भाषा

ENहिગુ
ग्रंथ पाठ

शुकसप्तति · भाग 2140

अथ प्रापः समस्तमहाजनं मलयित्वा पुष्पाक्षतादिकमादय यक्षायतने गत्वा समीपसरसि स्नानं कृत्वा यक्षपूजार्थं समागच्छन्त्यास्तस्याः पूर्वसङ्केतितो जारो ग्रहिलीभूतस्तत्कण्ठे निजबाहुद्वयं योजयामास ।
तत आः किमेतदित्यभिधाय सा पुनः स्नानार्थं ययौ ।
सो ऽपि ग्रहिलो लोकैः कण्ठे गृहीत्वा तस्मात्प्रदेशाद्दूरीकृतः ।
सापि स्नानं कृत्वा यक्षसमीपमागत्य पुष्पगन्धाद्यैरभ्यर्च्य सर्वलोकानां शृण्वतामुवाच-भो भगवन्यक्ष! निजभर्तारमेनं च ग्रहिलं विना यद्यन्यपुरुषः स्पृशति कदाचन मां तदा तव जघाभ्यां सकाशान्मम निष्क्रमणं मा भवत्वित्यभिधाय सर्वलोकसमक्षमेव जङ्घयोर्मध्ये प्रविश्य निष्क्रान्ता ।
यक्षो ऽपि तद्बुद्धि मनसि श्लाघमान एव स्थितः ।
सापि सतीति समस्तलोकैः पूजिता स्वभवनं जगाम ।
एवं चेत् श्रियादेवीवत्कर्तुं जानासि तदा व्रज ।
इति श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ पञ्चदशी कता ॥
स्तर्त् सुक् 16:
अन्यदा सा चलिता शुकं प्राह-शुकाहं नरान्तरं गमिष्यामि ।
शुकः प्राह- सत्यमेव त्वयाभाणि कर्तव्यं यन्मनो ऽनुगम् ।
मनस्तु मुग्धिका यद्वदशक्यान्खेदयत्यलम् ॥ सुक्_16.1 (=110) ॥
तच्ध्रुत्वा प्रभावत्याह-कथमेतत् ।
सो ऽब्रवीत्-अस्ति विदिशा नाम पुरी ।
तस्यां जनवल्लभो नाम वणिक् ।
तस्य भार्या मुग्धिका नाम चपला स्वैरिणी ।
यदा च तयातिशयेन विदूषितो ऽयं तदा बन्धूनां कथयामास यदियं बहिःशायिनी ।
यदा च तैरेवमुक्ता तदा तयाप्युक्तम्-अयमेव बहिःशायी सदैव ।
मां मुधापवादयति ।
ततस्तैर्मिलित्वा निर्बन्धः कृतः "यः को ऽपि अद्यप्रभृति बहिःशायी सो ऽपराधो" ।
एवं निर्बन्धे कृते ऽपि सा सुप्तं पतिं विहाय बहिर्गता ।
तस्यां च बहिर्गतायां स पतिर्द्वारं दत्वा सुप्तः ।
यदा चबहिः क्रीडां कृत्वा समागतायाः स पतिर्द्वारं नोद्घाटयति तदा सा कूपे दृषदं क्षिप्त्वा द्वारदेश एव स्थिता ।
पतिरपि कूपे पतिता भविष्यतीति ज्ञात्वा द्वारमुद्घाट्यबहिर्निर्गतः ।
तदा सा द्वारं पिधाय मध्ये स्थिता ।
सो ऽपि च बहिः स्थितो "हा प्रियेऽ एवं वदन्महता शब्देन गोदितुमारब्धः ।
सापि विगोपकभयाद्बहिर्निर्गत्य पतिं मध्ये निनाय ।
ततस्तन्मिथुन परस्परं निर्बन्धं चकार ।
यदद्यप्रभृति मया त्वया विसंवादो न विधेयः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ षोडशी कथा ॥
स्तर्त् सुक् 17:
अन्यदा सा हसन्ती नरान्तरगमनाय शुकं पृच्छति ।
शुक आह-यदेव मनसो ऽभीष्टं तदेव कार्यम् ।
उक्तञ्च- दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥ सुक्_17.1 (=111) ॥
मनो ऽनुकूलं कुर्वन्तु तन्वि ते दुःखमागतम् ।
सोढुं शक्तास्तथा वक्तुं गुणाढ्यो ब्राह्मणो यथा ॥ सुक्_17.2 (=112) ॥
प्रभावती पृच्छति-कथमेतत् ।

शुकः कथयति-अस्ति विशाला पुरी ।
तत्र यायजूको ब्राह्मणः ।
तस्य पत्नी पाहिनी नाम सुरूपा अतिवल्लभा ।
तत्पुत्रः पित्रा सर्वामपि क्रमाद्विद्यां ग्राहितः ।
अन्यदा स पितरौ मुक्त्वा देशान्तरं गतः ।
गुणाढ्य इति विश्रुतो बभूव ।
जयन्त्यां च नगर्यां बुद्धिजीवनं व्यचिन्तयत् ।
ततः षण्डं यवकाशादिभिः पुपोष ।
सो ऽपि षण्डस्तमनु परिभ्रमति ।
अन्यदा सबन्धनं षण्डं विधाय वणिजारकवेषधारी मदनाया वेश्यायाः क्टुटिनीं जगाद-अस्मदीया बलीवर्दाः सवस्तुका प्रातरेष्यन्ति ।
अद्याहं तृणानयनार्थमागतः ।
तद्यत्र अस्मदीयस्य बलीवर्दस्य स्थानं भवति तत्राहं स्वपिमि ।
इत्युक्ते सा कुट्टिनी बलीवदधनैषिणी तं स्थापयामास ।
सो ऽपि तं षण्डं बद्ध्वा विलासिनीपार्श्वे ययौ ।
तया च स्नापितो भोजितश्च गुणाढ्यो रजन्यां शृङ्गारितः तत्सकाशे स्थितः ।
सो ऽपि च प्रभातायां निशि प्रथममेवोत्थाय स्वर्णशृङ्खला गृहीत्वा जगाम ।
गते च तस्मिन्नेका चेटी उत्थिता षण्डमदृष्ट्वा कुट्टिनीं प्रत्याह "आउए किमिदम्ऽ ।
ततस्तं विलासिनीपार्श्वाद्गतं ज्ञात्वा मौनं विधाय स्थिता ।
उक्तञ्च- अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ सुक्_17.3 (=113) ॥
अन्यदा गुणाढ्यो द्यूतनिर्जितः खटिकाहस्तो वेश्यया धृतः ।
तेनोपायश्चिन्नितः-शम्बलो शम्बलीति जगाद ।
ततस्तया राजभयान्मुक्तः ।
ततस्तस्यां चलितायां पृष्ठलग्न एव शम्बलीति वदन् गच्छति ।
ततस्तया विजने नीत्वा हस्तात्प्रसाद्य स्वर्णाभरणं दत्तम् ।
सोढुं त्यक्तुं च यः शक्तो मनसा कृतमन्यथा ।
मनो ऽनुकूलतां कुर्वन्न स निन्द्यः सदा सताम् ॥ सुक्_17.4 (=114) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ सप्तदशी कथा ॥
स्तर्त् सुक् 18:
अन्यदा सा चलिता शुकेनोक्ता ।
गच्छ देवि न ते देषो गच्छन्त्याः परवेश्मनि ।
यदि काचिच्छरीरे ते बुद्धिः सर्षपचौरवत् ॥ सुक्_18.1 (=115) ॥
अस्ति शुभस्थानं नाम नगरम् ।
तत्र दरिद्रो नाम वणिक् ।
तस्य गृहे चौरः प्रविष्टः ।
सो ऽपि च तत्रान्यत्किमप्यलभमानः सर्षपान् गृहीत्वा निर्गतो राजपुरुषैः प्राप्तः ।
सर्षपान् गले बद्ध्वा भ्रामितो राजकुलात्स कथं मुच्यते ।
उत्तरम्-यो यः पृच्छति तस्य तस्याग्रे वदति-अहो सर्षपाणां मध्ये न किञ्चित् ।
ततो राज्ञा सभायामाकार्य पृष्टः-तव वचो ऽभिप्रायं न जाने ।

प्राह- बलेर्वर्षदिने लोकः सर्षपान्पञ्चरक्षकान् ।
हस्ते बध्नाति तन्नूनमप्रमाणमतः परम् ॥ सुक्_18.2 (=116) ॥
यतो ऽहमेतावद्भिरपि गले बद्धैर्बद्धः राजापि तदाकर्ण्य हसंस्तं मुमोच ।
इति श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ अष्टादशी कथा ॥
स्तर्त् सुक् 19:
अन्यदा प्रभावती चलिता ।
शुकः प्राह- कुरु यद्रोचते भीरु यदि कर्तुं त्वमीश्वरा ।
यथा सन्तिकया भर्ता स्वच्छन्दा च विमोचिता ॥ सुक्_19.1 (=117) ॥
अस्ति करहडाभिधं पुरम् ।
तत्र राजा गुणप्रियो नाम यथार्थः ।
तत्र च सोढोको नाम श्रेष्ठिः ।
तद्भार्या सन्तिका नाम पतिव्रता ।
तत्रैव चान्यो वणिक् ।
तद्भार्या स्वच्छन्दा नाम पुंश्चली ।
सा च सोढाकं नित्यमिच्छति परं सो ऽभिवाञ्छां न विधत्ते ।
अन्यदा च मनोरथाभिधं यक्षं नमस्कर्तुं जगाम सः ।
ततः स्वच्छन्दा पृष्ठलग्ना तत्र प्रविष्टा ।
स च हावभावाद्यैरनुकूलितो भुक्तः ।
युक्तमुक्तञ्च-
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ सुक्_19.2 (=118) ॥
तच्च मिथुनं दृष्ट्वा राजपुरुषः तद्बन्धनाय यक्षगृहं वेष्टितम् ।
सन्तिका च शुद्धिं ज्ञात्वा रात्रौ महता तूर्यशब्देन यक्षगृहं गता ।
तेषामारक्षकाणां पुरत उक्तम्-अहमद्यदिनव्रता यक्षं दृष्ट्वा भोजनं विजने विधास्ये ।
मां च किञ्चिद्धनं गृहीत्वा मध्ये प्रवेशयतु ।
तैरपि तथैव कृतम् ।
ततस्तया स्वच्छन्दा स्ववेषां कारयित्वा बहिर्निष्कासिता ।
स्वयं मध्ये स्थिता ।
तं च प्रातर्निजकान्तासहितं दृष्ट्वा आरक्षका विलक्षीबभूवुः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ एकोनविंशतितमी कथा ॥
स्तर्त् सुक् 20:
अन्यदा प्रभावती शुकं पप्रच्छ ।
शुकः प्राह- गच्छ देवि मनो यत्र रमते ते नरान्तरे ।
केलिकावद्यदा वेत्सि पतिवञ्चनमद्भुतम् ॥ सुक्_20.1 (=119) ॥
अस्ति साभ्रमत्या नद्यास्तटे शङ्खपुरं नाम स्थानम् ।
तत्र च कर्षुकः सूराख्यो धनी ।
तस्य केलिका भार्या परं कुटिला कुलटा च ।
सान्यस्मिन्नदीतीरे सिद्धेश्वरपुरस्थं ब्राह्मणं कामयते ।

तदासक्ता च रात्रौ प्रातिवेशिकादूतिकासाहाय्यान्नदीं तीर्त्वा तदन्तिकं प्राप्नोति ।
अन्यदा भर्त्रा ज्ञातम् ।
स च तत्र गतस्तच्चरित्रगवेषणाय ।
यावत्सा नदीतीरे तत्र समागता तया च तावद्दृष्टः ।
ततस्तरणघटं पानीयभृतं विधाय प्रातिवेश्मिकागृहमध्ये भट्टारिकां मण्डयित्वा तेन पयसा स्नापयित्वा प्रत्युवाच प्रथमसंकेतितां दूतिकामुद्दिश्य-"स्वामिनि! पुरा त्वया उक्तं यदि त्वं सिद्धेश्वरीं न स्नापयसि ततः पञ्चानां दिनानां मध्ये त्वद्भर्तृभरणं भविष्यति ततो यदि त्वद्वचनप्रमाणं तदा मम पतिश्चिरं जीवतु ।
प्रातिवेश्मिकयोक्तम् एवमस्त्विति श्रुत्वा पतिस्तुष्टो भूत्वालक्षित एव जगाम ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ विंशतितमी कथा ॥
स्तर्त् सुक् 21:
अन्यस्मिन्दिने प्रभावत्या पुष्टः शुकः प्राह-
व्रज देवि न दोषो ऽस्ति व्रजतां सर्वकर्मसु ।
बुद्धिरस्ति यदा येषां मन्दोदर्याः सहायिनी ॥ सुक्_21.1 (=118) ॥
प्रभावत्याह-कथमेतत् ।
शुक्रः-अस्ति प्रतिष्ठानं नाम नगरम् ।
तत्र हेमप्रभो नाम राजा ।
श्रुतशीलो मन्त्री ।
श्रेष्ठी यशोधरः ।
मोहिनी भार्या ।
तयोस्तनया मन्दोदरी ।
स श्रीवत्साय वणिजे कान्तिपुरीसमागताय दत्ता ।
तन्मिथुनमतीव स्नेहलम्पटम् ।
सा च प्रातिवेश्मिकया पितृभार्यया कुट्टिन्या दंष्ट्राकरालया योजितमन्यं राजपुत्रमुपभुङ्के ।
साऽपन्नसत्त्वा भूता गर्भसंभवात्संजाते दोहदे राजवल्लभं मयूरं मारयित्वा भक्षितवती ।
राजा तु तस्मिन्मयूरे समागते भुङ्क्ते इति स्थितिः ।
तस्मिन्दिवसे तु भोजनवेलायां न लब्धः ।
डिण्डिमघोषणे कृते कुट्टिन्या पटहः स्पृष्टः ।
तया च ज्ञातं यत्कयाचिदापन्नसत्त्वया मयूरो दोहदाद्भक्षितः ।
ततः सा गर्भवती पृष्टा तया कुट्टिनो गृहमागता सम्मानिता ।
उक्तञ्च-
माधुर्यं प्रमदाजने सुललितं दाक्षिण्यमार्ये जने, शौर्यं शत्रुषु मार्दवं गुरुजने धर्मिष्ठता साधुषु ।
मर्मज्ञेष्वनुवर्तनं बहुविधं मानं जने गर्विते, शाठ्यं पापजने नरस्य कथिताः पर्यन्तमष्टौ गुणाः ॥ सुक्_21.2 (=119) ॥
तया च सर्वो ऽपि मयूरवृत्तान्तो निवेदितः ।
सा चकुट्टिनी विश्वासघातिका ।
उक्तञ्च-
न विश्वसेदविश्वस्ते विश्वस्ते ऽपि न विश्वसेत् ।
विश्वासाद् भयमुत्पन्नं मूलादपि निकृन्तति ॥ सुक्_21.3 (=120) ॥
दारेषु गोप्यं पुरुषस्य किञ्चिद्गोप्यं वयस्येषु सुतेषु किञ्चित् ।
युक्तं न युक्तं मनसा विचिन्त्य वदेद्विपश्चिन्महतो ऽनुरोधात् ॥ सुक्_21.4 (=121) ॥
किञ्च-
सोपचाराणि वाक्यानि शत्रूणामिह लक्षयेत् ।

अविचारितगीतार्थां मृगा यान्ति पराभवम् ॥ सुक्_21.5 (=122) ॥
किराते ऽप्युक्तम्-
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिताइवेषवः ॥ सुक्_21.6 (=123) ॥
कुट्टिन्या तत्सर्वं ज्ञात्वा मन्त्रिणे निवेदितम् ।
मन्त्रिणापि राज्ञे ।
राजा प्राह-
मा होहि सुहग्गाहि मा पत्तिहि जं ण दिट्ठपच्चक्खं ।
पच्चक्खम्मि वि दिट्ठे जुत्ताजुत्तं विउतणाहि ॥ सुक्_21.7 (=124) ॥
[मा भव सुखग्राही मा प्रत्येहि यन्न दृष्टं प्रत्यक्षम् ।
प्रत्यक्षे ऽपि दृष्टे युक्तायुक्तं विजानीहि] ॥ सुक्_21.7* (=124*) ॥
तद्वणिजो नगरप्रधानस्य वध्वा नैतन्निष्पद्यते ।
यावदात्मना न दृष्टं तावदसौ न विडम्ब्यः ।
तच्च कुट्टिन्या अग्रे मन्त्रिणा निवेदितम् ।
कुट्टिनी च मन्त्रिणं पेटायां निक्षिप्य तद्गृहे न्यासव्याजेन मुमोच ।
स्वयं च तत्र गत्वा तामभाषत- मुग्धे! यन्मयूरभक्षणं कृतं तत्त्वं मे श्लाघ्या ।
उक्तञ्च-
एणः कुरङ्गो हरिमस्तित्तिरिर्लाव एव च ।
मयूरचर्मिकूर्माश्च श्रेष्ठा मांसगणेष्वपि ॥ सुक्_21.8 (=125) ॥
पुनरपि समग्रो वृत्तान्तः पुष्टः ।
कथ्यमानश्च पेटाहननकृतसंज्ञेन मन्त्रिणा श्रुतः ।
तत्कथं सा श्रेष्ठिवधूस्तत्पिता श्वशुरश्च मुच्यन्ताम् ।
उक्तञ्च-
न नीचजनसंसर्गान्नरो भद्राणि पश्यति ।
दर्शयत्येव विकृर्तिं सुप्रिये ऽपि खलो यतः ॥ सुक्_21.9 (=126) ॥
नाशयितुमेव नीचः परकार्यं वेत्ति न प्रसाधयितुम् ।
पाटयितुमेव शक्तिर्नखोरुद्धर्तुमन्नपिटम् ॥ सुक्_21.10 (=127) ॥
दुज्जणजणणं सग्गे काअच्चाओ वि होइ विबुहाणं ।
पेच्छह तिलेहि पत्तं खलसंगे पीडणं जत्तो ॥ सुक्_21.11 (=128) ॥
[दुर्जनजनानां संगे कायत्यागो ऽपि भवति विबुधानाम् ।
प्रेक्षस्व तिलानामपि खलसङ्गे पीडनं यतः] ॥ सुक्_21.11* (=128*) ॥
यावत्सा कुट्टिनी पेटां हस्तेन हन्ति तावत्सा वणिक्पुत्री सवितर्कमवादीत्-
विभाता रजनी तावद्यावदेवं कृतं मया ।
प्रबुद्धं च तदा मातर्नाग्रे किञ्चिद्विदृश्यते ॥ सुक्_21.12 (=129) ॥
मार्तमया एवंविधः स्वप्नो दृष्ट ।
यः कश्चिदर्थप्रमाणो मे भवति स कथ्यताम् ।
एवं श्रुत्वा मन्त्री द्वारमाहत्य बहिर्निर्गतः ।
ततः सम्मानिता वणिग्वधूः सा तु कुट्टिनीति निर्वासिता ।
इति कथां श्रुत्वा प्रभावती सुप्ता ॥
इति शुकसप्ततौ एकविंशतीतमी कथा ॥

स्तर्त् सुक् 22:
पुनः प्रभावत्या पृष्टः शुकः प्राह-
याहि देवि पुनर्याहि मदीयं मतमीदृशम् ।
यदि वेत्स्युत्तरं किचिद्यथा माढुकया कृतम् ॥ सुक्_22.1 (=130) ॥
तच्छ्रुत्वा प्रभावत्याह-कथमेतत् ।
शुकः प्राह-दाम्भिलाग्रामे सोढाको नाम कर्षुकः ।
तद्भार्या माढुक नाम ।
तां च भक्तहारिणीं पथि गच्छन्तीम् एको बहिः सूरपालाख्यो नरो भुङ्क्ते ।
सा कदाचिन्मार्गे भक्तं मुक्त्वा तेन सह स्थिता ।
ततो मूलेदवेन धूर्तेन तस्मिन्भक्ते उष्ट्रिका कृता ।
तया च एवं जातं भक्तमनुत्पाटयित्वा नीनम् ।
यावच्च भर्त्रा उष्टिका दृष्टा तावत्किमिदिति सा पृष्टा ।
ततस्तया तत्कालोत्तरं कृत्वोक्तम्-नाथ! अद्य रात्रौ स्वप्ने उष्ट्रिकया भक्षितो दृष्टस्त्वम् ।
ततो मया विघ्नापहाराय विपरीतमिदं कृतम् ।
विश्रब्धं भक्षय यथा विघ्नो नश्यति ।
इति श्रुत्वा रतात्मना तेनोष्ट्रिकापि भक्षिता ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ द्वाविंशतितमी कथा ॥
स्तर्त् सुक् 23:
अन्यदा सख्यस्तां पुरुषान्तराभिसरणायैवमूचुः-
यत्र स्वेदलवैरलं विलुलितैर्व्यालुप्यते चन्दनं सच्छेदैर्मणितैश्च यत्र रणितं न श्रूयते नूपुरम् ।
यत्रायान्त्यचिरेण सर्वविषयाः कामं तदेकाग्रतः सख्यस्तत्सुरतं भणामि रतये शेषा च लोकस्थितिः ॥ सुक्_23.1 (=131) ॥
तथा च- संसअतुलण जहिं चडै तस्सुण जीविउ धणु ।
आइ परा जहि लहिज्जै तं जि भणिज्जिइ पेम्मु ॥ सुक्_23.2 (=132) ॥
[संशयतुलायां न यः आरोहति तस्य न जीवितं धन्यम् ।
आगते परा या लभ्यते तदेव भण्यते प्रेम] ॥ सुक्_23.2* (=132*) ॥
आरोग्यं परमानन्दः सुखमुत्साह एव च ।
ऐश्वर्यं प्रियसम्भोगं विना सर्वं निरर्थकम् ॥ सुक्_23.3 (=133) ॥
उक्तञ्च-
आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी ।
हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥ सुक्_23.4 (=134) ॥
शुकः प्राह-
सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ सुक्_23.5 (=135) ॥
ततः किं बहुनोक्तेन त्वं चैताः कृत्यकोविदाः ।
कुट्टिनीचरितं श्रुत्वा तद्विचार्यं त्वरान्विताः ॥ सुक्_23.6 (=136) ॥
प्रभावत्याह-कथमेतत् ।
शुको ऽब्रवीत्-अस्ति पद्मावती पुरी ।
यत्र मणिकुट्टिममार्गेषु शोभते रविविस्तरः ।
शेषफणमणिरागो वसुधामिवोपागतः ॥ सुक्_23.7 (=137) ॥

तत्र शुदर्शनो नाम राजा ।
शशिना हरिणा चैव बलिना कुशभूभुजा ।
कुशशक्तिच्छलत्यागसम्पद्यस्य न खण्ड्यते ॥ सुक्_23.8 (=138) ॥
किं तस्य वर्ण्यते राज्ञः प्रजापालनशलिनः ।
यस्मिंल्लोके न दृष्टा हि दोषा रविकरैरिव ॥ सुक्_23.9 (=139) ॥
तस्य शृङ्गारसुन्दरी नाम भार्या ।
तस्य नृपतेस्तया सह क्रीडतो ग्रोष्मकालो ऽवातरत् ।
यत्र सूरः खरो घस्रो यत्र दीर्घो ऽतिदुःसहः ।
खरश्च पवनो भीरु ग्रीष्मे सर्वमिदं खरम् ॥ सुक्_23.10 (=140) ॥
चन्दनं शुचिवस्त्रं च पानीयं शुचि शीतलम् ।
सेव्यमानो ऽपि मधुरः शुचिर्जयति नान्यथा ॥ सुक्_23.11 (=141) ॥
मध्याह्ने चन्दनं येषां सायं मज्जनसेवनम् ।
रात्रौ व्यजनवातश्च तेषां ग्रीष्मो ऽपि किङ्करः ॥ सुक्_23.12 (=142) ॥
एवंविधे ग्रीष्मे च चन्द्रनामा वणिक् प्रभावतीभार्यासमेतो गृहोपरिभूमिकायामारुढः ।
करैर्युक्तो ऽपि निरालम्बः आदित्यः पश्चिमाभ्योनिधितटं गतः ।
उक्तञ्च-
प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहु साधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ सुक्_23.13 (=143) ॥
तत्रस्थः स तथा भानू रागशेषो गतांशुकः ।
भातीव विद्रुमघटः स्रस्तः संध्यावधूकरात् ॥ सुक्_23.14 (=144) ॥
अत्रान्तरे विशालाक्षि चन्द्रो हन्तुं तमोरिपुम् ।
उदयाद्रिशिरः स्थातुमुद्यतोंऽशुभटैर्वृतः ॥ सुक्_23.15 (=145) ॥
प्राचीमुखे विभातीन्दुरुदयाद्रिशिरःस्थितः ।
दीपस्त्रिभुवनस्येव प्रच्छन्नस्य तमिस्रया ॥ सुक्_23.16 (=146) ॥
उदयाचलमारुढो भाति चन्द्रो निशामुखे ।
यामिनीवनितोत्सङ्ग शुल्कः कृष्णशिरःस्थितः ॥ सुक्_23.17 (=147) ॥
एवंविधे निशामुखे स वणिक् विक्रीडितया तया सार्धं क्रीडितः ।
अस्य रामनामा सुतः संजातः ।
तस्मै पित्रा विद्याश्चाशेषा ग्राहिताः ।
तस्य मातान्यदा चन्द्रं प्राह-मम एक एव पुत्रः ।
ततो ऽहमतिशयेन दुःखार्ता ।
चन्द्रः प्राह-एको ऽपि त्वदीयः सुतः श्लाघ्यः ।
उक्तञ्च-
चतुरो मधुरस्त्यागी गम्भीरश्च कलालयः ।
गुणग्राही तथा चैवं एको ऽपीदृग्वरः सुतः ॥ सुक्_23.18 (=148) ॥
तथा च-
किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः ।
वरमेकः कुलालम्बी यत्र विश्रूयते कुलम् ॥ सुक्_23.19 (=149) ॥
इत्युक्त्वा धूर्तमायां कुट्टिनीमाकार्येदमब्रवीत्--तव कनकसहस्रं दास्ये ।
मम पुत्रं स्त्रीमायावञ्चनदक्षं कुरु ।

तथेति तया प्रतिज्ञाते पुत्रं समाक्षिकं तस्यै दत्त्वा यद्यस्मत्पुत्रः क्वापि वेश्यायाः कपटेन जितो भवति तदाहं द्विगुणं कनकं ग्रहीष्ये ।
तयोक्तम् एवमस्त्विति ।
लेखयित्वा पुत्रं तद्गृहे प्रेषयामास ।
स च तत्रस्थो वेश्याजनोद्भवान्विकारान् गृह्णाति ।
तद्यथा--
वैशिकीं कृत्रिमां वाणीं व्यलीकान् शपथांस्तथा ।
कौटिल्यं कृत्रिमं भावं कृत्रिमं रुदितं तथा ॥ सुक्_23.20 (=150) ॥
हास्यं च कृत्रिमं दुःखं सुखं चैवमपार्थकम् ।
याचनं विनयोपेतं स्नेहभावो निरीहता ॥ सुक्_23.21 (=151) ॥
समत्वं सुखदुःखेषु धर्माधर्मसमक्रिया ।
भुजङ्गपुरतश्चैव कौटिल्यक्रमदर्शनम् ॥ सुक्_23.22 (=152) ॥
तथा च-
अहरं करं कवोलं थणजुअलं णाहिमण्डलं रमणं ।
इत्थिअजणसामण्णं हिअअं जं जस्स तं तस्स ॥ सुक्_23.23 (=153) ॥
[अधरः करः कपोलः स्तनयुगलं नाभिमण्डलं रमणम् ।
स्त्रीजनसामान्यं हृदयं यद् यस्या तत् तस्याः] ॥ सुक्_23.23* (=153*) ॥
इत्येवमादि समग्रं वेश्यानुगं चरितं शिक्षितम् ।
ततः स पुत्रः प्रतिज्ञापूर्वं वणिजे समर्पितः ।
पितुर्वाक्येन च सुवर्णद्वीपे वाणिज्याय प्रेषितः ।
तत्र च कलावती वेश्या ।
तया सह वर्षमेकं स्थितः ।
तां वैशिकानि कुर्वन्तीं स प्राह-विशेषं वद ।
एव ममानुजापि वदति ।
ततो बहुभिरपि वैशिकैर्न तत्सर्वस्वं गृहीतुं शक्नोति ।
ततस्तया सर्वमपि मातुर्निवेदितम् ।
मातापि प्राह-निश्चितमेष वेश्यासुतः ।
नेदृशैर्गृह्यते ।
प्रपञ्चेनैव ग्राह्यः ।
ततो यदायं स्वदेशं गन्तुकामस्त्वामुत्कलापयति तदा त्वया वाच्यम्--"अहमपि तत्र यास्यामि ।
यदि न नयसि तदा मरिष्यामीत्युक्त्वा कूपे झम्पा देया ।
ततो ऽसौ प्रीतस्त्वां प्रति सर्वं दास्यतिऽ ।
तयोक्तम्--मातर्मां विना तद्द्रव्येण किम् ।
ऊक्तञ्च--
अतिक्लेशेन ये ह्यर्था धर्मस्यातिक्रमेण च ।
शत्रूणां प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ सुक्_23.24 (=154) ॥
माता आह-भीरु! मा मैवं वद ।
मृत्युदो ऽर्थः प्राणदश्च ।
उक्तञ्च-
नासाहसं समालम्ब्य नरो भद्राणि पश्यति ।
साहसी सर्वकार्येषु लक्ष्मीभाजनमुत्तमम् ॥ सुक्_23.25 (=155) ॥

नाभित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ सुक्_23.26 (=156) ॥
कालः समविषमकरः परिभवसन्मानकारकः कालः ।
कालः करोति पुरुषं दातारं याचितारञ्च ॥ सुक्_23.27 (=157) ॥
अहं च तत्राधो जालं विरचयिष्ये ।
इति कुट्टिनीवचनमाकण्यं तया तथा कृतत् ।
तथा च कृते तेन सर्वस्व दत्तम् ।
कोटिसंख्यं च द्रव्यं गृहीत्वा मानरहितो निष्कासितः ।
उक्तञ्च-
वेसा वि रमन्ति जणं पिअं पि वञ्चन्ति अत्थलोहेण ।
ताण णमो वेसाणं अप्पा वि ण वल्लहो जाण ॥ सुक्_23.28 (=158) ॥
[वेश्या अपि रमन्ते जनं प्रियमपि वञ्चयन्ति अर्थलोभेन ।
ताभ्यो नमो वेश्याभ्यः आत्मापि न वल्लभो यासाम्] ॥ सुक्_23.28* (=158*) ॥
स च तथा धनमानपरिभवं प्रापितः परपोतमारुह्य स्वगृहमागमत् ।
एकाकिनं सुतं धनपरिजनवर्जितं दृष्ट्वा पिता सबाष्पं धनक्षयकारणं पृच्छति ।
सो ऽपि स्वयं लज्जन् गृहमन्त्रिमुखेन निवेदितवान् ।
पित्रोक्तम्-वत्स मा विषादं विधेहि ।
विपदः सम्पदो ऽपि पुंसः सम्पद्यन्ते ।
उक्तञ्च-
चिन्तामिमां वहसि किं गजयूथनाथ यूथाद्वियोगविनिमीलितनेत्रयुग्म् ।
पिण्डं गृहाण पिष वारि यथोपनीतं दैवाद्भवन्ति विपदः किल सम्पदो वा ॥ सुक्_23.29 (=159) ॥
किमनेन धनेनापि सत्वरेण मनस्विनाम् ।
गतेन जायते खेदो दर्षश्चैवागतेन च ॥ सुक्_23.30 (=160) ॥
एवं सुतं समाश्वास्य धूर्तमायामाकार्य इदमब्रवीत्--शृणु यदत्र कौतुकं संवृत्तम् ।
त्वय्यध्युषितो ऽपि सुतो गतसर्वस्वः समाययौ ।
साऽह--स्त्रीभिः को न खण्डितः ।
उक्तञ्च-
को ऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदो ऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः को ऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ सुक्_23.31 (=161) ॥
रमणसिहिणन्तराले बहलअरे रोमराइतरुगहणे ।
हरिहरणरगोबिन्दा बिडम्बिआ मअणचोरेण ॥ सुक्_23.32 (=162) ॥
[रमणशिखिनो ऽन्तराले बहुलतरे रोलराजितरुगहने ।
हरिहरनरगोविन्दाः विडम्बिता मदनचोरेण] ॥ सुक्_23.32* (=162*) ॥
तत्त्वं पुनः पोतं भृतं कृत्वा मां पुत्रान्वितां तत्र प्रेषय ।
उक्तञ्च-
कृते प्रतिकृतं कुर्या हिंसिते प्रतिहिंसितम् ।
त्वया लुञ्चापिताः पक्षा मया लुञ्चापितं शिरः ॥ सुक्_23.33 (=163) ॥
मयाप्युक्तम्-यदि त्वदीयपुत्रः क्वापि स्त्रिया वञ्च्यते तदा मम दूषणम् ।
उक्तञ्च-
दिग्गजकूर्मकुलाचलफणिपतिविधृतापि चलति वसुधेयम् ।

प्रतिपन्नममलमनसां न चलति पुंसां युगान्ते ऽपि ॥ सुक्_23.34 (=164) ॥
तथा च-
अचला चलन्ति पलए मज्जाअं साअरा विलङ्घन्ति ।
करुआ वि तह विकाले पडिवण्ण साध सिढिलेन्ति ॥ सुक्_23.35 (=165) ॥
[अचलाश्चलन्ति प्रलये मर्यादां सागरा विलङ्घन्ते ।
गुरुका अपि तथा विकाले प्रतिपन्नसाधनं न शिथिलयन्ति] ॥ सुक्_23.35* (=165*) ॥
धीरा जाण पमाणं जिमिअव्वे तह वि जंपिअव्वे अ ।
ऐ जिमिअजंपिआइं पच्छा वच्छे अपच्छाइं ॥ सुक्_23.36 (=166) ॥
[धीरा जानन्ति प्रमाणं जेमनस्य तथापि कथनस्य च ।
अपि भुक्तं जल्पितं पश्चाद् वत्से न तप्यन्ति] ॥ सुक्_23.36* (=166*) ॥
ततः श्रेष्ठी तं पुत्रं प्रेषयामासाशु तया समं सुवर्णद्वीपे ।
ततस्तस्मिन्सर्वो ऽपि पौरजनः प्रीतो बभूव ।
सा च कलावती सानुकूला तं विनयेनाजुहाव ।
तथा च स तयावर्जितो यथासौ आत्मायत्तः कृतः ।
द्रव्यं च सर्वं गृहीतम् ।
ततः सा धूर्तमाया कुट्टिनी किं करोतु-इति प्रश्नः ।
सा प्राह-शुक! न जाने ।
त्वं वद ।
शुकः-यद्यद्य न यासि तदा कथयामि ।
सा आह-न यास्यामि ।
शुकः-यदा तस्य सर्वं गृहीतम् तस्मिन्समये कैश्चिद्दिनैश्चाग्रे ऽपि चाण्डालरूपधारिणी धूर्तमाया नित्यं नित्यं गवेषमाणैव किञ्चित् ।
अन्यदा स कलावत्या सहितः खट्वायामुपविष्टस्तया दृष्टः ।
ता द्वारि दृष्ट्वा सहसोत्थाय नाशयितुमुद्यतः पूर्वमेव संकेतितम् ।
तमुत्तिष्ठन्तमनु कलावत्यप्युत्थिता ।
उक्तञ्च-किमिदमिति ।
रामस्तामुवाच-भद्रे! इयं मम जननी ।
अहं च हृतार्थको बहुदिनेभ्यो न तया दृष्टः ।
धूर्तमायापि तं संकेतस्थं द्वारस्थैव सशङ्का हस्तसंज्ञया आजुहाव ।
जागदेति चिराल्लब्धो वेश्यागृहगतो भवान् ।
म्लेच्छीभूता इयं वेश्या सर्वस्वं मे त्वया हृतम् ॥ सुक्_23.37 (=167) ॥
यावदेवं गृहाङ्गणगता शपति तावत्स वणिक् चाण्डालरूपी समागत्य तत्पादयोः पतितः ।
एतच्च दृष्ट्वा कलावती कुट्टिनीसहिता ताम् गृहमध्ये नीत्वा पृच्छति स्म--अम्ब! को ऽयम्? किं जातीयः? त्वं का? तयोक्तम्--पद्मावतीपुरीनाथस्य राज्ञः सुदर्शनस्य मातङ्गी गायिनी अहम् ।
अयं च मदीयं द्रव्यं हृत्वा इहागतः ।
तच्च त्वयाऽप्तम् ।
तन्मया ज्ञातम् परमधुना स समागच्छतु ।
ततः कुट्टिनी कलावतासहिता तत्पदायोर्लग्ना उवाच--गृहाणेदं द्रव्यम् ।
धूर्तमाया प्राह--नाहं गृहकोणे ग्रहीष्ये ।
राजविदितं ग्रहीष्यामि ।
ततो वेश्यामातापि अतिशयेन भीता मातङ्गीं प्रतिजगाद-इमां मत्सुतां रक्ष रक्ष ।
पारम्पर्यागतं द्रव्यं गृहाण सर्वस्वम्, परं मां मैवं विडम्बय ।

धूर्तमाया प्राह-ग्रहीष्ये ।
ततः सा वेश्यया कुट्टिन्या सह हस्तपादौ गृहीत्वा सम्मानिता ।
धूर्तमायापि निजं तदीयं द्रव्यं सर्वस्वं च गृहीत्वा रामेण सह पोतमारुह्य स्वगृहमागत्य भहोत्सवमकारयत् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ त्रयोविंशतितमी कथा ॥
स्तर्त् सुक् 24:
अथान्यस्मिन्दिने प्रभावती शुकं पप्रच्छ ।
शुको ऽप्याह--
याहि देवि विजानासि यदि जारसमन्विता ।
सज्जनीव पुरा वक्तुं भर्तुरग्रे कचग्रहे ॥ सुक्_24.1 (=168) ॥
प्रभावत्याह-किमेतत् ।
कीरो ऽब्रवीत्-अस्ति चन्द्रपुरं नाम नगरम् ।
तत्राभूद्वर्धकिः सूरपालाख्यः श्रीमान् ।
तस्य सज्जनी नाम भार्या अत्यन्तं परपुरुषलम्पटा ।
तां च तद्गृहस्थां देवको नाम रमते ।
इति लोकादेतदाकर्ण्य वर्धकिः कपटेन गृहान्निर्गत्य प्रातःसन्ध्यायामाच्छन्नः समागत्य तल्पस्याधोभागे स्थितः ।
सा च जारेण सह तत्रारूढा पत्या केशेषु गृहीता कथं मुच्यते ।
उत्तरम्-सा पत्या धृता सती द्वितीयपतिमुखमालोक्य प्राह-मया तव कथितं यद्रथकारो मम पतिर्गृहेन विद्यते ।
स चागतस्तव तदैव औचित्यं विधास्यति ।
यद्यपि पूर्वं पत्या त्वदीयं द्रव्यमपहृतं तथापि क्षन्तव्यम् ।
रथकृति समागते तव गृहं गमिष्यामि युवयोः संगतिं वा करिष्ये ।
नात्र संशयः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ चतुर्विशतितमी कथा ॥
स्तर्त् सुक् 25:
अन्यदा प्रभावती शुकं गमनाय पृच्छति ।
शुकः प्राह-
कुरु यद्रोचते कर्तुं यदि वेत्सि प्रतीङ्गितम् ।
श्वेताम्बरेण रुद्धेन यथा पूर्वं कृतं तथा ॥ सुक्_25.1 (=169) ॥
अस्ति चन्द्रपुरी नाम नगरी ।
तत्र सिद्धसेनो नाम क्षपणको जनपूजितः ।
तस्मिन्नेव नगरे ऽन्यः सितपटो गुणिनां मुख्यः समागतः ।
तेन च गुणिना सर्वो ऽपि जन आवर्जितः श्रावका अप्यात्मायत्ताः कृताः ।
स क्षपणको ऽपि तस्य पूजां क्रियमाणामसहमानः स्वयं तदीयोपाश्रये वेश्यां प्रेषयित्वा असौ वेश्यालुब्धो न सुशील इति श्वेताम्बरस्य लोकप्रवादमकरोत् ।
तद्दर्शनाय जनमाकारयामास ।
ब्रूते च--क्षपणका एव ब्रह्मचारिणः श्वेताम्बरास्तु विप्लुताः ।
सो ऽपि श्वेताम्बरो दीपाग्निना उपाधिं प्रज्वाल्य प्रभातप्राप्तायां रजन्यां नग्नोभूय वेश्याया दत्तहस्तो निर्गतः ।
ततो लोकापवादः संवृत्तः ।
यदसौ क्षपणको न सितवस्त्रः ।
इति श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ पञ्चविंशतितमी कथा ॥
स्तर्त् सुक् 26:
अन्यदा सा चलिता ।
शुकः प्राह--
याहि देवि न ते दोषो यदि जानासि भाषितुम् ।
रत्नादेवीव पत्या तु प्राप्ता जारद्वयान्विता ॥ सुक्_26.1 (=170) ॥
अस्ति जलौदाभिधानो ग्रामः ।
तत्र राजपुत्रः क्षेमराजः शूरः ।
रत्नादेवी तस्य भार्या ।
तत्रैव ग्रामणीर्देवसाख्यः ।
तस्य सुतो धवलो नाम ।
तौ द्वावपि रमेते रत्नादेवीं परस्परमज्ञातौ ।
अन्यदा पितृपुत्रौ तद्गृहस्थौ यदा तदा राजपुत्रः समागतः ।
तदा किमुत्तरम्? शुक आह-ततस्तया कृतसंज्ञो गृहादङ्गुल्या तर्जयन्नयात् ।
तस्मिंश्चैव गच्छति भयात्पतिः किमिदमित्याह ।
ततः सा हसन्ती प्राह-अस्य पुत्रस्त्वद्गृहे शरणागतः ।
मया च नार्पितः ।
यतः-
स क्षत्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः ।
वहन्द्वयीमप्यफले ऽर्थजाते करोत्यसंस्कारहतामिवोक्तिम् ॥ सुक्_26.2 (=171) ॥
अतो रुष्टो व्रजति ।
गच्छ त्वं समर्पय सुतम् ।
तेन च तथा कृतम् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ षड्विंशतितमी कथा ॥
स्तर्त् सुक् 27:
अन्यदा प्रभावती गमनाय शुकं पृच्छति स्म ।
शुकः प्राह-
रम्भोरु गच्छ कामिनां को विघ्नं कर्तुमर्हति ।
मोहिनीव समर्था चेद्विचारीकर्तुमीश्वरि ॥ सुक्_27.1 (=172) ॥
अस्ति शङ्खपुरं नाम नगरम् ।
तत्रार्यो वणिगभूत् ।
तस्य मोहिनी नाम भार्या ।
ताञ्चबहिर्गतां कुमुखो नाम धूर्तो रमते ।
तत्पतिना चाभिज्ञायि ।
तत्पतिश्चातिशयेन भीरुः ।
ततो ऽसौ तां बहिर्यान्तीं निवार्य पार्श्वस्थित एव तिष्ठति ।
तथापि तया धूर्तस्य कथितम्-मां रात्रौ भर्तृखट्वास्थितामर्वाक्सुप्तां भज त्वम् ।
तेन तथा कृतम् ।
तच्च कुर्वन्भर्त्रासौ पुंश्चिह्ने धृतः कथं गच्छतु? उत्तरम्-धृत्वा च पतिः प्राह-प्रदोपमानय मया चोरो धृतो ऽस्ति ।

तयोक्तम्-बहिर्यान्ती बिभेम्यहम् ।
एनं ग्रहीष्ये त्वं दीपमानय ।
तेन च तथा कृतम् ।
सा च जारं मुक्त्वा गृहान्तर्बद्धस्य पट्टकस्य जिह्वां गृहीत्वा तथैव सुप्ता यावत्पतिर्लकुटहस्तो दीपं गृहीत्वा समायातः पृच्छति-किमियं पट्टकस्य जिह्वा कथमत्र? तयोक्तम्-क्षुधार्तो ऽयम् ।
अनेन मुक्ता लालाकृशा स्थिता ।
उक्तिप्रत्युक्तिवादेन निर्जितः ।
उक्तश्च-हतक! अनेन पौरुषेण क्षयं व्रजसि ।
इति निर्भर्त्सितो लज्जितश्च सुप्तः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ सप्तविंशतितमी कथा ॥
स्तर्त् सुक् 28:
अन्यदा प्रभावती गमनाय शुकं पप्रच्छ ।
शुकः प्राह--
कृशोदरि व्रजाद्य त्वं यदि जानासि भाषितुम् ।
जारसंयुक्तया पूर्वं यथा देविकया कृतम् ॥ सुक्_28.1 (=173) ॥
अस्ति कुहाडाख्यो महाग्रामः तत्र जरसाख्यो कौटुम्बिको महामूर्खः ।
तद्भार्या देविका पुंश्चली ।
तां च प्रभाकरो ब्राह्मणः क्षेत्रमध्ये विभीतकवृक्षसमीपे गुप्तस्थाने मुदा रमतेर् ।
इदृशं व्यतिकरं जनाच्छ्रत्वा तत्पतिस्तत्रावलोकनाय स्वयं गतः ।
तेन च वृक्षारूढेन तत्तथैव दृष्टम् ।
दृष्ट्वा तत्रस्थेनापि जल्पितम्, धूर्तिके! बहुदिनेभ्यो ऽद्य सम्प्राप्ता-इत्युक्ता कथमियं भर्तारं प्रत्याययतु ।
तयोक्तम्--नाहं जाने त्वमेव कथय ।
"यदि न यासि तदा कथयामिऽ ।
तया तथेति प्रतिपन्ने शुकः प्राह--सा च तद्वचः श्रुत्वा तं जारं प्रेषयामास पत्या चावतीर्य समागतेन उपालब्धा ।
साऽह--हे प्रभोर्! इदृश एव वृक्षः, अत्रारूढैर्मिथुनं दृश्यते ।
तेन पतिना उक्तम्--त्वमारुह्य अवलोकय ।
तया तथा कृतम् ।
वृक्षारूढया च तया प्रोक्तं कपटेन ।
"वहुदिवसेभ्यो ऽन्यां नारीमभिगमन् दृष्टो ऽसि" ।
तेन मूर्खेण ज्ञातम्--सत्यमिदम् ।
स च तां शान्तयित्वा गृहं निनाय ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ अष्टाविंशतितमो कथा ॥
स्तर्त् सुक् 29:
अन्येद्युः प्रभावती गमनाय शुकं पृच्छति स्म ।
सो ऽप्याह--
व्रज देवि विचारं चेत्कर्तुं जानासि भामिनि ।
समं जारेण सम्प्राप्ता सुन्दरीव यथा गृहे ॥ सुक्_29.1 (=174) ॥
"कथमेतत्ऽ? सो ऽब्रवीत्--अस्ति सीहूलो नाम ग्रामः ।
तत्र महाधनो वणिक् ।

तद्भार्या सुन्दरी ।
तां च मोहनो नाम उपपतिर्नित्यं गृहमागत्य भुङ्क्ते ।
अन्यदा यावत्सा तथा तिष्ठति तावत्तत्पतिः समागतः ।
सा कथं भवतु ।
उत्तरम्--सा पतिमागच्छन्तं दृष्ट्वा जारं विवस्त्रं शिक्ये कृत्वा मुक्तकेशा गृहान्निर्गत्य दूरस्था पतिमाह-अस्मद्गृहमध्ये नग्नभूतं शिक्यारूढं विद्यते ।
मान्त्रिकानाकारयितुं गच्छेत्युक्ते स मूर्खस्तदर्थं जगाम ।
तदा च तदन्तरे तया उल्मुकं हस्ते कृत्वा उपपतिर्निष्कासितः ।
पत्यौ च आगते सा जगाद-यदुल्मुकेनापि भूतं नष्टम् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ एकोनत्रिंशत्तमी कथा ॥
स्तर्त् सुक् 30:
अन्येद्युः प्रभावत्या पृष्टः शुकः प्राह ।
गच्छ देवि विरुद्धं ते गमनं न मतं मम ।
विषमे यदि वेत्सि त्वमुत्तरं मूलदेववत् ॥ सुक्_30.1 (=175) ॥
अस्तीह पृथिव्यां भूतवासं नाम श्मशानम् ।
तत्र द्वौ पिशाचौ करालोत्तालनामानौ ।
भार्ये च धूमप्रभामेघप्रभाख्ये, तयोश्च भार्यारामणीय कत्वे विवादः संवृत्तः ।
अन्यदा च ताभ्यां भार्यासहिताभ्यां मूलेदवोदृष्टो बाहुभ्यां विधृत्य पृष्टः-का अनयोर्मध्याद्रमणीया, अनृतं वदन्तंव्यापादयिष्यावः ।
तत्कलत्रे विरूपे भीषणे वृद्धे पिशाचिन्यौ ।
स च यथार्थवादी भक्षितः स्यात् किमुत्तरं कुर्यादिति ।
उत्तरम्--तेनोक्तम्-
या यस्य वल्लभा लोके रम्या सा तस्य नापरा ।
गदिते धूर्तराजेन ताभ्यां मुक्तश्च तत्क्षणात् ॥ सुक्_30.2 (=176) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ त्रिंशत्तमी कथा ॥
स्तर्त् सुक् 31:
अन्यदा च प्रभावत्या पृष्टः शुकः प्रोवाच-
यथेष्टं व्रज कल्याणि केलिं कर्त्तुं कृशोदरि ।
शशकस्येव ते बुद्धिरस्ति चेत्सुसहायिनी ॥ सुक्_31.1 (=177) ॥
मधुराख्ये वने पिङ्गलनामा सिंहः ।
स सत्त्वानि बहूनि हनन्सर्वैः पशुभिर्विचार्य प्रतिदिनमेकैकसत्त्वपरिकल्पनव्यवस्थया निवारितः ।
अन्यदा शशकस्यैकस्य वारकः सञ्जातः ।
स च न याति श्वापदैर्भणितो ऽपि-"गच्छ त्वमन्यथा पूर्ववत्सर्वाणि भूतानि स भक्षयिष्यति ।
स चाद्यप्रभृति तदन्तिके सत्त्वानि न यास्यन्तिऽ-इत्युक्त्वा बहुकालक्षेपं चकार ।
मध्याह्नसमये एव च मन्दं मन्दं सिंहस्याग्रे गन्तुं व्यसितः ।
तेनापि सहसाक्रान्तः कथं मुच्यते? उत्तरम्-शशकः सिंहिं प्राह-स्वमिन्नहं शशकचतुष्टयेन सह आगच्छन्मार्गे तव शत्रुणा धृतो ऽतो वेलातिक्रमो बभूव ।
तेनोक्तम्-स शत्रुं क्वास्ते? ततः स शशकेन धूर्तेन वाटीं नीत्वा तस्यैव प्रतिबिम्बः कूपे दर्शितः ।
सिंहो ऽपि मूर्खस्तं जले दृष्ट्वा कुपितो झम्पादान्मृतश्च ।
बुद्धिर्बलवती भीरु सत्त्वानां न पराक्रमः ।
शशकेनाल्पसत्त्वेन हतः सिंहः पराक्रमी ॥ सुक्_31.2 (=178) ॥

उक्तञ्च-
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
सरार्ष्ट सप्रजं हन्ति राजानं मन्त्रिनिश्चयः ॥ सुक्_31.3 (=179) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ एकत्रिंशत्तमी कथा ॥
स्तर्त् सुक् 32:
अथान्येद्युः प्रभावती चलिता शुकं पप्रच्छ गमनाय ।
शुकः-
यादि देवि मनो यत्र गन्तुं ते कमलानने ।
राजिनीव विजानासि वक्तुं धूलिविपर्यये ॥ सुक्_32.1 (=180) ॥
अस्ति शान्तिपुरं नाम नगरम् ।
तत्र माधवः श्रेष्ठी ।
तस्य मोहिनी भार्या ।
तयोस्तनयः सोहडाभिधः ।
तस्य भार्या राजिनीनाम्नी रूपसम्पन्ना चतुरा पुंश्चली ।
सान्यदा द्रम्मर्पयित्वा श्वश्र्वज्ञप्ता "गोधूमान् हट्टे गृहीत्वा गच्छऽ ।
सा च हट्टे गता ।
क्रीणत्या चोपपतिर्दृष्टः संज्ञितश्च समीपमाययौ ।
गोधूमान्मोटायां बद्ध्वा हट्टे मुक्त्वा तेन सार्धं सा ययौ ।
वणिजापि गोधूमानुत्सार्य मोटायां धूलिर्बद्धा ।
सापि तेन सह चिरं स्थित्वा आगत्याकुला मोटामनुत्पाटयित्वा गृहं ययौ ।
तां छोटयित्वा यावत् श्वश्रूः पश्यति कोदृशा गोधूमा इति तावद्धूलिं पश्यति ।
अत्र किमुत्तरम् ।
शुकः-किमिदमिति यदा श्वश्र्वा पृष्टा तदा तयोक्तम्-"मातर्मम हस्ताद् द्रम्मः हट्टाग्रे भूमौ पतितः ।
ततो मया धूलिराहृता ।
ततः सा श्वश्रूर्द्रम्ममनवलोकमाना विकलीभूता ।
इति कथां श्रुत्वा प्रभावती सुप्ता इति शुकसप्ततौ द्वात्रिंशत्तमी कथा ॥
स्तर्त् सुक् 33:
अथान्येद्युः प्रभावती गमनायोत्सुका शुकं पप्रच्छ ।
शुकः प्राह-
को दोषो गम्यतां देवि यदि कर्तुं त्वमीश्वरा ।
विषमे मालिनी यद्वद्रम्भिका पतिसन्निधौ ॥ सुक्_33.1 (=181) ॥
प्रभावती-"कथमेतत्ऽ? शुको ऽब्रवीत्-अस्ति शङ्खपुरं नाम नगरम् ।
तत्र शङ्करो नाम मालिकः समृद्धिमान् ।
तस्य रम्भिका नाम भार्या बहुरतिप्रिया सुभगा सुरूपा बहुभर्तृका च ।
अन्यदा शङ्करगृहे पितृकार्यमागतम् तस्मिन्दिने तयोपपतयश्चत्वारो निमन्त्रिताः पुष्पाणां विक्रयाय गतया चतुष्पथे ग्रामणीर्वणिक्सूनुस्तलारश्च बलाधिपश्च प्रत्येकं ते ते पृथक्पृथक् आकारिताः परस्परमजानन्तः-मदीयं भवनं प्रति प्रागेव समागन्तव्यमिति ।
द्वितीये ऽह्नि मालिके वाटिकां गते वणिक्सूनुः स्नात्वा भुक्त्वा च तया सह रन्तुं समाययौ ।
वणिजि अर्धस्नाते ग्रामकूटो गृहद्वारं समापतन्दृष्टः ततः स्नानं कुर्वन्वणिक्तथाभूतो वंशमये कोष्ठे खलियुक्ते क्षिप्तो भययुक्तश्च ।
ग्रामकूटे ऽप्यर्धस्नाते बहिस्तलारः समायातः ।
तं दृष्ट्वा सो ऽपि तस्मिन्नेव कोष्ठे क्षिप्त उक्तश्च-यदधः सर्पिणी प्रसूतास्ति ।

ततो ऽप्यनतराल एवं स्थातव्यमिति तलारो ऽप्यर्धस्नातो बलाधिपं दृष्ट्वा भाण्डसमूहे क्षिप्तः ।
बलाधिपो ऽप्यर्धस्नातो मालिकं दृष्ट्वा तत्रैव क्षिप्तः ।
ततो मालिको लोकश्च तस्मिन् पितृकार्ये यदृच्छया भिजिताः ।
एवं कृत्वा ते षां चतुर्णामपि परस्परमलक्षितानां पृथक्पृथक् भोजनं परमान्नामृतं समर्पितम् ।
वणिजा तु भुञ्जानेन बहु फूत्कृतम् ।
तदोपरिस्थितेन च सर्पिणीं शङ्कमानेन मूत्रितम् ।
वणिजा तु घृतामिति ज्ञात्वा भाजनमुत्क्षिप्तम् ।
उपरिस्थितस्य मुखे लग्नम् ।
ततः स शङ्कितः ।
सो ऽपि च लग्नं लग्नमिति वदन्दत्तझम्पो निर्ययौ ।
अन्ये ऽपि लग्नाक्षरभयाकुला यावन्निर्गताः शङ्करेण जनैश्च दृष्टाः सविस्मयं खलिखरडिताः ।
ततः सा कथं भवतु? उत्तम्-यदा सा पत्या पृष्टा किमिदमिति तदा तयोक्तम्-
श्रद्धाहीनं कृतं श्राद्धमिदं नूनं त्वया प्रिय ।
अतो ऽभुक्त्वा क्षुधाक्रान्ताः पितरस्ते विनिर्गताः ॥ सुक्_33.2 (=182) ॥
ततः स पुनः श्राद्धं चकार ।
रम्भिकावचनात्तेन निर्गताः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ त्रयस्त्रिंशत्तमी कथा ॥
स्तर्त् सुक् 34:
अथान्यस्मिन्दिने गमनार्थं प्रभावती शुकं पप्रच्छ ।
शुकः प्राह-
याहि देवि गता वेत्सि भङ्गुरं यदि भाषितुम् ।
कुमार्यै पारडी दत्त्वा यथोक्तं शम्भुना पुरा ॥ सुक्_34.1 (=183) ॥
प्रभावत्याह-कथमेतत् ।
शुकः प्राह--पुरा कस्मिंश्चिन्नगरे शम्भुनामा विप्रो ऽभूत् द्यूतकृन्नानादेशपरिभ्रमणशीलो मार्गे गच्छन् क्षेत्ररक्षिकां सुरूपां बालिकां दृष्ट्वा ताम्बूलं दत्वा सान्त्वयन्निदमुवाच यन्मत्सम्भोगकरणे इमां मदीयां पारडीं गृहाण मया सह रतं कुरु ।
सुखाश्रयं तया तथा विहितम् ।
स च सिद्धे कार्ये तां याचते ।
कथं लभते? उत्तरम्-यावत्तेन याचिता तावत्सा चलिता गृहं प्रति ।
सो ऽपि च पञ्च कणिशानि गृहीत्वा पृष्ठे लग्नः ।
तेन च ग्रामगतेन फूत्कृतम्-अहो ग्राममुख्याः! पश्यत ।
ग्रामे ऽस्मिन्महदद्भुतम् ।
पञ्चकणिशकारणेनानया मदीयं वस्त्रमपहृतम् ।
ग्राम्यैस्तत्समर्पितम् ।
तया च न किञ्चिदुक्तं लज्जया ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ चतुस्त्रिंशत्तमी कथा ॥
स्तर्त् सुक् 35:
अपरे ऽह्नि सा शृङ्गारान्विता शुकं पप्रच्छ ।
शुकः प्राह-
गच्छ देवि न ते दोषो यदि तत्र गता सती ।

स्वार्थं कर्तुं विजानासि तिलक्रयकरो यथा ॥ सुक्_35.1 (=184) ॥
"कथमेतत्? शुकः प्राह-पुरा कस्मिंश्चिद् ग्रामे शम्बकनामा वणिक्तिलग्राहकः ।
स च सरग्रामं यथौ ।
तत्रस्थस्य भाण्डशालिकस्य गृहे गतः ।
स गृहे नास्ति ।
तस्य भार्यास्ति परं कुलटा ।
नेत्रसंज्ञया परस्परं प्रीतिरुत्पन्ना ।
तत्रैव सा भुक्ता अङ्गुलीयकं दत्त्वा ।
सम्बन्धादनन्तरं स तदङ्गुलीयकं जिघृक्षति ।
अनेन विधिना दत्तमङ्गुलीयकं स कथं गृह्णात्विति प्रश्नः ।
शुकः प्राह-तिलग्राहकस्तदलभमानो विपणिस्थं भाण्डशालिकमाह-"देहि मे तिलप्रस्थशतं यत्सत्यङ्कारितं मयाऽ ।
एवमुक्तः स आह-"के तिलाः कश्च वक्ता त्वं सत्यङ्कारश्च कीदृशः? तेनोक्तम्-प्रस्थं प्रति द्विकप्रवृद्ध्या त्वद्भार्यया सत्यङ्कारे ऽङ्गुलीयकं गृहीतम् ।
ततो रुष्टेन वणिजा भार्यापारश्वे निजं सुतं प्रेषयित्वा इति कथयामास-त्वदीयेनेदृशेन व्यवहारेणास्मद्गृहं वृद्धिमाप्स्यति ।
पुत्रो ऽप्यङ्गुलीयकमादाय तिलग्राहकस्यार्पयामास ।
सो ऽपि यथागतं तथा ययौ ।
ततो यदि प्रभावि तवाप्येवं बुद्धिरस्ति तदा गम्यतां नान्यथा ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ पञ्चत्रिंशत्तमी कथा ॥
स्तर्त् सुक् 36:
निशामुखे ऽन्येद्युः प्रभावती शुकं पुनराह-हे कीर! गमिष्यामि चिरकाङ्क्षितं सुखं भोक्तुम् ।
शुक आह-
सुखमेवानुभोक्तव्यं संसारे सुन्दरि! ध्रुवम् ।
नायिनीव विजानासि यदि वक्तुं त्वमुत्तरम् ॥ सुक्_36.1 (=185) ॥
प्रभावत्याह-कथमेतत् ।
का कीर नायिनी कुत्र तया किं कृतमुत्तरम् ।
कथां कथय कल्याणीं कौतुकं मे कथाक्रमे ॥ सुक्_36.2 (=186) ॥
शुक आह-अस्ति सरडाख्ये ग्रामे ग्रामणीः शूरपालः ।
तस्य भार्या नायिनी ।
सा आत्मपतिं नित्यं पट्टसूत्रकञ्चुकं याचते ।
स आह-वयं कर्षुकाः कार्पासचीवराः ।
अस्मद्गृहे पट्टसूत्रवार्त्तामपि को ऽपि न जानाति ।
अन्यदा सा तं ग्रामसंसदिस्थं जगाद-गृहमेहि गृहाधिप! रावडी भुङ्क्ष्व ।
स च तद्वचनं श्रुत्वा भार्यामाह गृहागतः-भद्रे! त्वया निन्दितं वचो लज्जाकारकं ममाप्रियं संसदि किमित्थमुक्तम्? तयोक्तम्--त्वया मम प्रियं कथं न कृतम्? ग्रामणीराह--दास्यामि कञ्चुकं ते ऽद्य ।
निजं वाक्यं वृथा कुरु ।
तयोक्तम्--कञ्चुके दत्ते उत्तारयिष्ये ।
दत्तः कञ्चुकस्तेन ।
तद्वचः कथं वृथा भवत्विति प्रश्नः ।
शुकः प्राह-अन्यदा नायिनी जगाद-यदाद्य त्वां संसदिस्थं पूर्ववदाकारयामि तदा त्वया संसदा सह गृहमागन्तव्यम् ।
तेन च एवमेव कृतम् ।
तया च गृहागतायाः संसदो भव्यरोत्या भोजनं दत्तम् ।

ततो ग्रामजनो वदति-शूरपालः समृद्धः ।
परं तद्भार्या औद्धत्यपरिहारेण एवं वदति ।
इति वचनमुत्तारितम् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ षट्त्रिंशत्तमी कथा ॥
स्तर्त् सुक् 37:
अथापरे ऽह्नि प्रभावती गमनाय शुकं पृच्छति स्म ।
शुको ऽप्याह-
यथेष्टं व्रज कल्याणि न ते दोषो ऽस्ति कश्चन ।
लाङ्गलीव विजानासि यदि कर्तुं त्वमुत्तरम् ॥ सुक्_37.1 (=189) ॥
प्रभावत्याह-कथमेतत् ।
शुको ऽप्याहृ-सङ्गमाख्ये ग्रामे शूरः कौटुम्बिकः ।
तस्यास्ति पूर्णपालस्तु हालिकः ।
सर्वत्र च तस्य शूरपतेर्वेश्मनि क्षेत्रे खले प्रमाणम् ।
तस्य च हालिकस्य क्षेत्रस्थस्य शूरपतिसुता सुभगा नाम नित्यं भुक्तिं नयति ।
स तां कामयते क्षेत्रगह्वरे शूरपालान्निःशङ्कितः ।
तं च वृत्तान्तमसमञ्जसमिति कृत्वा प्रतिवेश्महालिकास्तस्य कथयामासुः ।
अन्यदासौ शूरस्तयोर्हालिकसुतयोः सम्बन्धं प्रत्यक्षीकर्तुं क्षेत्रं गत्वा गह्वरस्यादूरसमन्ते ऽलक्षितस्तस्थौ ।
तन्मिथुनं रतस्थं दृष्टं कथं भवतु? उत्तरञ्च किमिति प्रश्नः ।
शुकः प्राह-यावत्स हालिकस्तां भुक्त्वोत्थितः तावत् शूरपतिं ददर्श ।
तदा स निःश्वसन्नाह-धिङ्मे कर्मार्जनां च यन्मया हलखेटनं विधेयम्, इयं च ग्रन्थिरोगिणी ।
अतो द्वयोरपि जीवितं रसातलं यातु ।
मया तु नित्यं हलेखेटनं ग्रन्थेराकर्षणं च द्वयमपि विधेयम् ।
तदहं किमर्थमस्य शूरपालस्य हालिको भवामि ।
इत्थमेवाहं क्षयं यास्यामि ।
इति हालिकवचनं श्रुत्वा निर्देषो ऽयमिति लोकस्य वचनं वितथीकृत्य शूरपतिर्लज्जितो गृहं ययौ ।
सा च प्रभावती शुकोक्तां कथां श्रुत्वा सुप्ता ।
इति शुकसप्ततौ सप्तत्रिंशत्तमो कथा ॥
स्तर्त् सुक् 38:
अपरेद्युर्यामिनीसमये प्रभावती गमनाय शुकं पप्रच्छ ।
शुकः-
वाञ्छितं कर्तुकामानां नान्तरायं कृशोदरि ।
यदि कर्तुं विजानासि यथा विप्रः प्रियंवदः ॥ सुक्_38.1 (=188) ॥
प्रभावती पप्रच्छ-कथमेतत्? शुकः-पुराभूद् देवि? प्रियंवदो नाम विप्रः पथिकः ।
एकदा मार्गे गच्छन्सुदर्शनग्रामे कस्यचिद्वणिजो गृहं ययौ ।
तत्पत्नी च पुंश्चली ।
स च ब्राह्मणस्तां दृष्ट्वा आत्मानं सुस्थानकृतवासकं मेने ।
स च रात्रौ सकामस्तां प्रार्थयामास ।
अङ्गुलीयकदानेन च हट्टमार्गं वणिक्सुते गते रेमे तया समम् ।
प्रातः सो ऽङ्गुलीयकं याचते ।

सा नार्पयति ।
अनेन विधिना दत्तमङ्गुलीयकं स कथं गृह्णातु-इति प्रश्नः ।
उत्तरम्-यदा तु याचिता न ददाति तदा स ब्राह्मणः खट्वाचरणं गृहीत्वा वणिजः सन्निधिं ययौ ।
खट्वाचरणं दर्शयित्वा फूत्कृतम् ।
वणिक् प्राह-भो द्विजः! किमेतत्? स आह-भग्ने ऽस्मिन्त्वदीयभार्यया मदीयमगुलीयकं जगृहे ।
स च वणिक् तद्वचनं श्रुत्वा कुपितो भार्यामाह-अनेन प्रमादेन अस्मद्गृहे को ऽपि पथिको न समेष्यति ।
इत्युक्त्वा निष्ठुरं वचस्तत्कुण्डादुत्तीर्य अङ्गुलीयकं पथिकाय समर्पितम् ।
स च यथागतं ययौ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ अष्टत्रिंशत्तमी कथा ॥
स्तर्त् सुक् 39:
अपरे ऽह्नि सन्ध्यासमये पुरुषान्तरगमनाय प्रभावती शुकं पृच्छति स्म-हे शुक! अहं गमिष्यामि ।
शुकः प्राह-
व्रज देवि! वरं यानं त्वं भोक्तुं सुभगं नरम् ।
वक्तुं चेद्विषमे वेत्सि तुलाग्राहीव भामिनि ॥ सुक्_39.1 (=189) ॥
प्रभावती प्राह-"कथमेतत्?
कस्तुलाग्राहकः कीर! गृहीता च तुला कुतः ।
विषमं च किमायातं कथां कथय शोभनाम् ॥ सुक्_39.2 (=190) ॥
अस्त्यत्र कुण्डिनं नाम नगरम् ।
तत्र भूधरो नाम वणिक्पुण्यक्षयात्क्षीणधनो जनैस्त्यक्तः ।
उक्तञ्च-
विद्वान्धनी धनी दाता धनी साधुर्गुणाग्रणीः ।
सर्वबन्धुर्धनी पुज्यो धनहीनो गतप्रभः ॥ सुक्_39.3 (=191) ॥
यदा तु स तुलामात्रधनो ऽभवत्तदान्यवणिग्गृहे तुलां मुक्त्वा देशान्तरं गतः ।
तत्र धनमर्जयित्वा निजनगरमागत्य तं वणिजं तुलां ययाचे ।
वणिक्पार्श्वात्तुला न लब्धा ।
तुलायां तु लुब्धो वणिक्मूर्ख उत्तरं चक्रे यत्त्वदीया तुला मूषिकैर्भक्षितेति श्रुत्वा भूधरस्तूष्णीं स्थितः ।
स च एकदा तस्य वेश्मनि भोजनाय गतः क्रीडन्तं बालकं दृष्ट्वा प्रच्छन्नं गृहीत्वा निजगृहं ययौ ।
बालकपिता च दुःखपूरिताङ्गो रुरोद सकुटुम्बः ।
तञ्च रुदन्तं दृष्ट्वा प्रतिवेश्मिको जगाद-रे त्वदीयः सुतो भूधरेण गृहीतः ।
ततो ऽसौ तद्गृहं गत्वा भूधरात्सुतं याचितवान् ।
भूधरेणोक्तम्-मित्र! त्वत्पुत्रो मत्संगे स्नानार्थे नदीतीरे गतस्तत्र श्येनेनापहृतः ।
इति श्रुत्वा तेन वणिजा राजकुले गत्वा पुत्रहरणवृत्तान्तो निवेदितः ।
भूधरो ऽपि राजकुलं ययौ ।
तत्कथय स बालहर्ता कथं मुच्यतामिति-प्रश्नः ।
शुकः यदा भूधरो राजसमक्षं मन्त्रिणा पृष्टस्तदा एवं जगाद-
तुलां लोहमयीं यत्र खादन्ते देव! मूषकाः ।
गजं तत्र हरेत् श्येनो दारके को ऽत्र विस्मयः ॥ सुक्_39.4 (=192) ॥
श्रुत्वैतद्वचनं मन्त्रिणोक्तम्-यदायं धूर्तस्तव तुलां समर्पयति तदा दारको ऽपि दातव्यो नान्यथा ।
तेन दारकः समर्पितः ।

तुलाग्राही दण्डितः सन् तुलां समर्पयामास ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ एकोनचत्वारिंशत्तमी कथा ॥
स्तर्त् सुक् 40:
अन्येद्युः सा प्रभावती गमनाय शुकं पृच्छति स्म ।
शुकः-
गच्छ त्वं गन्तुकामानां गमनं च शुभं भुवि ।
सुबिद्धिरिव चेद्वक्तुं विजानासि कृताकृताम् ॥ सुक्_40.1 (=193) ॥
प्रभावत्याह-कथमेतत्? शुकः-नगराभिघे पत्तने सुबुद्धि- कुबुद्धिश्चेति मित्रद्वयं जने प्रसिद्धम् ।
अन्यदा सुबुद्धिर्देशान्तरं ययौ ।
कुबुद्धिस्तु मित्रस्त्रियं ययौ ।
सुबुद्धिश्च धनमर्जयित्वा देशान्तरात्समागतः ।
ततः कुबुद्धिः सुबुद्धेः कपटस्नेहं दर्शयति ।
सुबुद्धिनापि सम्मानितः ।
कुबुद्धिस्तं प्रत्याह-भवता क्वापि किञ्चित्कौतुकं दृष्टम्? तेनोक्तम्-सरस्वतीनदीतीरे कूपमध्ये तरमाणमकालजमाम्रफलं दृष्टं मनोरमनामिनि ग्रामे ।
कुबुद्धिराह-मिथ्येदम् ।
सुबुद्धिराह-सत्यमेतत् ।
तेनोक्तम्-यदि सत्यं भवति तदा यदस्मद्गृहे द्वाभ्यां हस्ताभ्यां ग्रहीतुं शक्यते तत्त्वया ग्राह्यम् ।
अलीके त्वदीयगृहादहं गृह्णामि ।
इति पण्बन्धं कृत्वा कुबुद्धी रात्रौ कूपात्तत्फलं जग्राह ।
फलाभावे तु सुबुद्धिना हरितम् ।
अथ स तद्भार्यां ग्रहीतुकामः पणबन्धं याचते ।
तदत्र सुबुद्धिर्निजभार्यारक्षणे कमुपायं करोत्विति प्रश्नः ।
उत्तरं शुक आह-सुबुद्धिस्तं दुष्टाशयं ज्ञात्वा निजगृहवस्तुजातं निजकलत्रं च प्रासादोपरि क्षिप्त्वा ।
आरोहणिकां पातयामास ।
कुबुद्धिः समायातः ।
सुबुद्धिराह-एवं यद्रोचते तदस्मद्गृहाद् गृह्यताम् ।
स च कलत्राहरणाय निःश्रेणिकां द्वाभ्यां हस्ताभ्यां जग्राह ।
तदा सुबुद्धिनोक्तम्-मयैवं पूर्वं गदितञ्च यद् द्वाभ्यां हस्ताभ्यां ग्रहीष्यसे तव तदवे नान्यत् ।
ततः कुबुद्धिर्विलक्षो भूत्वा बहिर्ययौ ।
जनैश्च निन्दितः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ चत्वारिंशत्तमी कथा ॥
स्तर्त् सुक् 41:
अन्यदा वणिग्वधूः प्राह-कीर! यदि त्वं मन्यसे तदा गच्छामि ।
शुकः प्राह--
युक्तं ते गमनं देवि यदि तत्र गता सती ।
सङ्कटे खलु वेत्सि त्वं किञ्चिद्वक्तुं द्विजो यथा ॥ सुक्_41.1 (=194) ॥
प्रभावती प्राह-"कथमेतत्ऽ? शुकः-अस्ति पञ्चपुरं नाम नगरम् ।
तत्र शत्रुमर्दनो नाम राजा ।

मूल पाठ: Śukasaptati · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc