्थिरा ॥ सुक्_43.1 (=212) ॥
प्रभावती पृच्छति, कथमेतत्?
व्याघ्रमार्याः कृतां बुद्धिं द्वितीयां विवदाधुना ।
महत्कौतुकमत्रार्थे विद्यते मे प्रियंवद! ॥ सुक्_43.2 (=213) ॥
शुकः-
तं दृष्ट्वा कानने व्याघ्रं नष्टं जातं भयाकुलम् ।
मृगधूर्तो हसन्नाह व्याघ्रो नष्टः कुतो भयात् ॥ सुक्_43.3 (=214) ॥
व्याघ्रः-गच्छ गच्छ जम्बुक त्वमपि किंञ्चिद्गूग्प्रदेशम् ।
यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः ।
मृगधूर्तः-व्याघ्र! त्वया महत्कौतुकमावेदितं यन्मांसपिण्डाद् मानुषादपि बिभेषि ।
व्याघ्रः-प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया घ्नन्नी दृष्टा ।
जम्बुकः-स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम् ।
यदि व्याघ्र! तव तत्र गतस्य सा सम्मुखमपीक्षते तदा मम त्वदीया वेला स्मरणीया ।
व्याघ्रः-शृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात् ।
जम्बुकः-यद्येवं तहि मां निजगले बद्ध्वा चल शीघ्रम् ।
स व्याघ्रस्तथा कृत्वा कानन ययौ ।
व्याघ्रमार्यपि प्राप्ता पुत्रसहिता तेन जम्बुककृतोत्साहाद् व्याघ्रात्सा कथं मुच्यताम् ।
इति प्रश्नः ।
शुकः-तया व्याघ्रमार्या तदा चिन्तितं यदयं मृगधूर्तेनानीतस्तस्मादमुमेव जम्बुकमाक्षिपन्त्यङ्गुल्या तर्जयन्त्युवाच-
रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा ।
विश्वस्याद्यैकमानीय कथं यासि वदाधुना ॥ सुक्_43.4 (=215) ॥
इत्युक्त्वा धाविता तूर्णं व्याघ्रमारी भयङ्करा ।

व्याघ्रो ऽपि सहसा नष्टो गलबद्धशृगालकः ॥ सुक्_43.5 (=216) ॥
निजबुद्ध्या पुनर्मुक्ता व्याघ्रजाद् देवि सा भयात् ।
बुद्धिर्वलवती तन्वि सर्वकार्येषु सर्वदा ॥ सुक्_43.6 (=217) ॥
इति कथां श्रत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ त्रिचत्वारिंशत्तमी कथा ॥
स्तर्त् सुक् 44:
अथान्येद्यर्दिनावसाने प्रभावती शुकं पृच्छति ।
शुकः-
आत्मानं सङ्कटाद् देवि याहि चेद्वेत्सि रक्षितुम् ।
यथात्मा सङ्कटात्तेन जम्बुकेनापि रक्षितः ॥ सुक्_44.1 (=218) ॥
स च जम्बुको गलबद्धो निघृष्टपृष्ठचरणो गलद्रुधिरप्रवाहो मूमूर्षुरिव देशान्तरं गन्तुमिच्छता व्याघ्रमारीभयाद्व्याघ्रेण नोयते ।
ततो महतो ऽपायात् शृगालः कथं मुच्यते-इति प्रश्नः ।
उत्तरं प्राह शुकः-ततस्तं व्याघ्रं बहुनदीकाननविषमसमप्रेदेशपर्वतानुल्लङ्घयन्तं सत्वरं दृष्ट्वा आत्मानं मोचयितुकामः शृगालो भृशं जहास पीडितो ऽपि सन् ।
व्याग्रेणोक्तम्-कथं हसितम् ।
स आह-देव! सा मया व्याघ्रमारीति धूर्तिका ज्ञाता ।
त्वत्प्रसादाच्च दूरदेशमागतो ऽहं जीवितः ।
परं यदि सास्मद्रक्तस्रावसंलग्ना पापिनी पृष्ठतः समेति तदा कथं जीवितव्यम् ।
अतो ऽह हसितः ।
व्याघ्रस्वामिन्! स्थिरीभूय विचारय ।
अथ तुष्टो व्याघ्रस्तेन वाक्येन "तथेऽत्युक्त्वा जम्बुकं मुक्त्वा सहसा नष्टः ।
शृगालो ऽपि सुखं तस्थौ ।
बुद्धिर्वरं वरारोह धनमानसुखैषिणाम् ।
बुद्धिहीनाः परं क्लेशं प्राप्नुवन्ति कृशोदरि ॥ सुक्_44.2 (=219) ॥
बलं प्रज्ञाविहीनस्य परकार्याय केवलम् ।
गिरिकूटोपमाङ्गस्य कुञ्जरस्येव दृश्यते ॥ सुक्_44.3 (=220) ॥
इति कथां श्रुत्वा प्रभावती शुकवाक्यविस्मिता सुप्ता ।
इति शुकसप्ततौ चतुश्चत्वारिंशत्तमी कथा ॥
स्तर्त् सुक् 45:
अन्येद्युः सा कामिनी सन्ध्यायां शुकं पप्रच्छ-"गमिष्यामीऽति ।
शुकः प्राह--
समयोज्यं प्रियं भोक्तुं तव भामिनि सम्प्रति ।
वञ्चिता वेत्सि चेत्कर्तुं किञ्चिद्विष्णुः पुरा यथा ॥ सुक्_45.1 (=221) ॥
प्रभावत्याह--"कथमेतत्ऽ ।
शुकः प्राह-अस्ति विलासपुरं नाम नगरम् ।
तत्र अरिन्दमो नाम राजा ।
तत्र च विष्णुनामा ब्राह्मणो रतिलोलुपः कुटुम्बवर्जितो रतिकर्मणि सर्वनारीदुःसह इति नगरे प्रसिद्धो बभूव ।
वेश्याभिरपि न शक्यते जेतुं किम्पुनः कुलाङ्गनाभिः ।
तत्र रतिप्रिया नाम गणिका ।
अथ सा षोडश द्रम्मान् गृहीत्वा तमाजुहाव ।
तमायान्तं दृष्ट्वा सा चाटूक्तिभिः परिचर्यां चकार ।

सो ऽपि चान्यकार्यनिवृत्तस्तस्मिन्नेव रतिकर्मणि दत्तमनास्तां रन्तु जेतुमारेभे ।
तया च स रतिलोलुपः द्रव्यार्थं वा पराजयार्थं वा प्रहरद्वयं यावत्सोढः ।
निशीथे चाधोभूमिकामागत्य कुट्टिन्यग्रतो निवेदितं "यद्दुःसहो ऽयं द्विजः ।
पणबन्धं समर्पयित्वा तमुत्कालय ।
मयि जीवन्त्यां प्रागेव बाहुल्यं भविष्यतिऽ ।
कुट्टिन्याह-"अस्मद्गृहे न को ऽपि कामुको गणिकां जित्वा पणबन्धं जग्राह ।
ततो ऽहमेनं यावत्प्रपञ्चेन निःसारयामि तावत्सोढव्य इति ।
यदा चाहं पिप्पलमारुह्य सूर्पद्वयेन पक्षशब्दं कुक्कुटध्वनिं विदधानि तदा विभातमिति कृत्वा निःसारणयःऽ-इत्युक्त्वा प्रेषितोपरिभूमौ गणिका ।
यथोक्तं च कुट्टिन्या तावत्कृतम् ।
तस्मिन्कृते विभातमिति कृत्वा निःसारितो द्विजः ।
यावद् गृहद्वरस्थो व्योममालोकयते तदोपरि निशीथोवर्तते ।
तदा स विप्रः कुट्टिनीपराजितो जनमध्ये पराजयं कथं वहतु-इति प्रश्नः ।
शुकः-यदा विप्रः कुक्कुटध्वनिस्थानमवलोकयति तावत्सूर्पद्वययुतां कुट्टिनीं ददर्श ।
तेन च सा लोष्टेनाहत्य भूमौ पातिता प्रमादजनैश्च धिक्कृता ।
स च ब्राह्मणो ग्रहणकं द्विगुणं गृहीत्वा पुरमध्ये गणिकां विनिन्द्य ।
स्वगृहं ययौ ।
इति शुकसप्ततौ पञ्चचत्वारिंशत्तमी कथा ॥
स्तर्त् सुक् 46:
अथान्येद्युः प्रभावती शुकं पृच्छति ।
शुकः-
याहि देवि गृहं मुक्त्वा यदि वेत्सि त्वमुत्तरम् ।
यथा करगरानाथः कृतवान्भूतनिग्रहे ॥ सुक्_46.1 (=222) ॥
अस्ति देवि वत्सोमं नाम नगरम् ।
तत्र विद्वान्दरिद्रो ब्राह्मणः ।
तस्य प्रिया च करगराभिधाना यथार्थनाम्नो सर्वजन्तूद्वेगकारिणी, यत्तद्द्वारदेशवृक्षस्थितो भूतस्तस्याः करगराया भयात्पलाय्याटव्यां गतः ।
ब्राह्मणो ऽपि तस्या उद्वेगाद्देशान्तराभिमुखो ऽभूत् ।
सो ऽपि च तेन भूतेन दृष्टो जल्पितश्च मार्गश्रान्तस्त्वम् ।
तेन त्वयाद्य ममातिथिना भाव्यम् ।
विप्रेण भीरुणोक्तम्-यदातिथ्यं करोषि तद्विधेहि शीघ्रम् ।
भूतेनोक्तम्-न त्वया भेतव्यम् ।
त्वं मम स्वामी यतो ऽहं त्वद्गृहद्वारवृक्षस्थो भूतः करगराभयेनेहागतः ।
ततस्तव निजस्वामिनी गुणवदुपकर्तव्यमेव ।
तस्मात्त्वं द्विज मृगावतीं राजधानीं मदनभूपतिसनाथां गच्छ ।
तत्र चाहं तत्पुत्रीं मृगलोचनां ग्रहीष्ये ।
सा चान्यैर्मन्त्रिकैर्नोरुजा न भविष्यति ।
तत्त्वयि समागते तव दर्शनादेवाहं त्यक्ष्यामि ।
ततः परं तु मन्त्रवादो न विधेयः ।
इति भणित्वा सो ऽपि भूतो गत्वा तां राजपुत्रीं जग्राह ।
विप्रो ऽपि तत्र ययौ ।
तेन च डिण्डिमः स्पृष्टः ।

ततो राजकुलं गतो विप्र आचार्यविस्तरं विदधे ।
भूत आचार्यविस्तरं यावन्नमुञ्चति तावत्किं करोत्विति प्रश्नः ।
शुक-भूतग्रहे ऽनिवर्तिते विप्रेणोक्तम्-
करगरणाहौ आइऔ भूअ एउ वीससिउ ठिउ धुत्त ।
आपिणि बोलिउ संभरि रे कूडौं किं मैं देव जुत्त ॥ सुक्_46.2 (=223) ॥
[करगरानाथो ऽहमागत्य भूत इह विश्वस्य स्थितो धूर्त ।
आत्मनो वचनं संभृहि रे कूटकं किं मयि देव युक्तम्] ॥ सुक्_46.2* (=223*) ॥
उक्तञ्च-
मनुष्याः सुकुलोत्पन्ना अपि च ब्रह्मचारिमः ।
न भवन्ति मृषावाचः किं पुनर्देवयोनयः ॥ सुक्_46.3 (=224) ॥
ततो भूतः त्यक्त्वा जगाम ।
इयं मुक्तेत्युक्त्वा ब्राह्मणाय राज्ञा सुताः राज्यार्धञ्च प्रदत्तम् ।
विप्रो ऽपि पूर्णमनोरथो जगाम ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ षट्चत्वारिंशत्तमी कथा ॥
स्तर्त् सुक् 47:
दिनमतिवाह्य प्रभावती शुकं पृच्छति ।
शुकः-
गच्छ देवि गता वेत्सि यदि कर्तुं त्वमुत्तरम् ।
यथा करगरानाथः कृतवान्भूतसङ्कटे ॥ सुक्_47.1 (=225) ॥
स करगरापतिः राजकन्यया सह राजलक्ष्मीं भुङ्क्ते ।
अत्रान्तरे स भूतः कर्णावतीं गत्वा राज्ञो भार्यां सुलोचनां जग्राह ।
सा मदनस्य पितृष्वसा ।
सा चात्यर्थं पीडिता जीवितशेषाभूत् ।
सापि शत्रुघ्ननरपतेर्भार्या मातृराज्ये केशवमान्त्रिकमाकारयामास ।
स च निजदूताप्रेषयित्वा केशवो ऽपि राज्ञा प्रियवाक्यैः प्रहितो ऽप्यगन्तुकामुकः ।
तदा स करगरापतिर्भार्यानुरोधतो जगाम ।
तत्र गतः सन्मानितो महीभुजा शत्रुघ्नेन गतः सुलोचनावेश्मनि ।
स च भूतस्तमायान्तं दृष्ट्वा परुषैर्वाक्यैस्तर्जयन्नित्याह-"मया प्रतिपन्नमेकदेशे कृतम् ।
अधुना तु विप्र त्वया आत्मा रक्षणीयःऽ ।
स च द्विजो न मन्त्रं न तन्त्रं विजानाति ।
कथं भवत्विति प्रश्नः ।
शुकः- तदा तं भूतं ज्ञात्वा कालवेदी कृताञ्जलिर्भूत्वा तत्कर्णमाश्रित्येति जगाद द्विजः ।
प्राप्ता करगरा भूत पृष्ठलग्नात्र मे ऽधुना ।
यद्भर्ता चात्र सम्प्राप्तस्तद्व्याख्यातुमिहागतः ॥ सुक्_47.2 (=226) ॥
श्रुत्वैतद्वचनं भीतो भूतो विस्मितमानसः ।
यामीति ब्राह्मणं प्रोक्त्वा पात्रं त्यक्त्वा जगाम तत् ॥ सुक्_47.3 (=227) ॥
तदा पात्रे स्वस्थीभूते शत्रुघ्नराज्ञा सत्कृतो ब्राह्मणो मृगावतीनगरं ययौ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ सप्तचत्वारिंशत्तमी कथा ॥

स्तर्त् सुक् 48:
अथान्येद्युः प्रभावती शुकं पृच्छति-गच्छामि नरान्तरमिति ।
शुकः-
सम्भोगसुखमेवात्र परमं व्रज सुन्दरि ।
विषमे निर्णयं कर्तुं वेत्सि चेच्छकटालवत् ॥ सुक्_48.1 (=228) ॥
पाटलीपुरपट्टने सार्वभौमो नन्दो नाम राजभूत् ।
शकटालस्तस्य नृपतेः सचिवाग्रणीरभत् ।
तद्बुद्धिविभवाक्रान्ताश्च भूपालाः सर्वे ऽपि करदा अभवन् ।
उक्तञ्च-
अप्राज्ञेन च कातरेण च गुणः स्यात्सानुरागेण कः प्रज्ञाविक्रमशालिनो ऽपि हि भवेत् किं भक्तिहीनात्फलम् ।
प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे सम्पत्सु चापत्सु च ॥ सुक्_48.2 (=229) ॥
किञ्च-
प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः ।
हस्तोपधृतछत्रस्य वारिधारा इवारयः ॥ सुक्_48.3 (=230) ॥
स च राजा धर्मनाशकं कुर्वन्निर्द्रव्यां च मेदिनीं विदधानो निषिद्धो मन्त्रिणा ।
ततस्तेनापि मूर्खेण राज्ञा सचिवो ऽवटे निक्षिप्तः ।
स च सपुत्रस्तत्र चिरं तस्थौ ।
ततः शकटाले महामात्ये तत्रस्थे सर्वत्र मृतो मृत इति वार्त्ताभूत् ।
ततो बङ्गालनाथेन तत्परीक्षार्थमात्मोयपुरुषा घोटिकाद्वयं समर्प्य नन्दपार्श्वे प्रेषिताः ।
यदेतयोर्मध्यात्का माता का च पुत्री इति ज्ञात्वा समागन्तव्यम् ।
सर्वलक्षणसम्पूर्णे सदृशे घोटिकेतानि च लक्षणानि शालिहोत्रज्ञातव्यानि ।
यदा च को ऽपि नन्दराज्ये घोटिकानिर्णयं कर्तुं न क्षमस्तदा नन्दो राजा व्यचिन्तयात्-"शकटालं विनाहं परिभवास्पदं जातः" ।
उक्तञ्च-
भूमेश्च देशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशे ।
भृत्यप्रणाशे मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ सुक्_48.4 (=231) ॥
विचिन्त्यैव दण्डपाशिकमब्रवीत् "यच्छकटालकुले कश्चित्कूपगतो विद्यते न वा" ।
तेनोक्तम्-"कश्चिदस्ति परं व्यक्तितो न ज्ञायते ।
यतः पूर्वोद्दिष्टं भक्तं कश्चित्कूपगतो गृह्णाति ।
तं च कूपादाकृष्य सम्मान्य च एव मुक्तवान्-
मान्यस्त्वं मम मित्रं च गुरुः स्वामी नियोगकः ।
आश्रयस्य सदा दाता कि क न त्वं सदानघ ॥ सुक्_48.5 (=232) ॥
उक्तञ्च-
स्वामी दुर्णयवारणव्यतिकरे शास्त्रोपदेशे गुरुर्विश्रम्भे हृदयं नियोगसमये दासो भये चाश्रयः ।
दाता सप्तसमुद्रसीमरशनादामान्तिकायाः क्षितेः सर्वाकारमभूत्स्वयं वरसुहृत्को न कर्णो मम ॥ सुक्_48.6 (=233) ॥
मन्त्रिणोक्तम्-"स्वामिन् किं विधेयं तदादिशऽ ।
राज्ञोक्तम्-"अस्य वडवायुगलस्य मध्ये का माता का च पुत्री इति सन्देहममीषां छलात्मनां दूतानां शीघ्रं छिन्धि ।
स कथं छिनत्तु तत्सन्देहमिति प्रश्नः ।
शुकः-ततो मन्त्रिणा तद्वडवायुगं सपर्याणं कारयित्वा बाह्याल्यामतिवाह्य पर्याणरहितं विधाय श्रान्तं सम्मोचितम् ।
तदनु तद्युगलं च मातृसुताविचेष्टितं चकार ।
माता जिह्वया सुतां लिलेह सुता च तां प्रति अतिवत्सलाभूत् ।

ततः सुमन्त्रिणा मातृसुताविशेषा राज्ञो ऽग्रे निवेदितः ।
ततश्च शकटालः परां लक्ष्मीं प्रसिद्धिं च लेभे ।
इति कथां श्रत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ अष्टचत्वारिंशत्तमी कथा ॥
स्तर्त् सुक् 49:
अथापरेद्युः दिनकृत्यं सा विधाय शुकमापृच्छते ।
शुकः-
सम्भोगसुखमेवाद्य भोक्तुं ते देवि युज्यते ।
विषमे ऽपि प्रवीणासि पुनश्चेच्छकटालवत् ॥ सुक्_49.1 (=234) ॥
यथापूर्वं तथैव बङ्गालनाथो यष्टिकां सुवृत्तां ध्वजाच्छिद्रिणीमयीं जीवचछकटालपरीक्षायै तैरेव पुंभिः प्रेषयामास ।
यथा युष्माभिर्नन्दराज्ये गत्वा अस्या यष्टिकाया रत्नसुवर्मवज्रैर्खचिताया आदिमन्तं ज्ञात्वा समागन्तव्यमित्यादेशात्ते पुमांसो नन्दपार्श्वमागत्य यष्टिकां तत्पुरतो मुक्त्वा आदिमन्तं च पप्रच्छुः ।
तच्छ्रत्वा प्रधानैः कलाभिज्ञैर्वणिग्वरैस्तोलिता आन्यैश्च कोविदैरवलोकिता ।
परं केनापि आद्यन्तविभागो न ज्ञातः ।
ततो राजा शकटालमादिशत् यत्त्वां विना आद्यन्तविभागं न को ऽपि जानाति ।
ततस्त्वया निर्णयो विधेय एव ।
ततो मन्त्री वदति-"स्वामिन्! युष्मत्कृता सम्भावनापि न निष्फला ।
उक्तञ्च सुवंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।
कृच्छ्रेषु व्यर्थया यत्र भूपतेर्भर्तुराज्ञया ॥ सुक्_49.2 (=235) ॥
ततश्च स मन्त्री सम्भावितो ऽपि कथं ज्ञास्यतीति प्रश्नः ।
उत्तरम्-शुकः प्राह-"ततो ऽसौ बुद्धिमान्मन्त्री यष्टिकां जले चिक्षेप ।
ज्ञातञ्च यतो यन्मूलं तदीषज्जले मग्नम् ।
तच्च नृपतेर्निवेदितम् ।
तेन च तेषां दूतानामपि कथितम् ।
ततस्ते श्रुत्वास्वराज्ञे न्यवेदयन् ।
ततश्च ते राजानो नन्दाधिराजस्य पूर्वजल्पितं करं ददुः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ एकोनपञ्चाशत्तमी कथा ॥
स्तर्त् सुक् 50:
अन्यदा प्रदोषे प्रभावती चलिता शुकं पप्रच्छ ।
शुकः-
गच्छ देवि न ते दोषो गमने को ऽपि दृश्यते ।
विषमे यदि वेत्सि त्वं धर्मबुद्धिरिवेहितम् ॥ सुक्_50.1 (=236) ॥
"कथमेतत्?" शुकः-अस्तिः देवि धरापृष्ठे जाङ्गलाभिधो ग्रामः ।
तत्र मित्रद्वयं वर्तते धर्मबुद्धिर्दुष्टबुद्धिश्चेति ।
अन्यदा तौ द्वावपि धनाशया देशान्तरं गतौ ।
कियद्भिर्दिनैः प्रचुरं धनमर्जयित्वा स्वग्रामागतौ परस्परं मन्त्रं चक्राते यत्पिप्पलाधो धनं किञ्छित्क्षिप्त्वान्यद्गृहे नीयते ।
पश्चात्क्रमेण विभज्यते लग्नम् ।
इति कृत्वा तौ निजगृहं जग्मतुर्हृष्टतुष्टौ सुखास्वादतत्परौ स्थितौ ।
अत्रान्तरे यत्कृत दुष्टबुद्धिना तन्निशम्यताम् ।
नच युज्यते वक्तुम् ।

यतः-
न वक्तव्यं ध्रुवं देवि पापं दृष्टं श्रुतं मया ।
कथापि खलु पापानामलमश्रेयसे यतः ॥ सुक्_50.2 (=237) ॥
तेन च दुष्टबुद्धिना तद्द्रव्यमुत्पाट्य गृहीत्वा निजगृहमानीतम् ।
कालक्रमेण च सम्मिलितौ पिप्पलाधःस्थितं द्रव्यं ग्रहीतुं गतौ यावदालोकयतः तावद्द्रव्यं नास्ति ।
धर्मबुद्धिस्ततो गत्वा मन्त्रिणो ऽग्रे आचख्यौ धनवृत्तान्तं हृतं चापि कुबुद्धिना ।
कुबुद्धिनाहृतेन उत्तरं कृतम् ।
सहस्रस्य पणो मुक्तः ।
एतदर्थे शपथं दापयिष्यामि ।
मन्त्रिणोक्तमेवमेवास्तु ।
द्वितीयेनापि प्रतिपन्नं यदा तदा मन्त्रिणा प्रतिभुवौ गृहीत्वा मुक्तौ गतौ गेहं पृथक्पृथक् ।
ततो दुष्टबुद्धिर्निजं पितरं विदितार्थं कृत्वा वृक्षकोटरे चिक्षेप ।
प्रभाते सचिवस्तौ च वादिनो कोतुकी लोकश्च तं पिप्पलं ययुः ।
दुष्टबुद्धिः स्नातः कृताञ्जलिः सत्यं कृत्वा जगाद ।
"इदंसत्यं ब्रूहि नगोत्तम यदि मया द्रव्यमपहृतं तदानेन हृतमिति वाच्यम् ।
यदि न हृतं तदानेन न हृतमिति वाच्यम्" ।
इति श्रुत्वा तत्पित्रा नहीति जल्पितं सर्वलोकप्रत्यक्षम् ।
ततो धर्मबुद्धिः कथं भवतु-इति प्रश्नः ।
तत्सन्दिष्टः शुक-प्राह--"धर्मबुद्धिस्तं शब्दं तत्पितुर्ज्ञात्वा कोटरे वह्निं जज्वाल ।
तं पितरं कोटरात् फूत्कूर्वन्तमर्धज्वलितं च पतितं दृष्ट्वा दुष्टबुद्धेर्निग्रहं विधाय मन्त्री धर्मबुद्धिमानन्दयामास ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ पञ्चाशत्तमी कथा ॥
स्तर्त् सुक् 51:
अन्यदा सा बाला शुकं पप्रच्छ ।
शुकः-
यादि देवि रतास्वादलुब्धे कामिनि तं नरम् ।
गाङ्गिलवद्विजानासि विषमे यदि भाषितुम् ॥ सुक्_51.1 (=238) ॥
प्रभावती ब्रूते-"नाहे वेद्मि ।
तत्कथय" ।
शुकः-"अस्ति चमत्कारपुरं नाम नगरम् ।
तच्च चतुर्वेदचतुर्वर्णचतुराश्रमसमाकुलम् ।
ततः कदाचित्तत्रस्था ब्राह्मणा वल्लभीनाथयात्रायां चलिता गन्त्रीभिरश्ववाहनैः सकौतुका वृद्धिमन्तः पूर्णपार्थयादिसामग्रीका सारनेपथ्याः सपुत्रकलत्राः ।
मार्गे चौरैर्गृहीतुमारब्धाः ।
ते ऽपि सर्वे भयाकुला नष्टाः ।
गाङ्गिलनामा विप्रस्तैर्विप्रैः सह गन्तुमशक्तः खञ्जः सन् समन्ततो गन्त्र्यारूढो धृतः ।
ततः स कथं भवत्विति प्रश्नः ।
शुकः-ततः सर्वेषु द्विजेपु नष्टेषु स शकटस्थः उद्भ्रान्तं भ्रातरं साहसिक इव जगाद ।
भ्रातः कियन्तो गजाः कियन्तश्च वाजिनः सन्ति ।
इति कथय सतूर्मं च त्वं धनुरर्पय यथैतान्दिव्यास्त्रेण युगपन्मारयामि ।
इति वचः श्रुत्वा ते तस्कराः सर्वे ऽपि नष्टाः ।

तस्माद्यो भाषितुं वेत्ति धर्मे चार्थे स्मरे तथा ।
कस्तं धर्षयितुं शक्तो नरेषु कमलानने ॥ सुक्_51.2 (=239) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ एकपञ्चाशत्तमो कथा ॥
स्तर्त् सुक् 52:
अतिक्रम्य दिवा प्रभावती त्रियामासमये द्विजं प्राह-व्रजामीति ।
शुकः-
व्रजाभोष्टं नरं देवि यदि कार्यं निजं गता ।
जयश्रीरिव जानासि कार्यं कर्तुं निजं हितम् ॥ सुक्_52.1 (=240) ॥
कथमेतत्? शुकः-शृणु देवि! अस्ति धरापृष्ठे प्रतिष्ठानं नाम पत्तनम् ।
तत्र सत्त्वशीलो राजा ।
तत्पुत्रो दुर्दमनो नाम ।
तेन इति चिन्तितं यन्मया स्वभुजोपार्जितमेव भोक्तव्यं न तु पैतृकमिति सञ्चिन्त्य निजनगरं त्यक्त्वा समशीलैर्मित्रैः ब्राह्मणकाष्ठतड्वणिक्पुत्रैः समं निर्ययौ देशान्तरोपरि ।
ततश्च तैर्मिलितैश्चिन्तितं यदरमाकं रत्नभूमिर्महोदधिः सेवितुं युज्यते ।
उक्तं यतः-
विद्यावतां कुलीनानां शौर्यसम्पत्तिशालिनाम् ।
स्थानं नरेशभवनमथवा यत्ततो ऽधिकम् ॥ सुक्_52.2 (=241) ॥
उक्तञ्च-
सन्त एव सतां नित्यमापत्तरणहेतवः ।
गजानां पङ्कमग्नानां गजा एव धुरन्धराः ॥ सुक्_52.3 (=242) ॥
विचार्यैवं सेवितः पयसां पतिः त्रिसप्तकृत्व उपोषितैस्तैः ।
ततस्तुष्टो ऽम्भोनिधिः तेभ्यश्चतुर्भ्यश्चत्वारि चिन्तामणिगुणानि रत्नानि ददौ ।
निवृत्ताः कृतकृत्यास्ते लब्ध्वा रत्नचतुष्टयम् ।
विश्वस्ता वणिजः पार्श्वे सर्वं एव समार्पयन् ॥ सुक्_52.4 (=243) ॥
ततो दुष्टेन तेन लोभाभिभूतेन तद्रत्नचतुष्टयं जङ्घान्तरे क्षिप्त्वा सीवितम् ।
एकदा अन्यदा च मार्गे फूत्कृतं पश्चाद्दूरस्थितेन वणिजा मुषितो ऽस्मीति वदनैः ।
तैरुक्तम्-केन हेतुना ।
सा आह-मम मूत्रोत्सर्गार्थं पश्चात्स्थितस्य चौरेण मात्रापहृता विश्वापि ।
एवे च निवेदिते तैर्ज्ञातं-पश्य धूर्तो ऽयम् ।
नूनमनेन वणिजाकिमपि कृटं कृतं भविष्यतीति मन्यमाना विवदन्तः ऐरावतीं पुरीं ययुः ।
तत्र च नीतिसार इत्याख्यातो भूपतिः ।
तस्य च मन्त्री बुद्धिसारो नाम जगद्विख्यातः यस्यैवं प्रसिद्धिर्देशे देशान्तरे च यद्विवादिनां वचनमुक्तमात्रं जानाति ।
ततस्ते राजपुत्राद्यास्तस्मै मन्त्रिणे आचख्युः निजं रत्नगमनवृत्तान्त यथा जातम् ।
तथैव विरीक्ष्यास्माकं मध्ये रत्नजातं वधबन्धं विना पृथक् पृथक् एकैकं समर्पय ।
यदि च नार्पयसि तानि ज्ञात्वा तदा प्रसिद्धिर्भिविते व्यर्थतां याति ।
बुद्धिसार इति श्रुत्वा चिन्तावष्टब्धः स्थितः ।
स च राजा नीतिसारः कथं स्यादिति प्रश्नः ।
शुकः प्राह-यदा स मन्त्री रत्नचतुष्टयं तन्मध्ये स्थितं न जनाति तदा विषण्णो गृहमाययौ ।
अत्रान्तरे मन्त्रिपुत्री प्राप्तनवयौवना पार्वतीं नत्वा पितुर्नमस्कारणाय गता जयश्रीनामदेया ।
पितरं तादृशं सचिन्तं दृष्ट्वा विषादकारणं पृच्छति स्म ।

ततो मन्त्री यथास्थितमाचष्टे ।
सुता प्राह-तात! मा विषीद ।
तेषां निर्णयमहं करिष्यते ।
ते विवादिनः पुमांसो यदा कारणायागच्छन्ति तदा गृहे प्रेषणीयाः यथाहं तन्मध्याद्रत्नजातहर्तारं समर्पयामि ।
सा आह- पुत्रि! यन्मया न ज्ञातं तत्त्वं कथं ज्ञास्यसि? सा आह-
न चैतत्तात वक्तव्यं भिन्ना बुद्धिर्हि देहिषु ।
को ऽपि किञ्चिद्विजानाति जगत्यत्र कलापरः ॥ सुक्_52.5 (=244) ॥
किञ्च-
मुण्डे मुण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।
तुण्डे तुण्डे नवा वाणी गेहे गेहे पतिव्रता ॥ सुक्_52.6 (=245) ॥
प्रज्ञाविस्फारिताक्षाणां विद्रवन्ति विपत्तयः ।
हस्तोद्यतप्रदीपानामन्धकार इवाग्रतः ॥ सुक्_52.7 (=246) ॥
तस्मात्तात! नात्र कापि चिन्ता कार्या ।
प्रस्थाप्यास्ते ऽन्यदेशिनः यथा तान्प्रबोधयामि ।
प्रस्थापितास्ते मन्त्रिणा तयापि स्नापिता भोजिताश्च पृथक्पृथक शायिताः ।
ततः सा शृङ्गारं विधाय प्रधानं राजपुत्रं प्राह-अहं रत्यर्थिनी तव पार्श्वं समागता ।
त्वं च मह्यं काञ्चनशतं दत्त्वा मां भुङ्क्ष्व ।
तेनोक्तम्-अहं तव द्रव्यं राज्यं चोपार्ज्य दास्यामि ।
परमधुना न किञ्चन विद्यते ।
इति तं निर्द्रव्यं ज्ञात्वा ब्राह्मणं गता ।
ब्राह्मणमपि पूर्वोक्तमेवोक्तवती ।
ब्राह्मणो जगाद-यदस्मत्पितुः पार्श्वे द्रव्यं शासनबद्धा भूमिरपि तत्सर्वं तुभ्यं दास्ये ।
तमपि निर्धनं ज्ञात्वा परित्यज्य सूत्रधारं ययौ ।
आह च सः-साम्प्रतं मम पार्श्वे किञ्चिन्न विद्यते परं पश्चाल्लक्षं दास्यामि ।
तमपि निर्द्रव्यं परित्यज्य वणिक्सुतं ययौ ।
तथैव गदितवती ।
स आह-स्वामिनि! रत्नचतुष्टयं गृहीत्वा मां भुङ्क्ष्व ।
ततो जङ्घायाः समाकृष्य रत्नजातं समर्पयामास ।
ततः सा सव्याजमुत्थाय शीलरक्षां कुर्वाणा जयश्रीर्गृहमाययौ ।
रत्नचतुष्टयं पितुरर्पयामास ।
मन्त्र्यपि तानाकार्य निजं निजं रत्नं समर्पयामास ।
ते ऽपि स्वरत्नलाभात्कृतकृत्या निजं निजं गृहं ययुः ।
इति कथां श्रुत्बा प्रभावती सुप्ता ।
इति शुकसप्तती द्विपञ्चाशत्तमो कथा ॥
स्तर्त् सुक् 53:
अथापरेद्युः प्रभावती गमनाय शुकं पृच्छति ।
शुकः प्रोवाच-
व्रज रम्भोरु युक्तं ते गमनं विषमे सति ।
चेत्कर्तुमुत्तरं वेत्सि चर्मकारकलत्रवत् ॥ सुक्_53.1 (=247) ॥
प्रभावती पृच्छति-कथमेतत्? शुकः-चर्मण्वतीनदीतीरे चर्मकूट इति ग्रामः ।

तत्र च दोहडो नाम चर्मकारः ।
तस्य देविका नाम भार्या परं परपुरुषलम्पटा ।
ततः स चर्मकारश्चर्मणां क्रयणाय यदा बहिर्निर्गतः तदा तया उपपतिः समानीतः ।
तयोश्चान्ते सुरतसेविनोः पतिश्चर्मसमायुक्तो बहिरागतः ।
ततः स उपपतिः सा च कथं भवेताम् इति प्रश्नः ।
तत्पृष्टः शुकः प्राह-
यदा च तया पतिर्ज्ञातः समागच्छन्तदा-
रूहं चुचुहुञ्चूकरऊंहूं आऔचलिहं नावहं मद्रं ।
उवाइपाउ चलियौ फिरिया खंलिगावह ॥ सुक्_53.2 (=247,1) ॥
इति वाक्यं वदति त्वरितं निःसृता ।
ततस्तद्वाक्यं श्रुत्वा भीतो मान्त्रिकमाकरणाय स मूर्खो भ्रमितुं गतो ग्रामे यावत्तावत्तया च निःसारितो जारः स्ववेश्म गतः ।
ततस्त्वमप्युत्तरं विषमे यदि वेत्सि तदा गच्छ ।
अन्यथा शयन कुरु ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ त्रिपञ्चाशत्तमो कथा ॥
स्तर्त् सुक् 54:
अथातिवाह्य दिनं प्रभावती गमनोत्सुका पुनः शुकं पृच्छति ।
स प्राह-
को दोषो गम्यतां देवि यादि त्वं वेत्सि भाषितुम् ।
दूतेन भाषितं यद्वद्विषमे नृपतेः पुरः ॥ सुक्_54.1 (=248) ॥
प्रभावत्याह-कथमेतत् ।
शुकः-अस्ति शक्रावती नाम पुरी ।
तस्यां धर्मदत्तो नाम राजा धर्मादिगुणोपेतः ।
तस्यामात्यः सुशीलो नाम ।
तस्य च सुतो विष्णुनामा संधिविग्रहिकः पूर्वमासीत् ।
तस्मात्पदाद्यदा भ्रष्टो द्रव्यहीनः कुलामात्यो ऽहमित्यहङ्कृतः कर्कशश्च ।
ततो राजा न किञ्चिद्वदति ।
मन्त्री च कदाचिन्नृपमाह-स्वामिन्नयं विष्णुर्भक्तो रक्तः प्रवीणो दूतकर्मणि ।
तद्देवपादैः क्वापि प्रेषयित्वा परीक्षणीयः ।
ततो राजा तद्वाक्यं श्रुत्वा तत्प्रतिकूलः सन्भस्मप्राभृतं मुद्रया मुद्रितं समर्प्य शत्रुदमननृपपार्श्वे विदिशायां नगर्यां तं प्रेषयामास ।
सो ऽपि च तत्र गतस्तत्प्राभृतं भस्ममयमजानन्मुद्रितं राज्ञः पुरो मुक्तवान् ।
तस्मिंश्चामङ्गलकारिणि प्राभृते राज्ञो ऽग्रे मुक्ते राजा कोपाटोपसहितो बभूव ।
ततः स दूतस्तस्मिन्प्राभृते समानीते कथं क्षेममवाप्नोतु इति प्रश्नः ।
शुक उत्तरं प्राह-स विष्णुस्तं क्रुद्धं दृष्ट्वा बुद्धिमानिदमुवाच-स्वामिन्! मदीयेन नाथेनाश्वमेधो यज्ञः कृतः ।
तस्य कुण्डस्य त्रेताग्रिसम्भवं पवित्रं श्रेयस्करमघापहं भस्म वन्दनाय समर्पितवान् ।
यतः-
गजाः सन्ति हयाः सन्ति विचित्राः सन्ति सम्पदः ।
त्वदीये च मदीये च दुर्लभं भस्म याज्ञिकम् ॥ सुक्_54.2 (=249) ॥
इत्युक्त्वा सहसोत्थाय करे भस्म कृत्वा राज्ञे समर्पयामास ।
स च तेन वचसा तुष्टिपरो ववन्दे ।

तेनापि तुष्टेन प्रतिप्राभृतं महत्प्रेषितम् ।
स च विष्णुः सम्मान्य विसर्जितः ।
ततस्त्वमपि भामिनि! विषमे उत्तरं जानासि यदि तदा गम्यतामन्यथा तिष्ठ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ चतुःपञ्चाशत्तमी कथा ॥
स्तर्त् सुक् 55:
अन्यदा यामिनीसमये प्रभावती गमनाय शुकमापृच्छति ।
कीर उवाच-
गच्छ रम्भोरु गमनं युज्यते गजगामिनि ।
यदि वेत्स्युत्तरं कर्तुं श्रीधरो ब्राह्मणो यथा ॥ सुक्_55.1 (=250) ॥
प्रभावत्याह-कथमेतत्? शुको ब्रूते-चर्मकूटे ग्रामे द्विजः श्रीधरो नाम ।
तत्रैव चन्दनाख्यश्चर्यकारः ।
तत्पार्श्वात् श्रीधरेणोपानहयुगलं कारितम् ।
चर्मकारो ऽपि नित्यमेव द्रव्यं याचते ।
विप्रो ऽपि वदति-त्वां हृष्टचित्तं करिष्ये ।
एवं सुमहत्कालं ययौ ।
स विप्रो ऽन्यदा चर्मकारेण विधृतः ।
धनं विना स विप्रः कथं मुच्यते ।
तत्कथयेति प्रश्नः ।
उत्तरम् ।
शुकः प्राह-एतस्मिन्नन्तरे ग्रामपालस्य गृहे सुतो जातः ।
ततो द्विजः प्राह छलान्वेषो सन्-चर्मकृन्मया पूर्वमुक्तम् त्वां हृष्टचित्तं करिष्यामि ।
तदस्मिन्सुते जाते त्वं हृष्टचित्तो न वेति ।
यदि स ब्रूते नाहं हृष्टचित्त इति तदा राज्ञा ग्राह्यः स्यात् ।
अन्यथा च द्रव्यं याति ।
ततस्तेनोक्तम्-हृष्टचित्तो ऽहं जातः ।
ततो द्विजश्छलेनात्मानं विमुच्य गतः ।
ततो भामिनि! यद्येवमुत्तरं जानासि तदा गच्छ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ पञ्चपञ्चाशत्तमी कथा ॥
स्तर्त् सुक् 56:
अथापरेद्युः प्रभावती गमनाय शुकं पृच्छति ।
शुकः--
यादि देवि गता वेत्सि यदि कर्तुं त्वमुत्तरम् ।
विषमे सान्तको यद्वद्वणिक्पुत्रः पुराकरोत् ॥ सुक्_56.1 (=251) ॥
अस्त्यत्र त्रिपथो नाम ग्रामः ।
तत्र सान्तको नाम वणिक् महाधनी कृपणो दुष्टशीलो ग्रामान्तरप्रियश्च ।
ततश्च ग्रामान्तरादुद्ग्रहणिकां कृत्वा आगच्छन्पथि चौरैर्धृतः स भामिनि कथं चोरभयान्मुच्यते इति प्रश्नः ।
उत्तरम् ।
शुकः-स वणिक्पुत्रः आत्मानं चोरैर्धृतं ज्ञात्वा गलग्रहनाम्नो यक्षस्य समीपवर्तिनो ऽन्तिकं ययौ ।

तस्याग्रतश्च द्रव्यं मुक्त्वा हस्ते च खटिकामादाय यक्षाधाशामिदमब्रवीत्-
धनोद्ग्राहणिका देव कृतेयं तव सर्वतः ।
इदं द्रव्यं मया लब्धं तिष्ठत्यन्यच्च वृद्धिमत् ॥ सुक्_56.2 (=252) ॥
तं लेखकं च दृष्ट्वा यक्षधनमिति ज्ञात्वा तं प्रणम्य ते गताश्चोराः ।
स च द्रव्यं गृहीत्वा क्षेमेण गृहं ययौ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इतिशुकसप्ततौ षट्पञ्चाशत्तमी कथा ॥
स्तर्त् सुक् 57:
प्रदोषे ऽन्यत्र सा बाला पुनः प्राह विहङ्गमम् ।
सुखं भोक्तुं व्रजाम्यद्य नरान्तररतोद्भवम् ॥ सुक्_57.1 (=253) ॥
शकुः-
यादि देवि यदा ज्ञाता भर्त्रा त्वं वेत्सि भाषितुम् ।
यता ज्ञातः पुरा राज्ञा वदद्विद्वाञ् शुभङ्करः ॥ सुक्_57.2 (=254) ॥
अवन्तोपुर्यां विक्रमार्को नृपः ।
तस्य चन्द्रलेखानाम्नी राज्ञी ।
सा राजपण्डितं शुभङ्करनामानं कामार्ता इयेष रमते च दूतीदासीविपर्ययात् ।
नित्यं तद्गृहं गत्वा यदृच्छया क्रीडते ।
एवं च विलसतोस्तयोः पण्डितराज्ञ्योः प्रावृट्कालः समाययौ ।
यत्र च-
तडिन्निर्घोषपटहो घनगर्जितगीतकः ।
शिखिस्वरजयध्वजः प्रावृट्कालनृपो ययौ ॥ सुक्_57.3 (=255) ॥
दुर्दिनं वेगवृष्टिश्च पङ्कश्च तडितः प्रभा ।
सदाभिसारिकाणां च स्नेहव्यतिकराणि ह ॥ सुक्_57.4 (=256) ॥
उक्तञ्च-
जै ससणेही तो मुऐ अह जीवै णिण्णेह ।
दुहिअ पयारेहिं गैअ धण किं गज्जहि खलमेह ॥ सुक्_57.5 (=257) ॥
[यदि सस्नेहा तत् मृता अथ जीवति निःस्नेहा ।
द्वाभ्यामपि प्रकाराभ्यां गता धन्या, किं गर्जसि खलमेघ] ॥ सुक्_57.5* (=257*) ॥
किञ्च-
x x x x x ।
x x x x x ॥ सुक्_57.6 (=258) ॥
एतस्मिन्समये रात्रौ राज्ञीं शुभङ्करगृहं चलितां ज्ञात्वा पृष्ठत अज्ञातचर्यया हस्ते खड्गमादाय नीलवासाः सन् कौतुको विक्रमार्को राजा तामनुचलितः ।
शुभङ्करो ऽपि तां राज्ञीं गृहद्वारसमागतां दृष्ट्वा जगाद-
उन्नादाम्बुदवर्द्धितान्धतमसि प्रभृष्टदिङ्मण्डले काले यामिकजागरूकसुभटव्याकीर्णकोलाहले ।
भूपस्यासुहृदर्णवाम्बुवडवावह्नेस्त्वमन्तःपुरादायातासि यदम्बुजाक्षि कृतकं मन्ये भयं योषिताम् ॥ सुक्_57.7 (=259) ॥
इदं वचनं श्रुत्वा नृपतिः स्वप्रासादमाजगाम् ।
शुभङ्करो ऽपि भोगसंस्कारैश्चाटूक्तिभिश्च महिषीं तोषयामास ।
उक्तञ्च-
ण कुणन्ति जे पहुत्तं कुविअं दास व्य जे पसाअन्ति ।
ते च्चिअ महिलाण पिआ सेसा सामीचिअवराआ ॥ सुक्_57.8 (=260) ॥

[न कुर्वन्ति ये प्रभुत्वं कुपितां दास इव ये प्रसादयन्ति ।
ते एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः] ॥ सुक्_57.8* (=260*) ॥
नायकेषूत्तमः सो ऽथ महिषी नायिकासु च ।
शयनं चोत्तमं निन्ये त्रिधा भेदविकल्पनात् ॥ सुक्_57.9 (=261) ॥
उत्तमाधममध्यैश्च भेदैः स्नयान्नायकस्त्रिधा ।
नायिकाश्च तथा ज्ञेयास्तयोश्च शयनं त्रिधा ॥ सुक्_57.10 (=262) ॥
तत्र नायकगुणाः-
हतो मन्युहस्रैर्यः सन्तप्तो मदनाग्निना ।
रक्तश्च यो विरक्तायां सो ऽधमः परिकीर्तितः ॥ सुक्_57.11 (=263) ॥
कामिनीभिः स्मरार्ताभिः सततं काम्यते हि यः ।
न ताः कामयते नम्रो मध्यमो नायकः स्मृतः ॥ सुक्_57.12 (=264) ॥
रक्तां यो भामिनीं देवि सक्तां कामयते सदा ।
तयापि काम्यते ऽत्यर्थमुत्तमः सो ऽभिधीयते ॥ सुक्_57.13 (=265) ॥
नायिकास्त्रिधा-
कार्ये गृह्णाति रोषं या गतरोषा प्रियानुगा ।
रसज्ञा कृत्यकुशला सोत्तमा नायिका स्मृता ॥ सुक्_57.14 (=266) ॥
अस्थाने कोपमाना या या दुःखानुनया तथा ।
मानिनी मानहीना च क्षणात्सा मध्यमा स्मृता ॥ सुक्_57.15 (=267) ॥
लुब्धा यातीव चपला वचने नीरसाक्षरा ।
दुःखप्रसाधनाभिज्ञाकृतज्ञा साधमा मता ॥ सुक्_57.16 (=268) ॥
तयोश्च शयनं त्रिधा-
पार्श्वयोरुन्नति नीतं निम्नमध्ये प्रियस्य तत् ।
विमर्दं सहते ऽत्यर्थं सुरतासक्तयोस्तयोः ॥ सुक्_57.17 (=269) ॥
मध्यमस्य पुनः कार्यं शयनं समभूमिकम् ।
प्रविरलाङ्गसंस्पर्शा नित्यं याति निशा यथा ॥ सुक्_57.18 (=270) ॥
द्वेष्यस्य तुल्यमुत्तुङ्गं मध्ये नीचं च पार्श्वयोः ।
न शक्येत कलाकल्पो यत्र रन्तुं निरन्तरम् ॥ सुक्_57.19 (=271) ॥
इत्यनुन्नततल्पस्था भुक्ता मुक्ता विपश्चिता ।
महिषी रतिसन्तुष्टा प्रत्यूषे स्वगृहं ययौ ॥ सुक्_57.20 (=272) ॥
राजा च प्रातः सर्वावसरानन्तरम् पण्डितं राज्ञीं चाजुहाव ।
सिंहासने च पण्डितमुपवेशयामास ।
शुभङ्करं प्रति हसन्वार्ताप्रबन्धेनेति जगाद-"कृतकं मन्ये भयं योषिता"मिति वचनं श्रुत्वा स्वदोषविस्मितमानसः सञ्जातः ।
स राज्ञा ज्ञातः कथं भवित्विति प्रश्नः ।
यतः-
दीनस्यापि गृहे दोषे कृते भवति निग्रहः ।
किं पुनः पृथिवीपालगृहे दोषो विमुच्यते ॥ सुक्_57.21 (=273) ॥
उत्तरम् ।
शुकः प्राह-ततश्च स बुधो राज्ञा ज्ञातो ऽहमिति सञ्चिन्त्येति वाणीभुदैरयत्-
उग्रग्राहमुदन्वतो जलमतिक्रामत्यनालम्बने व्योम्नि स्थापि च दुर्गमक्षितिभृतां मूर्धानमारोहति ।
व्याप्तं याति विषाकुलैरहिकुलैः पातालमेकाकिनी कीर्तिस्ते मदनावतार कृतकं मन्ये भयं योषिताम् ॥ सुक्_57.22 (=274) ॥

इति पण्डिते पठितं श्रुत्वा राजा तं बुधं तां च राज्ञीं दृष्ट्वा इति चिन्तयामास-"दुर्लभो ऽयं बुधः ।
सुलभाः खलु नार्यऽ इति विचिन्त्य महिषीं हस्ते धृत्वा तस्मै विदुषे ददौ ।
उवाच च-"गृहाणेमां महिषीम्ऽ ।
परितोषितः पण्डितो ऽपि "महाप्रसादऽ इत्यवोचत् ।
उक्तञ्च-
गुणदोषौ न शास्त्रज्ञः कथं विभजते जनः ।
किमन्धस्याधिकारो ऽस्ति रूपदोषोपलव्धिषु ॥ सुक्_57.23 (=275) ॥
पण्डितो ऽपि राज्ञः प्रसादात्सुखं भुङ्क्ते तया समम् ।
यद्येवं प्रभावति! त्वमपि समये वक्तुं जानासि तदा गम्यताम् ।
अन्यथा स्थीयताम् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ सप्तपञ्चाशत्तमी कथा ॥
स्तर्त् सुक् 58:
अन्यदा प्रदोषे चलिता प्रभावती शुकं पृच्छति ।
शुकः-
रत्यर्थिनो व्रजाथ त्वं रन्तुं चेत्समयोचितम् ।
दुःशीलापतिवद्वेत्सि कर्तुं गणपतेः पुरः ॥ सुक्_58.1 (=276) ॥
प्रभावत्याह-कथमेतत? शुकः-अस्ति लोहपुरी नाम नगरम् ।
तस्मिंश्च राजडो नाम पामरः ।
तस्यापि पत्नी परपुरुषलम्पटा दुःशीलेत्याह्वया ।
सा च सूत्रविक्रयार्थं सखीभिः समेत्य पद्मावतीं पुरीं प्रयाति ।
ततश्च ग्रामसमीपस्थस्य गणपतेस्ताभिः पृथक्पृथक् उपयाचितमुक्तम् ।
तया च चुम्बनमुपयाचितमुक्तं मदनाक्रान्तदेहया ।
स च तासां प्रभूतं लाभं चक्रे ।
ततः सर्वाभिरन्याभिरात्मीयमुपयाचितं तस्मै गणेशाय प्रदत्तम् ।
तया च नग्नीभूय चुम्बनं कृतम् ।
ततः केलिप्रियेण तेन सा अधरे धृता ।
तस्मिंश्च धृते सा कुक्कुटीव तत्र स्थिता ।
तञ्च वृत्तान्तं तन्मोक्षणाय तद्भर्तुः सख्योपहसमाना निवेदयामासुः ।
सो ऽपि तद्वचनं श्रुत्वा तत्रागमत् तां तथाविधां दृष्ट्वा स व्यचिन्तयत्-कथमियं मुच्यत इति प्रश्नः ।
शुकः-तां तथास्थितां दृष्ट्वा सकामः सन् रासभं रन्तुमारेभे ।
ततश्च स गणपतिस्तताविधं कौतुकं दृष्ट्वा जहास ।
हसतस्तस्य ओष्ठौ शिथिलौ जातौ ।
ततः सा मुक्ता सती प्रणम्य निजं नाथं तर्जयन्ती गृहं ययौ ।
कृतं तेन रतं देवि समयोचितमीदृशम् ।
स्वकार्ये मोचिता सापि दुःशीला विघ्ननायकात् ॥ सुक्_58.2 (=277) ॥
समयोचितमारम्भं कुरुते यस्तु कृत्यवित् ।
सर्वदा तु फलं तस्य समयज्ञो दि शिष्यते ॥ सुक्_58.3 (=278) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ अष्टपञ्चाशत्तमी कथा ॥

स्तर्त् सुक् 59:
अथ दिनान्ते सा शुकं गमनाय पृच्छति स्म ।
शुकः-
गच्छ देवि स्वकार्यञ्च कुरु चिन्तितमद्भुतम् ।
रुक्मिणीवद्विजानासि पतिं वञ्चितुमुद्धतम् ॥ सुक्_59.1 (=279) ॥
प्रभावत्याह-कथमेतत्? शुकः-अस्ति सङ्गमो नाम ग्रामः ।
तत्र राहडो नाम राजपुत्रः सकोपः ।
तस्य भार्या रुक्मिणी नाम ।
स च तया सार्धं देवयात्रायां चलितः ।
सा च नरान्तरं कटाक्षयन्तो तेन दृष्टा पुमांश्च ।
ततः स तन्मिथुनं तथाविधं ज्ञात्वा तां तदनुरक्तां मेने ।
उक्तञ्च
बद्धमणिआइ कन्तो तहेअ अद्धच्छिपिच्छिला धारि ।
अससिअं पि मुणिज्जै छैल्लजनसंकुले गामे ॥ सुक्_59.2 (=280) ॥
[बद्धहृदयायाः कान्तः तथैव अर्द्धाक्षपिच्छिला वामा ।
निःश्वसितमपि ज्ञाक्षयते विदग्धजनसंकुले ग्रामे] ॥ सुक्_59.2* (=280*) ॥
तां तथाविधां विकृतां ज्ञात्वा च राहडो गृहमगमत् ।
धिक्कृत्य परुषाक्षरैर्गृहान्तरे यन्त्रितां धारयामास ।
सा च चिन्तयति-मम जन्म जीवितं यौवनं च तदा सफलं यदा एतस्य प्रत्यक्षं नरान्तरमुपभोक्ष्ये ।
प्रतिज्ञातं च मनसा दृढम् ।
तत आत्मोयप्रतिज्ञां कथं निर्वाहयत्विति प्रश्नः ।
शुकः-ततः सा कदाचित्तं हृदयस्थं नरं गृहपार्श्वे गच्छन्तं दृष्ट्वा तं प्रत्याह-अद्य रात्रौ त्वयास्मद्गृहाङ्गणस्थचिञ्चिणीमूले निजकायाकारगर्तायामूर्ध्वलिङ्गिना शयनं विधेयमिति ।
स तथेति प्रतिज्ञाय रात्रौ तथा भूत्वा स्थितः ।
सा च कामार्ता सर्वकरणचतुरा तत्र ययौ ।
आगारभूमिमुद्दिश्य भर्तारमाह्वयति स्म ।
सा चिञ्चिणीच्छायायां गत्वा तस्य लिङ्गस्योपरि उपविश्य सतूमधनुषं तमब्रवीत् ।
धानुष्को ऽसि प्रधानो ऽसि लोके ख्यातिं गतो ऽसि च ।
छिन्धि मे चन्द्रिकामद्य पौरुषं गणयामि ते ॥ सुक्_59.3 (=281) ॥
स च मूर्खस्तद्वचनमिदं श्रुत्वा सशरं धनुरादाय चन्द्रिकां लक्षीकृत्य बाणं मुमोच ।
तेन मुक्तो ऽपि बाणो नाकाशगतां चन्द्रिकां भिनत्ति ।
अधः स वेध्याद् भ्रष्टः ।
तस्मिंश्च पत्यावपराद्धेषौ सति सा विंपरीतरतक्षमा सहस्ततालं तमिदमाह-
x x x
[राहड भूलडं चान्द्रणीयाहं हिं रूपवदीसै नीयडडं ।
ताहं वलिकीजिन्हं तादहीवाहं मैं राषज्जेवद्रढीछाहं] ॥ सुक्_59.3* (=282*) ॥
राहडो ऽपि तामेवं जल्पन्तीं श्रुत्वा तं शरं गवेषयन् चिरं बभ्राम ।
ततस्तया यदृच्छया विपरीतं विहितम् ।
एवमुक्तश्च पतिः-
यदृच्छया रतं मूर्ख ते पुरो ऽद्य मया कृतम् ।
शूरो हि कुहितो ऽसि त्वं यास्यामीति जगाद तम् ॥ सुक्_59.4 (=283) ॥

इत्युक्त्वोपपत्त्या समानीतं हयमारुह्यजगाम ।
गच्छन्तीं च तां ततो दृष्ट्वा राहडो ऽपि लज्जितो विगुप्तश्च ।
ततः स्त्रीणां वशगः को न विडम्बितः ।
यतः-
आननर्त पुरा शम्भुर्गोविन्दो रासकृत्तथा ।
ब्रह्मा पशुत्वमापन्नः स्त्रीभिः को न विडम्बितः ॥ सुक्_59.5 (=284) ॥
संसारवृक्षमूलं याः पापकन्दलभूमिका ।
सन्तापफलपुष्पाणि योषितः किं सुखावहाः ॥ सुक्_59.6 (=285) ॥
मायामूलमिदं सर्वं तस्या मूलं हि योषितः ।
संयोगो योषितां मूलं तं त्यक्त्वा च सुखानि नः ॥ सुक्_59.7 (=286) ॥
तस्येदं वचः श्रुत्वा प्रभावती प्राह-
उत्पत्तिकारणं तन्वी तन्वी वृद्धेश्च कारणम् ।
सुखस्य कारणं तन्वी सा कथं कीर दुष्यते ॥ सुक्_59.8 (=287) ॥
विना ताभिर्न सम्भोगो विना ताभिः सुखं न च ।
विना ताभिर्न चात्मानं कृतार्थं मन्येते जनः ॥ सुक्_59.9 (=288) ॥
उक्तञ्च-
अमृतस्येव कुण्डानि सुखानामिव खानयः ।
रतेरिव निधानानि योषितः केन निर्मिताः ॥ सुक्_59.10 (=289) ॥
प्रियादर्शनेमेवास्तु किमन्यैर्दर्शनान्तरैः ।
प्राप्यते यत्र निर्वाणं सरोगेणापि चेतसा ॥ सुक्_59.11 (=290) ॥
इति तस्या वचः श्रुत्वा शुकः प्राह-
वाजिवारणलोहानां काष्ठपाषाणवाससाम् ।
नारीपुरुषतोयानामन्तरं बहु विद्यते ॥ सुक्_59.12 (=291) ॥
एतत्त्वयोक्तं पतिव्रताविषयं नान्यासु ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ एकोनपष्टितमी कथा ॥
स्तर्त् सुक् 60:
अन्यदा सा प्रभावती गमनाय शुकं प्रपच्छ ।
शुकः प्राह-
गच्छ देवि यदा वेत्सि संशये कृत्यमागते ।
वीरस्य नपतेर्यद्वत्सभायां नृपदूतकः ॥ सुक्_60.1 (=292) ॥
प्रभावत्याह-कथमेतत्? शुकः-
कच्छाधिपतिना देवि तस्य राज्ञः सभा श्रुता ।
विचित्रा देवनिर्मिता सर्वरत्नविभूषिता ॥ सुक्_60.2 (=293) ॥
तां द्रष्टुं प्रहितो दूतो हरिदत्त इति श्रुतः ।
सहस्रप्राभृतो भीरु सुरत्नहयहस्तकः ॥ सुक्_60.3 (=294) ॥
स दूतस्तत्पुरीं गत्वा नृपं दृष्ट्वा तं जगाद, "मत्स्वामिनाहं सचित्रां तव सभामवलोकयितुमुत्कलितः ।
राजा प्राह-प्रातर्दर्शयिष्ये ।
ततो राज्ञा द्वितीयदिने दूत आकारितः ।
स च सहसागतस्तां सभां विचित्ररत्नखचितां दृष्ट्वा जलमयीं स्थलमयीं वेति निश्चेतुमशक्तः कथं भवत्विति प्रश्नः ।

शुकः ततः स पूगीफलं पुरः क्षिप्त्वा स्थलं ज्ञात्वा गृहं ययौ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ षष्टितमी कथा ॥
स्तर्त् सुक् 61:
अन्यदा सा शुकं पच्छति स्म ।
शुक प्राह-
गच्छ देवि गता वेत्सि रन्तुं चेत्त्वं निजं नरम् ।
यथा तेजुकया पूर्वं कृतं चिरमाकाङ्क्षितम् ॥ सुक्_61.1 (=295) ॥
प्रभावत्याह-कथमेतत्? शुकः कथयति-अस्ति खोरसमभिधानो ग्रामः ।
तत्र वणिक्पुत्रः पार्श्वनागनामा ।
तस्य भार्या रूपसम्पन्ना रतलोलुपा कुलटा तेजुका नाम ।
सान्यदा सखीभिर्वृता देवयात्रालोकनाय गता सुरूपस्यैकस्य पुंसः रूप प्रेक्ष्य सङ्गमाय मनश्चक्रे ।
यतः-
विवाह देवयात्रायां राजवेश्मनि सङ्कटे ।
परगेहे विवादे च देवि नारी विनश्यति ॥ सुक्_61.2 (=296) ॥
उक्तञ्च-
गृहे ऽरण्ये तथा देवे हव्ये तीर्थे जलाशये ।
विवाहे चोत्सवे नित्यं मालिनीनिलये तथा ॥ सुक्_61.3 (=297) ॥
यात्रायां स्त्रीसमूहे च निर्जने जनसङ्कुले ।
पत्तने च तथा ग्रामे स्वच्छन्दा द्वारवर्तिनी ॥ सुक्_61.4 (=298) ॥
खले क्षेत्रे प्रवासे च मार्गे वेश्मनि चत्वरे ।
प्रवेशे निर्गमे राज्ञां सदा या कौतुकप्रिया ॥ सुक्_61.5 (=299) ॥
प्रतिवेश्मगृहे शून्ये रजकीसूचिकीगृहे ।
दिवा रात्रौ च सन्ध्यायां दुर्दिने राजचत्वरे ।
शोके च व्यसने भर्तुः स्वच्छन्दा स्त्री विनश्यति ॥ सुक्_61.6 (=300) ॥
तेजुका च तं दृष्ट्वा भ्रूसंज्ञया आहूयेदमब्रवीत्-अहं तवासक्ता परं मदीयो भर्ता दुःसहो निष्ठुरश्च गृहाद्बहिर्निर्गन्तुं नोत्सहे ।
अतो यस्मिंस्तस्मिन्दिवसे ऽस्मद्गृहद्वारि घटे क्षिप्त्वा वृश्चिको मोक्तव्यः ।
तदाहं पश्चिकदष्टा भविष्यामि ।
त्वयास्मद्गृहद्वारि वैद्येन भाव्यम् ।
इति सङ्केतं विधाय स्वगृहं जग्मतुः ।
तेनापि तथा कृतम् ।
सापि घटं खट्वोच्छीर्षके क्षिप्त्वा इति जगाद-अहमनेन वृश्चिकेन घटस्थेन दष्टाऽ-इति रारटीति ।
सो ऽपि च पुरुषस्तदा वैद्यो भूत्वा तद्गृहद्वारि तस्थौ ।
"ताडं बन्धौ पोट्टं मलौ सूलं फेडौ विसं हरौ"
[तालं बध्नामि, उदरं मर्द्दयामि, शूलं स्फेटयामि, विषं हरामि] इति जल्पति ।
तदा च सा भर्तारं जगाद ।
देहि काष्ठानि मे नाथ मरिष्यामि न संशयः ।
आहूय मन्त्रिकान्वैद्यान् गतार्त्तिं वा कुरुष्व माम् ॥ सुक्_61.7 (=301) ॥
ततस्तद्भर्ता गृहाद्बहिः स्थितं तमाकारयामास ।
वैद्यो ऽपि तां दृष्ट्वा तत्पतिं जगाद ।

यद्येषा कालदष्टा जीवति ततस्त्वं भाग्यवानहमपि यशःपात्रं भवामि ।
वणिगाह-वैद्य! प्रसादं विधाय एनां विषरहितां कुरु ।
ततः स वैद्यः केनापि कटुकभैषज्येन वनितौष्ठमालिप्य तत्पतिमाह- अहो वणिक्सर्वेषामपि विषाणां समधिकं मानुषविषमेव ।
ततो विषस्य विषमौषधमिति कृत्वा त्वमस्या ओष्ठं धाव ।
ततो वणिक् तथा कर्तुमारेभे ।
क्षणमात्रेणतस्य वणिजः कटुकौषधमिश्रौष्ठास्वादेन मुखं कटुकं सञ्जातम् ।
ततो वणिगाह-त्वमेवोष्ठ धावेत्युक्त्वा वणिक् स्थितः ।
वणिजो ऽपि विषशङ्कारूढा ।
ततो बहिर्गते वणिजि वैद्येन सा कामार्ता यथेच्छं भोजिता ।
तदनन्तरं सा मायिनी स्वस्थाभूत् ।
वणिगपि क्षणेन स्वस्थो बभूव ।
उपकृतश्च वैद्यस्तेन चरणैः स्पृष्ट्वा त्वदीयो ऽस्मीति ।
ततः स वैद्यच्छद्मना गृहमायाति सततं वणिजि बहिर्गते भुङ्क्ते च तां नित्यम् ।
ततो भामिनि एवं कर्तुं वक्तुं च यदि जानासि ततो याहि ।
एवं कर्तुं च वक्तुं च यो जानाति छलप्रियः ।
स करोतु स यात्वेवं कर्तुं भोक्तुं निजं हितम् ॥ सुक्_61.8 (=302) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ एकषष्टितमी कथा ॥
स्तर्त् सुक् 62:
अन्यदा सा प्रभावती शुकमापृच्छति ।
शकुः प्राह-
प्रियमेवानुभोक्तव्यं याहि देवि तदर्थिनी ।
कुहनस्य यथा कान्ते सङ्कटे ऽसि क्षमोत्तरे ॥ सुक्_62.1 (=303) ॥
अस्ति गम्भीराख्यो ग्रामः ।
तत्र कुहनो नाम राजपुत्रर् इर्ष्यालुः शूरो जडः स्त्रीप्रियो दुर्धरश्च ।
तस्याभूतां द्वे कलत्रे शोभिकातेजिकाख्ये रतलोलुपे परपुरुषलम्पटे सुरूपे ।
तद्भर्ता तद्रक्षणाय ग्रामाद्बहिर्नदीतीरे गृहं केच द्वारस्थस्ते रक्षयति ।
अन्यदा स ताभ्यामुक्तः-यदा कश्चिन्नापितः समभ्येति तदा भव्यं भवति ।
ततस्तेनापि भ्रामको नापितः प्रेषितः प्रतिसीरान्तरैस्तयोर्नखकल्पनाय ।
ततश्च तयोश्चरणान् तिरस्करिणीबहिःस्थान्नापितः प्रक्षलयति ।
पतिश्चादूरे पथि निविष्टः ।
ताभ्यां च स नापितः सुवर्णकटकमर्पयित्वा प्रच्छन्नमेवमुक्तः-एतद् द्रव्यं गृहीत्वा आवयोः केनापि सार्धं संयोगं विधेहि ।
दिवाकीर्तिरपि तथेति प्रतिज्ञाय राजपुत्रमापृच्छ्य जगाम ।
अन्यदात्ममित्रं नवयौवनं कलापात्रमनुद्गतश्मश्रुं स्त्रीवेषं कारयित्वा तयोः पत्युः पार्श्वे तेन सह समागत्य नापित इदमाह-ममेयं वल्लभा ।
अहं च ग्रामान्तरं जिगमिषुर्युष्मद्गृहं विनान्यत्र मोक्तुं न शक्नोमि ।
यतो भवतां गृहे स्त्रीयन्त्रणा भव्या ।
इत्युक्ते तेन प्रतिपन्नं मुञ्चेति ।
ततश्चण्डालो ऽपि तं मुक्त्वा तयोः पार्श्वे गतो जगाद-यदियं युष्माभिरात्मीया करणीया ।
ततस्ते तं चण्डालानीतं ज्ञात्वा बहु मेनाते ।
स च दिवा स्त्रीरूपी रात्रौ च कामुकः राजपुत्रकलत्रे प्रतिवारं भुङ्क्त ।

मूल पाठ: Śukasaptati · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc