शुकसप्तति · भाग 6168
स च राजपुत्रः स्त्रीलोलुपस्तत्सङ्गमाय स्पृहयति ।
ययाचे च तां नित्यम् ।
सा तु कपटीस्त्री नेति जगाद ।
राजपुत्रस्य स्त्रीत्वे भ्रान्तिरुत्पन्ना तद्भान्तिमपनेतुं निजकलत्रे जगाद-ततो देव्यादेशान्मया प्रातर्महोत्सवो विधेयः ।
तत्र भवतीभिर्विवस्त्राभिस्तिसृभिरपि नर्तितव्यम् ।
ततः स स्त्रीच्छन्ना कथं नृत्यतु इति प्रश्नः ।
उत्तरम् शुकः-तन्त्र्या लिङ्गाग्रं नियम्य गुदमध्यगमानम्य स्फुटां भगाकृतिं कृत्वा पत्यौ समागते सहस्ततालं सर्वा एवं वदन्त्यो ननृतुः ।
निसुहर णाच्चै संकलिदं जं मनसि किदं मक्कटीजालं ।
णाहि णाहि पृछह अत्थ धरेइ णाद भिलुकलत्तु करेइ ॥ सुक्_62.2 (=304) ॥
[निशामय नृत्यति सङ्कलितं यन्मनसि कृतं मर्कटीजालम् ।
नहि नहि पृच्छ अथोध्रियते ज्ञातं भिन्नकलत्रं करोति] ॥ सुक्_62.2* (=304*) ॥
राजपुत्रो ऽर्थं पप्रच्छ ।
ताभ्यामुक्तम्-मर्कटा कटिसन्धिरुच्यते ।
ततस्तस्यां त्रुटितायां राजपुत्रोन्यत्कलत्रं कुर्यादित्यर्थः ।
ततो राजपुत्रः स्त्रीचरित्रपराङ्मुखो मूढधीः प्रतीतः, इतरस्तु तथैव स्त्रीवेषेण कलत्रे भुङ्क्ते ।
तस्माद्यः सङ्कटे वेत्ति कर्तुं वक्तुं च भामिनि ।
स यात्वत्र यथाकामं यथाकालं यथासुखम् ॥ सुक्_62.3 (=305) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ द्विषष्टितमी कथा ॥
स्तर्त् सुक् 63:
अन्यस्मिन्प्रदोषे प्रभावती यामीति शुकं प्रत्याह ।
शुकः प्राह-
याहि देवि न दोषो ऽत्र मनोदुःखे समागते ।
तद्र्दुःखशमनं कर्तुं वेत्सि चेच्छकटालवत् ॥ सुक्_63.1 (=306) ॥
यथा शकटालेन निजकुटुम्बभरणाय समुद्भवद्दुःखं चाणक्यपार्श्वन्नन्दकुलमुच्छेद्य दुःखशमनं कृतं तथा त्वमेव.................... तस्मात्तव परगृहं गन्तुं न युज्यते ।
उक्तञ्च-
उडुगणपरिवारो नायको ऽप्योषधीनाममृतमयशरीरः कान्तियुक्तो ऽपि चन्द्रः ।
भवति विकलमूर्तिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को न धत्ते लघुत्वम् ॥ सुक्_63.2 (=307) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ त्रिषष्टितमी कथा ॥
स्तर्त् सुक् 64:
अन्यदा प्रभावती शुकमापृच्छति स्म ।
सो ऽप्याह-
गच्छ चेद्विषमे वेत्सि कर्तुं किञ्चित्कृशोदरि ।
कृतं देविकया यद्वत्सखीजारविमुक्तये ॥ सुक्_64.1 (=308) ॥
प्रभावती प्राह-कथमेतत्? शुकः अस्ति कूटपुराभिधो ग्रामः ।
राजपुत्रः सोमराजः ।
तस्य मण्डुका नाम पत्नी प्रियदर्शना नरान्तरलोलुपा ।
ताञ्चैको नरः कृतसंकेतः सघण्टको रात्रौ गृहाङ्गणे भुङ्क्ते ।
तत्पतिर्घण्टाशब्दं शृण्वन्नेकदा लगुडमादाय प्रधावितः षण्डशङ्कया ।
ततः षण्डवेशधारी उपपतिः ।
कथं भवित्विति प्रश्नः ।
शुकः-देविका नाम सखो मण्डुकायाः पतिं घण्टाशब्दानुसारिणमागच्छन्तं दृष्ट्वा जारस्य नश्यतो घण्टातालां हस्ते धृत्वा तं प्रति जगाद भावुक! कान्दिशीको वृषो नष्टः ।
ततः स व्यावृत्य निजपौरुषं पत्न्यै कथयामास ।
इति कतां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ चतुःषष्टितमी कथा ॥
स्तर्त् सुक् 65:
अन्यदा प्रभावती शुकं पृच्छति ।
शुकः-
युज्यते गमनं देवि तव तत्र प्रभावति ।
वेत्सि चेद्विषमे वक्तुं सितवस्त्र इवाकुलः ॥ सुक्_65.1 (=309) ॥
अस्ति देवि जनस्थानं नाम पत्तनम् ।
तत्र नन्दनो नाम राजा यथार्थः ।
तत्पत्तने श्रीवत्सो नाम श्रावकः परं महेश्वररतः ।
तेन अन्यदा वारणसीं नगरीं प्रति प्रस्थितेन सशिष्येन पथि गच्छता ।
एकः शिष्यः मांसहरणाय स्थापितः ।
अन्यश्रावकैर्दृष्टः स कथं भवत्विति प्रश्नः ।
शुकः प्राह-यदा सर्वश्रावका आगत्योपविष्टाः तदाट्टहासं जहास ।
पृष्टः सर्वैर्जगादर्-इदृशो ऽयं शिष्य- ।
मयोक्तं मां संवर्तत अबुद्ध्या अनेन मांसस्य........ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ पञ्चषष्टितमी कथा ॥
स्तर्त् सुक् 66:
अन्यदा सा प्रभावती चलिता शुकं पृच्छति ।
शुकः-
गच्छ देवि न कर्तव्यो विलम्बः पुण्यकर्मणि ।
यदि वेत्सि भये कर्तुं सुबुद्धिर्हंसराडिव ॥ सुक्_66.1 (=310) ॥
अस्ति देवि धरापृष्ठे रम्यं क्षीणनराकुलम् ।
दशयोजनविस्तीर्णं वनं विहगवल्लभम् ॥ सुक्_66.2 (=311) ॥
तत्र गव्यूतिविस्तीर्णे शीतच्छाये जलाशयतीरस्थिते वटे शङ्खधवलो नाम हंसराट् सकुटुम्बो मेदिनीं भ्रान्त्वा दिनात्यये शेते ।
अन्यदा तेषु हंसेषु भ्रमणाय गतेषु पापर्द्धिना जालं बद्धम् ।
प्रदोषागताः पतिताः सर्वे ऽपि कथं मुच्यन्ते-इति प्रश्नः ।
शुकः-ततस्तु स्वं कुटुम्बं तथा बद्धं ज्ञात्वा रात्रौ शङ्खधवलः प्राह-रे रे पुत्राः! यादसौ लुब्धकः प्रातर्भूरुहं समारुह्य युष्मानवलोकयति तदा भवद्भिर्मृतकल्पैरुच्छ्वासनिःश्वासरहितैः स्थातव्यम् ।
सो ऽपि युष्मान्मृतानिति ज्ञात्वा यदा भूमौ सर्वान् क्षिपति तदा सर्वैरप्युड्डीय गन्तव्यम् ।
इति कृते लुब्धकः प्रातः समाययौ ।
तेन ते मृता इति ज्ञात्वा भूमौ क्षिप्तास्तदा ते उड्डीय काङ्क्षितं देशं ययुः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ षट्षष्टितमी कथा ॥
स्तर्त् सुक् 67:
अन्यदा चलिता प्रभावती शुकं पृच्छति स्म ।
शुकः-
अथ चेद्यासि कामार्ता याहि भीरु गता सती ।
प्लवङ्गम इवात्मीयं वक्तुं वेत्सि यथाहितम् ॥ सुक्_67.1 (=312) ॥
अस्ति पुष्पाकरं नाम वनम् ।
तत्र वनप्रियो नाम वामनवानरः ।
स कदाचित्समुद्रान्तमर्यादाजले लुठन्तं मकरं दृष्ट्वा प्राह-"मित्र! किं जीवितनिर्विण्णस्त्वं यदद्य धराभूमौ समागतःऽ ।
इति वचः श्रुत्वा मकरो ऽप्याह-
यस्य यद्विहितं स्थानं यस्य यद्वेतनं कृतम् ।
तत्रैव रमते चित्तं तस्य नान्यत्र वानर ॥ सुक्_67.2 (=313) ॥
उक्तञ्च-
सर्वस्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
पितृक्रमागतायोध्या निर्धनापि सुखायते ॥ सुक्_67.3 (=314) ॥
जणणीं जम्मणभूमिं पिअसंगं जीविअं धणासंघं ।
पच्छिमणिद्दा विरिकामिणिं च दुक्खेहि मुञ्चन्ति ॥ सुक्_67.4 (=315) ॥
[जननीं जन्मभूमिं प्रियसङ्गं जीवितं धनासङ्गम् ।
पश्चिमनिद्रां वरकामिनीञ्च दुःखेन मुञ्चन्ति] ॥ सुक्_67.4* (=315*) ॥
तदहं सफलजन्मा संवृत्तस्त्वदीयदर्शनेन ।
उक्तञ्च-
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
तीर्थं फलति कालेन सद्यः साधुसमाममः ॥ सुक्_67.5 (=316) ॥
तस्मात्स्थलोत्पन्नः प्राणिवर्गस्तु धन्यो यत्र भवादृसशाः प्रियवादिनो वर्तन्ते ।
इति श्रुत्वा वानर आह-"अहो मकर! त्वमद्यप्रभृति मे प्राणाधिकं मित्रम् ।
त्वमेव सौहृद्यवचसां वक्ता ।
उक्तञ्च- यतः सतां सन्नतगात्रि सङ्गतं मनीषिभिः साप्तपदीनसुच्यते ।
इत्युक्त्वा पुनः प्राह-मित्र! त्वमद्यातिथिरस्माकं भवऽ ।
इति भणित्वा अमृतसदृशानि पक्वफलानि ददौ ।
ततः प्रभृति प्रतिदिनं कदलीफलानि यच्छति ।
मकरो ऽपि निजदयिताया अर्पयति ।
सा च पतिं तत्फलवृत्तान्तं पृच्छति ।
स च सर्वं यथास्थितं निवेदयति ।
ततः सा गर्भानुभावतश्चिन्तयामास-"यो वानरो नित्यमीदृशानि फलानि भुङ्क्ते तस्यौरस्यं मांसममृतोपमं स्यात्ऽ ।
इति विचिन्त्य पतिं प्राह-"मम गर्भानुभावतो वानरहृदयपिशितभक्षणे दोहदो विद्यते ।
तद्यदि पूरयसि तदा जीवामि अन्यथासंशयं मम मृत्युर्भविष्यतिऽ ।
इति श्रुत्वा दयिताग्रहाच्च समुद्रतटमागत्य वानरं प्राह-"मित्र! त्वदीयभ्रातुः प्रिया त्वामाकारयति ।
अस्मदीयो गृहोपचारो विलोकनीयःऽ ।
इत्युक्त्वा विश्वास्य पृष्ठे चारोप्य प्रचलितः ।
वानरस्तं गच्छन्तं शङ्कितः प्राह-तत्र गतेन मया किं विदेयम्? इत्याकर्ण्य मकरेण चिन्तितम्-"वानरो ऽसौ तस्मात्स्थानान्मया नीतः कथमम्भोनिधितटं यास्यति, तस्मात्कथयामिऽ-इत्यवधार्य यथास्थितं जगाद ।
ततो वानरः कथं भवत्विति प्रश्नः ।
शुकः-वानरः प्राह-भो मकर! तर्हि त्वं मां तत्र वृथा नयसि यतो ऽहं हृदयहीनो भवामि ।
मम हृदयं मम पार्श्वे नास्ति ।
मकरः-क्व मुक्तं त्वया ।
वानरः-मित्र! किं न श्रुतं त्वया?
सर्वदोदुम्बरो वृक्षे हृदयं वृटभूरुहे ।
चित्तमस्ति गृहीत्वा तदागच्छामि पुनर्जलम् ॥ सुक्_67.6 (=317) ॥
इत्युक्ते तदा मकरो मूर्खः समुद्रान्तमाययौ ।
वानरो ऽपि तत्पृष्ठतः समुत्तीर्य शाखिनमारोहति स्म ।
ततो मकरं जगाद गच्छ ।
नाहं भावदृशैरत्रस्थो गृहीतुं शक्यः ।
जलजन्तुचरैर्नित्यं जलमार्गानुसारिभिः ।
स्थलजैः संगतिर्न स्यात् ध्रुवेति मुनिभाषितम् ॥ सुक्_67.7 (=318) ॥
इति निर्भर्त्सितो वानरेण मकरः स्वगृहं ययौ ।
उक्तञ्च-
उत्पन्ना युक्तिकार्येषु बुद्धिर्यस्य न हीयते ।
स एव तरते दुर्गं जलान्ते वानरो यथा ॥ सुक्_67.8 (=319) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ सप्तषष्टितमी कथा ॥
स्तर्त् सुक् 68:
अथान्येद्युः शुकं प्राह प्रभावती ।
शुकः-
याहि देवि सुखं भुङ्क्ष्व यदि ते ऽस्ति सहायिनी ।
वितर्कसदृशी काले विषमे वरवर्णिनि ॥ सुक्_68.1 (=320) ॥
अस्ति विद्यास्थानं नाम ग्रामः ब्राह्मणानाम् ।
तत्र केशवो ब्राह्मणः ।
तेन च स्नानाय गतेन तटाके रम्या वणिक्पुत्री दृष्टा ।
स च तां रन्तुमिच्छति ।
अन्यदा तया प्रोक्तो द्विजः स्नानादुत्थितः-"यत्त्वं मम शिरसि द्वितीयं घटमारोपयऽ ।
अतस्तेन घटमारोपयता तस्या ओष्ठश्चुम्बितः स च तथा कुर्वन् पतिना दृष्टः ।
नीतो राजकुलं कथं मुच्यताम् इति प्रश्नः ।
उत्तरं शुकः प्राह-अथ तन्मित्रं वितर्को नाम ।
स च तत्समीपमागगत्येदमब्रवीत्-"मित्र! त्वया राजकुलगतेन वचचेवत्येव वाक्यं जल्पनीयं नान्यत् ।
तथा कृते च मन्त्रिणोक्तम्-"नायं दोषभाक् ।
प्रकृतिरेवंविधैवास्य ।
तेनैव चोत्तरेण लोके साधुतां गतो वितर्कसाहायिकबुद्ध्या ।
यदि त्वमपि तथा जानासि तदा गच्छ ।
इति कथां श्रुत्वा प्रभावती सुप्त ।
इति शुकसप्ततौ अष्टष्टितमी कथा ॥
स्तर्त् सुक् 69:
अन्यदा प्रभावती शुकं पृच्छति ।
शुकः प्राह-
कुरु जारं विशालाक्षि विजारं कुरुषे यदि ।
यथा वेजिकया पूर्वमर्धस्नाते पतौ कृतम् ॥ सुक्_69.1 (=321) ॥
अस्ति स्थानं कलास्थानं नाम ।
तत्रैको वणिक्सुतः तस्य भार्या च वेजिका नामातिवल्लभा ।
अन्यदा च तं भर्तारं स्नापयन्ती उपपतिं पूर्वकृतसङ्केनं पथि गच्छतं दृष्ट्वा नात्र पानीयं प्रचुरमिति मिषान्तरं कृत्वा पानीयानयनव्याजाद्गृहान्निर्गता जारेण साकं बहुकालं च स्थिता ।
ततो ऽर्धस्नातं पतिं मुक्त्वा तथा स्थिता कुमुत्तरं करोत्विति प्रश्नः ।
उत्तरम्- शुकः ततः जारेण भुक्ता स्वपतिवञ्चनं विचिन्त्यात्मानं कूपे चिक्षेपः ।
ततः कोलाहलःसंवृत्तः ।
कूपे कापि वराकी पतितास्तीति प्रवादः सञ्जातः ।
तेन तत्पतिस्तद्वचनं श्रुत्वा व्यचिन्तयत्-नूनं सा मत्पत्नी कूपे पतिता भविष्यति-इति द्रुतं गत्वावलोकयामास ।
ततस्तां कूपादाकृष्यानीयामानयत् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ एकोनसप्ततितमी कथा ॥
स्तर्त् सुक् 70:
एतावतीनां कथानां पर्यन्ते तद्भती मदनो देशान्तरादागतः ।
तस्मिंश्चागते सा तथैव तस्मिन्स्नेहलाभूत् ।
शुक एवं मन्दं मन्दं पठति-
अनुरागो वृथा स्त्रोषु स्त्रीषु गर्वो वृथा तथा ।
प्रियो ऽहं सर्वदा हय्स्या ममैषा सर्वदा प्रिया ॥ सुक्_70.1 (=322) ॥
परं मदनो न शृणोति ।
उपहास्य तदा चैवं वदति-"यः कश्चिद्धितं वाक्यं शृणोति करोति च स परत्रेह च शर्मभाग्भवतिऽ ।
इति मुहुर्मुहुः पठितं मदनः श्रुत्वा पृच्छति ।
ततः सा स्वयमेव शङ्किता कथयति ।
उक्तञ्च-
सर्वत्र शुचयो धीराः सुकर्मबलगर्विताः ।
कुकर्ममयसंत्रस्ताः पापाः सर्वत्र शङ्किताः ॥ सुक्_70.2 (=323) ॥
आर्यपुत्र! त्वमेव वन्द्यो यस्य वेश्मनि त्रिविक्रमानीतयुगमध्यादेकः शुकः सर्वेषा लोकानां हितभाषको ऽत्र बन्धुपितृस्थानीयो विशेषतो मम ।
यथा यथा सा शुकं स्तौति तथा तथा शुको लज्जते ।
उक्तञ्च-
बौ जै मारै मच्छली तो उण्णौ करेइ ।
सीहु जु मारै मत्तगअणहचम्पिआ धरेइ ॥ सुक्_70.3 (=324) ॥
[बकः यदि मारयति मत्स्यान् स पुनर्न करोति ।
सिंहो यो मारयति मत्तगजनाथ सेवितो ध्रियते] ॥ सुक्_70.3* (=324*) ॥
ततो मदनस्तद्वचनं श्रुत्वाह-किं तव शुकेनोपकृतन् ।
कथमीदृग्गुणो ऽसौ जातः ।
सा प्राह--स्वामिन्! सत्यस्य वाचो वक्ता श्रोता च न लभ्यते ।
उक्तञ्च--
सुलभा पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य तु पत्यस्य वक्ता श्रोता च दुर्लभः ॥ सुक्_70.4 (=325) ॥
महिला चपला स्वामिन्निःस्नेहा गुणवर्जिता ।
कुविकल्पा तनुप्रज्ञा यथोक्तं सत्यमेव तत् ॥ सुक्_70.5 (=326) ॥
मन्यते सुकृतं नैव पतिपुत्रपराङ्मुखी ।
पूर्वस्नेहमयी मृद्वी कृतकार्यातिनिष्ठुरा ॥ सुक्_70.6 (=327) ॥
उक्तञ्च-
कुर्वन्ति तावत्प्रथमं प्रियाणि यावन्न जानन्ति नरं प्रसक्तम् ।
ज्ञात्वा च तं मन्मथपाशबद्धं ग्रस्तामिषं मीनमिवोद्धरन्नि ॥ सुक्_70.7 (=328) ॥
समुद्रवीचीव चलस्वभावाः सन्ध्याभ्ररेखेव मुहुर्तरागाः ।
स्त्रियः कृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥ सुक्_70.8 (=329) ॥
सम्मोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य हृदयं सदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ सुक्_70.9 (=330) ॥
स्वामिन्! त्वयि प्रोषिते मया कञ्चित्कालं त्वद्वियोगः सोढः ।
पश्चाच्च कुसखीसङ्गता ।
पुरुषान्तरं रन्तुकामया मया गमनविघातिनी सारिका हता ।
अनेन शुकेन तु वचनप्रपञ्चेन सप्ततिदिनानि स्थापिताहम् ।
अतो मया कर्मणा पापं न विहितं मनसा तु कृतम् ।
अद्यप्रभृति त्वं मम जीवनमरमस्वामी ।
इति श्रुत्वा मदनः शुकं पृच्छति ।
स आह-
प्रयोजनमविज्ञाय ज्ञात्वा चाथ मनीषिणा ।
सहसैव न वक्तव्यमचिन्त्यो विधिनिर्णयः ॥ सुक्_70.10 (=331) ॥
विहिविहिअं लद्ध पिअसंगो जीविअं धणं धण्णं ।
जुत्तं सव्वं जणवअणं विअणविडम्बणा णिहिला ॥ सुक्_70.11 (=332) ॥
[विधिविहितं चिरलब्धं प्रियसङ्गो जीवितं धन धान्यम् ।
युक्तं सर्वं जनवचनं वचनविडम्बना निखिला] ॥ सुक्_70.11* (=332*) ॥
स्वामिन्! यद्यपि कथयितुं न युज्यते तर्हि शृणु ।
मूर्खाणां मद्यपानां च नारीणां रोगिणामपि ।
स्वामिन्कामातुराणां च खिन्नानां कोपिनां तथा ॥ सुक्_70.12 (=333) ॥
मत्तप्रमत्तभीरूणां क्षुधार्तानां विशेषतः ।
सुकृतं स्खलितं चार्या न गृह्णान्ति क्षमान्विताः ॥ सुक्_70.13 (=334) ॥
उक्तञ्च भारते-
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् ।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ।
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश ॥ सुक्_70.14 (=335) ॥
अस्याश्च कुकृतं क्षम्यताम् ।
अत्रार्थे नास्या दोषः ।
कुसखीसङ्गादियम् ।
उक्तम्-
असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् ।
दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ॥ सुक्_70.15 (=336) ॥
विद्याधरेण तनया भुक्ता राज्ञः पुरा छलात् ।
पतिनापि सुभुक्तापि निर्देषिति विचारिता ॥ सुक्_70.16 (=337) ॥
शुकः कथां मदनाग्रे कथयामास-अस्ति जगतीतले मलयो नाम पर्वतः ।
तस्य शृङ्गे मनोहरं नाम गन्धर्वपुरम् ।
तत्र मदनोनाम गन्धर्वः ।
तस्य भार्या रत्नावली ।
तयोः सुता मदनमञ्जरी ।
तस्या रूपसम्पदं दृष्ट्वा देवो वा दानवो वाधोमुखो मुह्यति ।
न को ऽपि तदनुरूपो वरो लभ्यते यस्य सा दीयते ।
अथान्यदा नारदः समायातः ।
सो ऽप्यस्या रूपमवलोक्य मूर्च्छितः सकामो ऽभूत् ।
पश्चाल्लब्धसंज्ञेन ऋषिणा सा शप्ता ।
उक्तञ्च-
तरुणी रमणी रतिरम्यतया प्रमदा सुखदा च सदा समदा ।
यदि सा सुभगा हृदयेनिहिता क्व जयः क्व जयः क्व जयः क्व जयः ॥ सुक्_70.17 (=338) ॥
यदेतस्या रूपे दृष्टे मे स्मरज्वरो जातः तदियं शीलविडम्बनां प्राप्स्यते ।
ततो राजा प्रणम्य प्राह--स्वामिन्! प्रसन्नो भूत्वा प्रसादं कुरु ।
नारद आह- "नास्याः शीलखण्डेन दोषो भविष्यति न च पतिविरहः ।
मेरुपर्वते विपुलापुरीनिवासी कनकप्रभो नाम गन्धर्वः ।
स तव पुत्र्या वरो भविष्यतिऽ ।
इत्युक्त्वा नारदो ययौ ।
ततो मुनिवचनेन तेन गन्धर्वेण सोद्वाहिता ।
सो ऽन्यदा तां मुक्त्वा कैलासं ययौ ।
सापि तद्वयोगार्ता शिलापट्टे लुठन्ती वस्त्रादिरहिता केनचिद्विद्याधरेण रूपातिशमवलोक्य संयोगार्थं प्रार्थिता ।
सा तं न वाच्छति ।
ततस्तेन तद्भर्तुर्गन्धर्वरूप कृत्वा सा भुक्ता ।
ततः कालक्रमेण तस्या भर्ता गृहमागतः ।
तां सुरतसुखसन्तुष्टामपश्यत् ।
"परोपभुक्तदेहेयम्ऽ इति तां दृष्टां मत्वा सावश्यं वध्येति निश्चित्य चण्डिकालयं ययौ ।
यावत्तदग्रतो मारयति तावदन्यया फूत्कृतम्-"स्वामिनि! मम त्वया वरो दत्तो यत्तव गन्धर्वचक्रवर्ती पुत्रो भविष्यति ।
तत्कथं पुत्रमुखम दृष्ट्वा विपत्स्येऽ ।
एवं विलपन्त्यास्तस्याः पुरतस्तां प्रति देवी प्राह-हे गन्धर्ववीर! नास्याः को ऽपि दोषः ।
किन्तु विद्याधरेणेयं त्वदीयरूपमयेन मायया भुक्ता ।
ततो ऽजानन्त्या अस्या न दोषः ।
अन्यच्च मुनिशापो विद्यते ।
तत इदं सञ्जातम्-"शापवृत्तान्तश्च निवेदितः, ततो मुनिवचनादियं निर्देषा त्वया ग्राह्याऽ-इति गौरीवचनं श्रुत्वा स निःशङ्कं तया सह स्वस्थानं गतस्तथैव सुखतो ऽभूत्" ।
ततो वणिक्पुत्र ।
यदि मद्वचः प्रमाणं तदैनामदुष्टां प्रति प्रसादं कर्तुमर्हसिऽ ।
इति कीरवचनान्मदनेनानुगृहीता ।
ततो हरिदत्तो ऽपि पुत्रागमनतुष्टो महोत्सवं चकार ।
तस्मिन्महोत्सवे दिव्यमाला पतिता ।
तद्दर्शने शुकसारिकात्रिविक्रमाणां शापमोक्षात्स्वर्गगमनं बभूव ।
मदनो ऽपि प्रियया प्रभावत्या सह सुखानि भुङ्क्ते ।
इति शुकसप्ततौ सप्ततितमी कथा ।
इति शुकसप्ततिः समाप्ता ॥
मूल पाठ: Śukasaptati · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0