भाषा

ENहिગુ
ग्रंथ पाठ

शुकसप्तति · भाग 120

॥ श्रीः ॥
शुकसप्ततिः ॥
"विनोदिनीऽ संस्कृत-हिन्दी-व्याख्योपेता ॥
स्तर्त् सुक् 1:
प्रणम्य शारदां देवीं दिव्यविज्ञानशालिनीम् ।
वच्मि चेतोविनादार्थमुद्धारं कीरसम्मतेः ॥ सुक्_1.1 (=1) ॥
अस्ति चन्द्रपुरं नाम नगरम् ।
तत्र विक्रमसेनो नाम राजा बभूव ।
तस्मिन्नगरे हरिदत्तो नाम श्रेष्ठी तस्य भार्या शृङ्गरसुन्दरीनाम्नी ।
तत्पुत्रो मदनाविनोदनामा बभूव ।
तस्य पत्नी प्रभावती ।
सा सोमदत्तश्रेष्ठिनः कन्या ।
मदनविनोदस्तु अतीवविषयासक्तः कुपुत्रः पितुः शिक्षां न शृणोति ।
तस्य द्यूतमृगयावेश्यामद्यादिषु अतीव आसक्तिः ।
कुमार्गचारिणं तं कुपुत्रं दृष्ट्वा तत्पिता हरिदत्तः सपत्नीकः अतीव दुःखितः सञ्जातः ।
तं हरिदत्तं कुपुत्रदुःखेन पीडितं दृष्ट्वा तस्य सखा त्रिविक्रमनामा द्विजः स्वगृहतो नीतिनिपुणं शुकं सारिकां च गृहीत्वा तद्गृहे गत्वा प्राह-"सखे हरिदत्त! एनं शुकं सपत्नीकं पुत्रवत्त्वं परिपालय ।
एतत्संरक्षणेन तव दुःखं दूरीभविष्यतिऽ ।
हरिदत्तस्तु तं शुकं गृहीत्वा पुत्राय समर्पयामास ।
मदनविनोदेन शयनमन्दिरे स्वर्णपञ्जरस्थः स्थापितः परिपोषितश्च ।
अथैकदा रहसि शुको मदनं प्राह-
हे सखे!
पित्रोस्ते दुःखिनोर्दुःखात्पतत्यश्रुचयो भुवि ।
तेन पापेन ते वत्स पतनं देवशर्मवत् ॥ सुक्_1.2 (=2) ॥
स प्राह-"कथमेतत्?ऽ शुक आह-अस्ति पञ्चपुरं नाम नगरम् ।
तत्र सत्यशर्मा ब्राह्मणः ।
तद्भार्या धर्मशीलानाम्नी पुत्रस्तु देवशर्मा ।
स च अधीतविद्यः पितृप्रच्छन्नवृत्त्या देशान्तरं गत्वा भागीरथीतीरे तपः कृतवान् ।
एकदा स तपस्वी गङ्गातीरे जपार्थमुपविष्टः ।
तस्मिन्काले कयाचित् बलाकया उड्डीयमानया तदङ्गोपरि पुरीषोत्सर्गः कृतः ।
स च तपस्वी क्रोधाकुलितनेत्रः यावदूर्ध्वं पश्यति तावत्तत्क्रोधाग्निना भस्मीभूतां बलाकां भूमौ पतितां दृष्ट्वा [बलाकां दग्ध्वा] नारायणद्विजगृहे भिक्षार्थं ययौ ।
स्वभर्तृशुश्रूषापरया तत्पत्न्या कोपाभिविष्टो निर्भर्त्सितः सत्पक्षिहायमुक्तश्च- "नाहं बलाकेव त्वत्कोपस्थानम्ऽ ।
स च प्रच्छन्नपातकज्ञानाद्भीतो विस्मितश्च, प्रेषितश्च तया धर्मव्याधपार्श्व वारणसीं नगरीं ययौ ।
तत्र रक्ताक्तहस्तं यमप्रतिभं मांसविक्रयं विदधानं तं दृष्ट्वा दृशामन्तःस्थितः ।
व्याधेन स्वागतप्रश्नपूर्वकं स्वगृहं नीत्वा निजपितरौ सभक्तिकं भोजयित्वा पश्चात्तस्य भोजनं दत्तम् ।
तदनन्तरं स च व्याधं ज्ञानकारणं पप्रच्छ-"कथं सती ज्ञानवती, कथं च त्वं ज्ञानवान्ऽ ।
तेन व्याधेनोक्तम्-
निजान्वयप्रणीतं यः सम्यग्धर्मं निषेवते ।
उत्तमाधममध्येषु विकारेषु पराङ्मुखः ॥ सुक्_1.3 (=3) ॥
स गृही स मुनिः साधुः स च योगी स धार्मिकः ।
पितृशुश्रूषको नित्यं जन्तुः साधारणश्च यः ॥ सुक्_1.4 (=4) ॥

अहं सापि च एवं ज्ञानिनौ त्वं च निजपितरौ परित्यज्य भ्रमन्मादृशां न सम्भाषणार्हः ।
परमतिथिं मत्वा जल्पितः ।
एवमुक्तः स ब्राह्मणो विनयपरं व्याधं पप्रच्छ ।
तेनोक्तम्-
न पूजयन्ति ये पूज्यान्मान्यान्न मानयन्ति ये ।
जीवन्ति निन्द्यमानास्ते मृताः स्वर्गं न यान्ति च ॥ सुक्_1.5 (=5) ॥
व्याधेन बोधितस्तेन स ययौ गृहमात्मनः ।
अभवत्कीर्तिमांल्लोके परतः कीर्तिभाजनम् ॥ सुक्_1.6 (=6) ॥
तस्माद्वणिग्धर्मं स्वकुलोद्भवं स्मर पित्रोश्च विनयपरो भवऽ ।
एवमुक्तः स मदनः पितरौ नमस्कृत्य तदनुज्ञातो भार्याञ्चापृच्छ्यप्रवहणमधिरूढंवान् गतो देशान्तरम् ।
पश्चात्तत्पत्नी कतिचिद्दिनानि शोकयुक्ता निर्वाह्य स्वैरिणीभिः सखीभिः प्रतिबोधिता पुरुषान्तराभिलाषुकाभवत् ।
यतस्ताभिरेवमुक्तम्-
तावत्पिता तथा बन्धुर्यावज्जीवति मानवः ।
मृतो मृत इति ज्ञात्वा क्षणात्स्नेहो निवर्तते ॥ सुक्_1.7 (=7) ॥
अतस्त्वं स्वपतिमप्राप्यमाणा निजशरीरस्य कतिचिद्दिनस्थायियौवनस्य पुरुषान्तररमणाद् गृहाण फलम् ।
ततस्तासां वचनेन पुरुषान्तरस्य गुणचन्द्रसंज्ञस्य रमणाय शृङ्गारं विधाय यावत्प्रचलिता तावत्सारिकया मा गच्छेत्यादिवचनैर्निर्भर्त्सिता ।
ततो यावत्सा तां सारिकां गलमोटनपूर्वं विनाशयति तावदुड्डीय ययौ ।
ततः क्षणं स्थित्वा स्वेष्टदेवतां हृदि स्मृत्वा ताम्बूलं प्रगृह्य यावच्चलिता तावत् शुकः प्राह-"सिद्धिरस्तु ।
क्व गन्तव्यम्ऽ, इत्यादिवाक्यैः पृष्टा ।
सा च शुकवचनं शकुनमिति कृत्वा प्रहस्य तमाह-"हे शुकराज! नरान्तरास्वादं विज्ञातुं प्रचलितास्मिऽ ।
शुक उवाच- "युक्तमिदं कर्त्तव्यमेव परं दुष्करं निन्दितं च कुलस्त्रीणाम् ।
किञ्च, तदा गम्यता यदि विपरीते समायाते सति तव बुद्धिरस्ति ।
यदि नास्ति तदा पराभवपदं भविष्यसि ।
यतः-
कौतुकान्वेषिणो नित्यं दुर्जना व्यसनागमे ।
मासोपवासिनी यद्वद्वणिक्पुत्रकचग्रहे ॥ सुक्_1.8 (=8) ॥
पप्रच्छ सा तदा सार्धं पुंश्चलीभिः कृतादरा ।
ससम्भ्रमा जगादेदं किमिदं भाषितं शुकः ॥ सुक्_1.9 (=9) ॥
यदि ते कौतुकं सुभ्रु परार्थं गच्छ सुन्दरि ।
स्थिरीभूय त्वया पश्चात् श्राव्येयं महती कथा ॥ सुक्_1.10 (=10) ॥
एवं शुकोक्तं श्रुत्वा यदा सा कौतुकाकुलचेतसा निजगृह आसीनास्ति तदा शुकः कथां प्राह- अस्ति चन्द्रावती पुरो ।
तस्यां भीमनामा नृपः ।
तत्र सुधनो नाम मोहनश्रेष्ठिसुतः तन्नगरवासिनो हरिदत्तस्य कलत्रं लक्ष्मीं रन्तुमीहते ।
तद्वत्सा न मन्यते ।
ततो मासोपवासिनीं पूर्णाभिधानां गत्वा पूर्णधनावर्जितां कृत्वा हरिदत्ते नगराद्बहिर्गते तद्गृहे दूतीत्वेन प्रेषयामास ।
सापि चाटूक्तिभिर्लक्ष्मीं प्रसादयामास ।
प्रसन्नया च तयेत्युक्तम्- "यत्त्वं याचसे तत्करोमि" ।
पूर्णयोक्तम्- "तर्हि मन्मतं नरं भज" ।
तयोक्तम्- "कुलस्त्रीणां नैतद्युज्यते परं यत्तवाग्रे प्रतिपन्नं तत्करोमिऽ ।
उक्तञ्च-

छिज्जौ सीसं अह होउ बन्धणं चऔ सव्वहा लच्छी ।
पडिवण्णपालणे सुपुरिसाणं जं होउ तं होउ ॥ सुक्_1.11 (=11) ॥
[शीर्ष छिद्यताम् अथ भवतु बन्धनं चलतु सवथा लक्ष्मीः ।
प्रतिपन्नपालने सुपुरुषाणां यद् भवतु तद् भवतु] ॥ सुक्_1.11* (=11*) ॥
तथाच
दिढलोहसिंखलाणं अस्साण विविहपासबन्धाणं ।
ताणं चिअ अहिअरअरो वाआबन्धो सुपुरिसस्स ॥ सुक्_1.12 (=12) ॥
[दृढलोहशृङ्खलानां भवतु विवधपाशबन्धनम् ।
ताभ्यामपि अधिकतरो वाचाबन्धः सुपुरुषस्य] ॥ सुक्_1.12* (=12*) ॥
अद्यापि नोज्झति हरः किल कालकूटं, कूर्मो बिभर्ति धरणीं खलु चात्मपृष्ठे ।
अम्भोनिधिर्वहति दुःसहवाडवाग्निमङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ सुक्_1.13 (=13) ॥
तच्छ्रुत्वा हृष्टा पूर्णा ।
"एवमेवैतत्ऽ ।
ततस्तां लक्ष्मीं प्रतिविधाय गुणमोहनार्थे प्रदोषे स्वगृहे निनाय ।
ततः स मोहनः कथितवेलोपरि नागतः किञ्चित्कार्यादिवैयग्र्येण ।
ततो लक्ष्म्या सकामयोक्तम्- "यत्कमपि नरं समानयऽ ।
ततः पूर्णया मूढया तत्पतिरेव समानीतः ।
स्वभर्तरि समायाते सा कथं भवत्विति कथं गृहं यात्विति त्वं सख्यस्तव वा कथयन्तु ।
ता आहुः- "न जानीमः ।
त्वमेव कथयऽ ।
शुक आह- "यदि न यासि तदा कथयामिऽ ।
तयोक्तम्-- "न यास्यामिऽ ।
शुकः-सा आगच्छन्नेव स्वपतिरिति ज्ञात्वा तं कचग्रहं प्रगृह्यैवमुवाच-हे शठ! सर्वदा त्वमिति ममाग्रे जल्पसि यन्मे त्वां विना नान्या वल्लभा अस्ति ।
अधुना तु मया परीक्षितो ज्ञातश्चेति कोपं चक्रेऽ ।
स च तां कष्टेन सुकोमलवचनैरनुनीय स्वगृहं निन्ये ।
कथां श्रुत्वा शुकेनोक्तां भयविस्मयकारिणीम् ।
पुंश्चलीवृन्दसंयुक्ता सुप्ता रात्रौ वणिक्प्रिया ॥ सुक्_1.14 (=14) ॥
इति शुकसप्ततौ प्रथमा कथा ॥
स्तर्त् सुक् 2:
सा तथैव समं ताभिर्द्वितीयो ऽह्नि निशामुखे ।
शुकमापृच्छ्य चलिता शुकस्तामिदमब्रवीत् ॥ सुक्_2.1 (=15) ॥
यथेष्टं गच्छ सुश्रोणि यदि जानासि दुःकृते ।
प्रत्युत्तरं समायाते यशोदेवीव सङ्कटे ॥ सुक्_2.2 (=16) ॥
ततः प्रभावतो पृच्छति- "का यशोदेवी ।
कदा कस्मिन्सङ्कटे तया क उपायः कृतऽ इति ।
शुकः- "यदा कथयामि तदा मयि सुरतविघातेन तव कोपः प्राणनिषूदनः स्यात्ऽ ।
सा आह- "सुहृदां साध्वसाध्वपि श्रोतव्यमेवऽ इत्यनुज्ञातः शुकः आह- अस्ति नन्दनं नाम नगरम् ।
तत्र नन्दनो नाम राजा ।
तत्पुत्रो राजशेखरः ।
तद्वधूः शशिप्रभा ।

तां धनसेनसुतो वीरनामा दृष्ट्वा सकामः सन् ज्वरपीडितो ऽभूत् ।
भोजनादि न विधत्ते ।
स च मात्रा यशोदेव्या पृष्टः सन्सगद्गदं कारणमाह- "सा च राजकन्या दुर्लभा ।
स कथं जीवतुऽ इति प्रश्नः ।
तयोक्तम्- "त्वमेव कथयऽ ।
शुकः-यदि प्रभावति! अद्य न यासि तदा कथयामि, इत्युक्ते सा आह- "कथयेतिऽ ।
अथ शुकः-सा यशोदेवी एकां शुनीं भोजनाद्यैरावर्जयित्वा आभरणानि परिधायात्मना सार्धं गृहीत्वा शशिप्रभापार्श्वे गत्वा तां विजने सगद्गदा जगाद-अहं च त्वं च इयं च पूर्वभवे भगिन्यो ऽभूवन् ।
मया निःशङ्कया त्वया तु सशङ्कया परनराभिलाषः पूरितः ।
अनया तु नैव ।
अतो ऽस्याः शीलप्रभावात्केवलं जातिस्मरणमेव न भोगाः शुनिका च सञ्जाता ।
सम्भोगविघ्नाज्जातिस्मरणं च न ते वर्तते ।
मम पुनर्भोगान्निर्विघ्नान्निर्विघ्नजातिस्मरणं च ।
अतो ऽहमनुकम्पया इमां शुनकीं त्वां च दृष्ट्वा कथयितुमागता ।
अतस्त्वयार्थिनां काङ्क्षितं दातव्यमेव ।
यो दानं कुर्यात्स भवेत्सर्वसम्पदां स्थानम् ।
उक्तञ्च--
कथयन्ति न याचन्ते भिक्षाहारा गृहे गृहे ।
अर्थिभ्यो दीयतां नित्यमदातुः फलमीदृशम् ॥ सुक्_2.3 (=17) ॥
ततः शशिप्रभा सकण्ठग्राहं रुदित्वा प्राह-- "मामपि कल्याणि! पुरुषान्तरेण योजयऽ ।
ततो यशोदेवी तां स्वस्थीकृत्य भर्तृविदितां स्वगृहं नीत्वा स्वपुत्रेण योजयामास ।
स च राजशेखरो द्रव्यादिदानतोषितः सखीयमिति कृत्वा न निवारयामास ।
राजपुत्रं राजपुत्रीं प्रतार्यैवं च भामिनि ।
यशोदेव्या महद्बुद्ध्य निजकार्यमनुष्ठितम् ॥ सुक्_2.4 (=18) ॥
बुद्धिरस्ति यदैषा ते व्रज सुभ्रु परान्तिकम् ।
भज निद्रां विशालाक्षि मान्यथा स्वं विडम्बय ॥ सुक्_2.5 (=19) ॥
इति शुककथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ द्वितीया कथा ॥
स्तर्त् सुक् 3:
अथान्यदिने प्रभावती शुकं पृच्छति ।
शुकः-
गच्छ देव किमाश्चर्यं यत्र ते रमते मनः ।
नृपवद्यदि जानासि परित्राणं त्वमात्मनः ॥ सुक्_3.1 (=20) ॥
प्रभावती पृच्छति-कथमेतत् ।
शुकः कथयति-अस्ति विशाला नगरी ।
तत्र सुदर्शनो राजा ।
तत्र च विमलो नाम वणिक् ।
तस्य च पत्नीद्वयं सुभगं रूपसम्पन्नं दृष्ट्वा कुटिलनामा धूर्तस्तद्भार्याद्वयग्रहणेच्छया अम्बिकां देवीमाराध्य विमलरूपं ययाचे ।
लब्ध्वा च तत्प्रकृतिं विमले बहिर्गते तद्गृहं गत्वा प्रभुत्वं चकार ।
प्रसादधनदानैर्वशीकृतो ऽखिलो ऽपि परिजनवर्गः ।
तद्भार्याद्वयं बहुमानदानादिना सन्तोष्य स्वेच्छया भुङ्क्ते ।

विमलो ऽयं धनाद्यनित्यतां श्रुत्वा दाता बभूवेति परिजनो ऽनवरतं चिन्तयति ।
अथ सत्यविमलो ऽपि द्वारमागतः कुटिलाज्ञया द्वारपालेन निषिद्धः ।
ततो बहिःस्थः फुत्करोति "वञ्चितो ऽहं धूर्तराजेनऽ ।
तस्य चैवं क्रन्दतो गोत्रजा जनाः कौतुकाच्च मिलिताः ।
तत्क्षणात् हट्टानि मुक्त्वा वणिक्सार्थो मिलित्वा आरक्षिकमन्त्रिमुख्यानां पुरतः फूच्चक्रे ।
"राजन्वञ्चितो ऽस्मि धूर्तराजेनऽ ।
ततो राज्ञा तदवलोकनाय प्रहिताः पुरुषाः ।
तेनापि ते द्रव्यादिदानेन सानुकूलाः कृताः ।
तं धनदायकं गृहे दृष्ट्वा जनो वदति-"स्वामिन्विमलो गृहे विद्यते ।
अयं च धूर्तराट् द्वारस्थःऽ ।
ततो नृपेण द्वावप्येकत्र कृतौ ।
ततो द्वयोर्मध्यान्न को ऽपि धूर्तेतरयोर्व्यक्तिं जानाति ।
जातः कोलाहलो ऽखिललोकव्यवहारनाशकरो राज्ञश्चपवादः ।
यतो राज्ञां दुष्टनिग्रहः शिष्टपालनं च स्वर्गाय ।
उक्तञ्च-
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ सुक्_3.2 (=21) ॥
ततो राजा एकान्ते तयोर्निर्णयमचिन्तयत् ।
तत्कथय कथं निश्चयः स्यादिति प्रश्नः ।
शुकः-स राजा लब्धोपायस्तद्विमलभार्याद्वयं पृथक्पृथक्संस्थाप्य पृष्टवान्-"किं युवयोः पाणिग्रहणे भर्त्रा विभूषणं प्रदत्तं धनं च ।
पश्चात्किं जल्पितं प्रथमसङ्गेन च का वार्त्ता भर्त्रा सहाभूत् ।
का माता कश्च पिता ।
किं कुलम् ।
का जातिःऽ ।
इत्येवं पृष्टाभ्यां यथालब्धं यथावृत्तं यथाप्रोक्तं यथासुप्तं सर्वं ताभ्यां कथितम् ।
पश्चातु तौ पुरुषौ पृष्टौ परस्परं विसंवदन्तौ ।
ततो भार्याद्वयस्य रुक्मिणीसुन्दरीनामधेयस्य यः संवादं वदति स सत्यः ।
इतरस्तु धूर्तो राज्ञा निर्वासितः ।
सत्यस्तु राज्ञा सभार्यः सस्कृतः स्वगृहं गतः ।
इति महाराजबुद्धिः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ॥
इति शुकसप्ततौ तृतीया कथा ॥
स्तर्त् सुक् 4 :
अथान्यदा प्रभावती शुकं पृच्छति ।
शुकः-"मां कृतावज्ञं कृत्वा मा गच्छ ।
यतो बालकादपि हितं वाक्यं ग्राह्यम् ।
कृतावज्ञः पुरा देवि वृद्धवाक्यपराङ्मुखः ।
पतितो ब्राह्मणो ऽनर्थे विषकन्याविवाहने ॥ सुक्_4.1 (=22) ॥
प्रभावती पृच्छति-"कथमेतत्" ।
शुकः-अस्ति सोमप्रभं नाम द्विजस्थानम् ।

तत्र विद्वान्धार्मिकः सोमशर्मा नाम विप्रः ।
तत्पुत्री रूपौदार्यगुणोपेता विषकन्येति विज्ञाताभूत् ।
तेन तां भयेन को ऽपि न विवाहयति ।
ततः सोमशर्मा वरार्थं भुवं पर्यटन् सम्प्राप्तो द्विजस्थानं जनस्थान नाम ।
तत्र गोविन्दनामा ब्राह्मणो जडो निर्धनश्च ।
तस्मै कन्या प्रदत्ता ।
तेन सुहृदां निवारयतामपि कृतावज्ञेनोढा सर्वरूपलावण्यगुणोपेता मोहिनी विषकन्या ।
सा विदग्धा गोविन्दस्तु मूर्खः लघुवयाश्च ।
ततश्च सा आत्मनो रूपलावण्ययौवनं शुशोच ।
अविदग्धः पतिः स्त्रीणां, प्रौढानां नायको ऽगुणी ।
गुणिनां त्यागिनां स्तोको विभवश्चेति दुःखकृत् ॥ सुक्_4.2 (=23) ॥
पाउससमअपवासो जोव्वणदिअहे तहा अ दालिद्दं ।
पढमसिणेहविओओ तिणि वि गरुआइदुक्खाइं ॥ सुक्_4.3 (=24) ॥
[प्रवृट्समयप्रवासो यौवनदिवसे तथा च दारिद्र्यम् ।
प्रथमस्नेहवियोगस्त्रीण्यपि गुरुकाणि दुःखानि] ॥ सुक्_4.24* (=24*) ॥
अप्पत्थावे पढिअं कण्ठविहूणं च गाइअं गीअं ।
मा मा भणन्ति सुरअं तिणि वि गरुआइ दुक्खाइं ॥ सुक्_4.4 (=25) ॥
[अप्रस्तावे पठितं कण्ठविहीनं च गायनं गीतम् ।
मा मा भणन्त्यां सुरतं त्रीण्यपि गुरुकाणि दुःखानि] ॥ सुक्_4.4* (=25*) ॥
सान्यदा गोविन्दं पतिमित्यब्रवीत्-"मम पितुर्गेहात्समागताया बहूनि दिनानि सञ्जातानि ।
ततो ऽहं त्वयैव सह गमिष्ये नान्यथाऽ ।
ततः शकटं मार्गयित्वा सभार्यकः स चलितः ।
यावत्प्रयाति तावत्पथि एको युवा वाग्ग्मी सुरूपः शूरश्च विष्णुनामा ब्राह्मणो मिलितः ।
तस्य ब्राह्मणस्य तस्याश्चान्योन्मनुरागः सञ्जातः ।
उक्तञ्च- प्रीतिः स्याद्दर्शनाद्यैः प्रथममथ मनःसङ्गसङ्कल्पभावो, निद्राछेदस्तनुत्वं वपुषि कलुषता चेन्द्रियाणां निवृत्तिः ।
ह्रीनाशोन्मादमूर्च्छामरणमिति जगद्यात्यवस्था देशैताः, लग्नैर्यत्पुष्पबाणैः स जयति मदनः सन्निरस्तान्यधन्वी ॥ सुक्_4.5 (=26) ॥
स पथिको दम्पत्योः पूगपत्रोच्चयं ददाति ।
इत्येवं ग्राम्यब्राह्मणोरोहविष्णोर्विश्वस्तः आत्मनो निरोधसङ्गभयादुत्तीर्य त गन्त्रीवाहमारोहयति ।
विष्णुना च पत्यौ वृक्षान्तरगते सा मोहिनो भुक्ता आत्मवशीकृता ।
तया चात्मीयं नाम गोत्रं कुलक्रमं चाज्ञापितः ।
पत्युश्च समागतस्य "त्वं चोरो ऽसीतिऽ गन्त्र्यारोहणं कुवतो निषेधः कृतः ।
विष्णुरपि तां कृहीत्वा गोविन्दं धर्षितवान् ।
ततस्तयोः केशाकेशि संवृत्तम् ।
गोविन्दस्तु विष्णुना विषकन्याप्रभावेण निर्जितः ।
ततस्तां गृहीत्वा विष्णुः स्वगृहं प्रतिचलितः ।
गोविन्दः पृष्ठस्थो मार्गासन्ने ग्रामे गत्वा फूत्कृतवान्-"यदनेन चौरेण मम भार्या गृहीता ।
त्रायतां ताम् ।
मम शरणं भो जनाःऽ ।
अथ ग्रामाधिपेन विष्णुर्मोहिनीयुतो धृतः ।
पृष्टेनोत्तरं दत्तं विष्णुना यथेयं मया परिणीता ।

मदीयां च भार्यामेष पथिको मार्गे दृष्ट्वा ग्रहिलो बभूव ।
गोविन्देनापि पृष्टेन इदमेवोत्तरितम् ।
ततो मन्त्री तयोरेकमेवोत्तरं श्रत्वा जात्यादिकं पृष्टवान् ।
त्रयमपि तु संवदति ततः कथं निश्चयः" ।
इति शुकप्रश्नः ।
ततस्तया पृष्टः शुक आह-मन्त्रिणोक्तम्, "कियन्ति दिनानि सङ्गमस्य युष्माकं प्रयाणे" ।
तैरुक्तम्-"कल्ये भोजनान्तरं संवृत्तः समागमःऽ ।
ततो मन्त्रिणा ब्राह्मणौ पृथक्पृथक्पृष्टौ-"किमनया कल्ये भोजनवेलायां भुक्तम्ऽ ।
यच्च तया भुक्तं तद्गोविन्दो जानाति इतरस्तु न ।
ततः स विडम्बितः सचिवेन ।
गोनिन्दः शिक्षितः ।
धिगिमां ब्राह्मणीं परत्रेह च दुःखदां मुञ्च शीघ्रम् ।
उक्तञ्च-
वैद्यं पानरतं नटं कुपठितं मूर्खं परिव्राजकं योधं कापुरुषं विटं विवयसं स्वाध्यायहीनं द्विजम् ।
राज्यं बालनरेन्द्रमन्त्रिरहितं मित्रं छलान्वेषि च भार्यां यौवनगर्वितां पररतां मुञ्चन्ति ये पण्डिताः ॥ सुक्_4.6 (=27) ॥
तथापि कामिनीलुब्धो धिक्कृतः साधुभिस्तदा ।
तामेवादाय चलितस्तत्कृते निहतः पथि ॥ सुक्_4.7 (=28) ॥
तद्देवि यः करोत्येवमवज्ञां वृद्धशिक्षितः ।
स पराभवमाप्नोति गोविन्दो ब्राह्मणो यथा ॥ सुक्_4.8 (=29) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ॥
इति शुकसप्ततौ चतुर्थो कथा ॥
स्तर्त् सुक् 5:
पुनरन्यदिने सा गमनाय शुकं पृच्छति ।
शुकः-
गच्छ देवि विजानासि यदि कर्तुं त्वमुत्तरम् ।
सभायां नृपतेर्यद्वद्विषमे बालपण्डिता ॥ सुक्_5.1 (=30) ॥
प्रभावतीपृष्टः शुकः कथां प्राह-अस्ति उज्जयिनी नाम नगरी ।
तत्र विक्रमादित्यो राजा ।
तस्य राज्ञो कामलीला नाम उत्तमकुले जाता ।
सा च राज्ञो ऽतीव वल्लभा ।
एकदा नृपस्तया सार्धं भोजनं कुर्वन्भृष्टमत्स्यांस्तस्यै दापयामास ।
सा आह-स्वामिन्! नाहमेतान्पुरुषानवलोकयितुमपि समर्था किं पुनः स्पर्शनम् ।
इति शृत्वा मत्स्या अट्टहासेन तथा जहसुर्यथा नागरिकलोके श्रुतम् ।
राजा च तन्मत्स्यहास्यकारणं मन्त्रिज्योतिर्विच्छाकुनिककोविदान्पृचछति ।
यदा न को ऽपि जानाति तदा सर्वद्विजाग्रेसरं पुरोहितं प्राह-यथा त्वयैव मत्स्यहास्यकारणं कथनीयमन्यथात्वं देशान्निर्वासं प्राप्नोषि ।
पुरोधा अप्येतद्वचः श्रुत्वा दिनपञ्चकं व्यवधाने याचयित्वा सविषादो गृहमगमत् ।
स पुरोहितः तदुत्तरमजानन्पुरस्ताद्राज्ञा निर्वास्यते ।
स कथं भवत्विति प्रश्नः ।
उत्तरमप्याह शुकः-स ब्राह्मणो विषादापन्नः पुत्र्या बालपण्डितया बभाषे, तात! कथमुद्विग्नचित्त इव लक्ष्यसे ।
कथय विषादस्य कारणम् ।

विद्वद्भिर्विपद्यप्युच्चैः स्थातव्यम् ।
उक्तञ्च-
सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् ।
तं भुवनत्रयतिलकं जननी जनयति सुतं विरलम् ॥ सुक्_5.2 (=31) ॥
ततो ब्राह्मणो ऽविरलं वृत्तान्तमाचष्टे अनेन कारणेन राजा मां नागरान्निर्वासयति ।
यतः-
न सौहृदं न विश्वासो न स्नेहो न च बन्धुता ।
केनापि सह संसारे कुतो राज्ञा छलार्थिना ॥ सुक्_5.3 (=32) ॥
उक्तञ्च-
काके शौचं द्यूतकारे च सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ सुक्_5.4 (=33) ॥
किञ्च- नदीनां नखिनाञ्चैव शृङ्गिणां शस्त्रपाणिनाम् ।
विश्वासो नैव कर्तव्यः श्त्रीषु राजकुलेषु च ॥ सुक्_5.5 (=34) ॥
भोगिनः कञ्चुकासक्ताः क्रूराः कुटिलगमिनः ।
दुःखोपसर्पणीयाश्च राजानो भुजगा इव ॥ सुक्_5.6 (=35) ॥
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ।
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ॥ सुक्_5.7 (=36) ॥
एष राजा आ बाल्यात्सेवितो ऽपि मयि विपरीतो बभूव ।
तस्मान्मया जीवितुमिच्छता द्विजैः सह परदेशं गन्तव्यम् ।
उक्तञ्च-
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ सुक्_5.8 (=37) ॥
ततः सा बालिका तातवचनं श्रुत्वा प्राह-तात! त्वया युक्तमुक्तम् ।
परं स्वामिरहितानां न क्वापि पूजा ।
यत उक्तम्-
अप्रधानः प्रधानः स्याद्यदि सेवेत पार्थिवम् ।
प्रधानो ऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः ॥ सुक्_5.9 (=38) ॥
आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा ।
प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो भवति तं परिवेष्टयन्ति ॥ सुक्_5.10 (=39) ॥
आरोहन्ति शनैर्मृत्या धुन्वन्तमपि पार्थिवम् ।
कोपप्रसादवस्तूनां विचिन्वन्ति समीपगाः ॥ सुक्_5.11 (=40) ॥
तथा च-
विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् ।
सेवावृत्तिविदाञ्चैव नाश्रयः पार्थिवं विना ॥ सुक्_5.12 (=41) ॥
ये जात्यादिमहोत्साहा नोपगच्छन्ति पार्थिवम् ।
तेषामामरणं भिक्षा प्रायाश्चित्तं विनिर्मितम् ॥ सुक्_5.13 (=42) ॥
रोगैर्ग्रहैर्नृपर्ग्रैस्तो यो न वेत्ति जडक्रियः ।
मध्यमन्त्रमुपायं च सो ऽवश्यं तात न स्थिरः ॥ सुक्_5.14 (=43) ॥
उक्तञ्च-
सर्पान्व्याघ्रान् गजान्सिंहान्दृष्ट्वोपायैर्वशीकृतान् ।

राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ सुक्_5.15 (=44) ॥
तथा च-
राजानमेव संश्रित्य विद्वान्याति परोन्नतिम् ।
विना मलयमन्यत्र चन्दनं न विवर्धते ॥ सुक्_5.16 (=45) ॥
धवलान्यातपत्राणि वाजिनश्च मनोरमाः ।
सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥ सुक्_5.17 (=46) ॥
तस्मात्तात्, त्वं राज्ञा मान्यः प्रसादपात्रञ्च ।
ततः सन्देहे ऽस्मिन्मा विषादीभव ।
यतः-
राजग्रहे समायाते विषमे कार्यसंशये ।
सन्दिग्धमनसां राज्ञां प्रधानाः संशयच्छिदः ॥ सुक्_5.18 (=47) ॥
ततो हे तात! स्थिरीभव ।
मत्स्यहसनोत्तरं राज्ञः पुरतो मयाभिधेयमिति ।
स्नाहि भुङ्क्ष्व ।
ततः स एवं कृत्वा राज्ञो ऽग्रतो गत्वा सर्वं निवेदयामास ।
नृपो ऽपि तुष्टस्तामाजुहाव ।
सा आशीर्वादं दत्त्वा राजानमब्रवीत्-राजन्मा मुधा विप्रान्विडम्बय ।
किं त्वया एवंविधं मत्स्यानां हास्यं दृष्टं श्रुतं वा ।
कथं मामबलाजन पृच्छन्न विलज्जसे ।
यतः- इतरो ऽपि न सामान्यो नृपतिर्दिव्यरूपभृत् ।
त्वं पुनर्विक्रमादित्यो यथार्थो ऽसि परन्तप ॥ सुक्_5.19 (=48) ॥
उक्तञ्च-
इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं क्रोधं यमाद्वैश्रवणाच्च वित्तम् ।
सत्त्वस्थिते रामजनार्दनाभ्यामादाय राज्ञः क्रियते शरीरम् ॥ सुक्_5.20 (=49) ॥
तथा च भारते-
मा वृकोदर पादेन एकादशचमूपतिम् ।
पञ्चनामपि यो भर्त्ता नासाप्रकृतिमानवी <1> <1. `मानिनाऽ इति पा-> ॥ सुक्_5.21 (=50) ॥
स्वामिन्कथं न त्वं स्वयमेव विचारयसि ।
यतस्त्वमेव सर्वसंशयच्छेत्ता ।
अथान्येभ्यश्चेत् श्रोतुं कौतुकं तर्हि शृणु ।
इयं राज्ञी न स्पृशति ह्यस्मान्मत्स्यान्महासती ।
पुरुषाख्यानतो राजन् हसिताः शफरा ध्रुवम् ॥ सुक्_5.22 (=51) ॥
परिभाव्यस्त्वया राजन् श्लोकार्थो ऽयं सदा हृदि ।
मूढधीरन्यथा देव यदि पृच्छसि मां पुनः ॥ सुक्_5.23 (=52) ॥
राजन्राजपत्न्याः सूर्यमपश्यन्त्यास्तत्कथमसतीत्वशङ्का स्यात् ।
श्लोकार्थे प्रस्तुतार्थे च मत्स्यानां हसनं बुधाः ।
सनृपा न विजानन्ति अपि सर्वार्थकोविदाः ॥ सुक्_5.24 (=53) ॥
ततः सदो मूढं दृष्ट्वा बालपण्डिता उत्थाय ययौ ।
शुको ऽप्याह-अहं प्रातः कथयिष्ये ।
इति कीरोक्तिं श्रुत्वा प्रभावती सुप्ता ॥

इति शुकसप्ततौ पञ्चमी कथा ॥
स्तर्त् सुक् 6:
अथापरस्मिन्दिवसे प्रभावती शुकं प्राह-
शुक! स मत्स्यहास्यव्यतिकरो राज्ञा ज्ञातो न वेति ।
शुक आह- नृपः श्लोकार्थमजानन्न निद्रां लेभे ।
उक्तञ्च-
निद्रा भद्रे कुतस्तेषां ये ऋणव्याधिपीडिताः ।
अविधेयकलत्राश्च ये चान्ये कृतवैरिणः ॥ सुक्_6.1 (=54) ॥
राजा निद्राभावे कष्टेन निशां नीत्वा प्रातर्बालपण्डितामाकार्य प्राह-बालिके! श्लोकार्थो न ज्ञातो मया ।
तस्मान्मत्स्यहास्यकारणे निवेदय ।
सा आह-राजन्मां मा पृच्छ ।
यतः-
पश्चात्तापो ऽत्र भविता भार्याया वणिजो यथा ।
आग्रहेण कृतः पत्यौ मण्डकागमनं प्रति ॥ सुक्_6.2 (=55) ॥
राजा-कथमेतत् ।
शुकः-अस्त्यत्र जयन्ती नाम नगरी ।
तत्र वणिकसुतः सुमतिर्नाम तस्य प्रिया पद्मिनी नाम ।
तस्य च वणिजः पुण्यक्षयाद्धनं क्षीणम् ।
स च जनैः परित्यक्तः ।
यतो जनो धनमित्रः ।
उक्तञ्च-
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः ॥ सुक्_6.3 (=56) ॥
तथा च भारते-
जीवन्तो ऽपि मृताः पञ्च श्रूयन्ते किल भारत ।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ सुक्_6.4 (=57) ॥
तथा च-
इह लोके हि धनिनां परो ऽपि स्वजनायते ।
स्वजनो ऽपि द्ररिद्राणां तत्क्षणाद्दुर्जनायते ॥ सुक्_6.5 (=58) ॥
सो ऽपि च तृणकाष्ठादिकमानीय पुरीमध्ये विक्रीणाति ।
अन्यदा अनेन तृणकाष्ठादिकं किमपि वने न प्राप्तम् ।
दृढकाष्ठमयो ऽपि विघ्नविनायकः प्राप्तः ।
ततश्चिन्तितम्-किमसौ मम विधास्यति? उक्तञ्च-
बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ।
प्राणार्थमेते हि समाचरन्ति मतं सतां यन्न मतं तदेषाम् ॥ सुक्_6.6 (=59) ॥
यावत्स तस्य विनायकस्य पाटनायोत्तिष्ठति तावत्तुष्टः सन् जगाद-अहं तव प्रतिदिनं पञ्च पञ्च मण्डकान्दास्ये खण्डघृतयुतान् ।
ममालये प्रातर्यायाः ।
परं कस्यापि इदं रहस्यं न कथनीयम् ।
कथिते तु मद्वचो वितथं भविष्यति ।
सो ऽपि च "तथेऽति प्रतिपाद्य नित्यं मण्डकपञ्चकं भार्याया अर्पयति ।

तद्दैवं मण्डकपञ्चकं घृतखण्डयुक्तमादाय तद्भार्या निजकुटुम्बं तृप्तीकरोति ।
नित्यं च तान्मण्डकान् गोत्रिणां गृहे वाहयामास ।
निजसख्या मन्दोदर्यास्तृप्त्यर्थं नित्यं प्राहिणोत् ।
अन्यदा सा सखी तां पप्रच्छ ।
पद्मिन्यपि मण्डकागमनमिदं न जानाति ।
ततस्तस्याः पुरा सा सखी कपटाद्ब्रूते-सखि! यदि त्वं मम पुरतो गुह्यं न कथयसि तत्कः स्नेहः ।
उक्तञ्च-
ददाति प्रतिगृह्णानि गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ सुक्_6.7 (=60) ॥
ततः पद्मिन्याह-मदीयः पतिरिदं गुह्यं ममाग्रे कथमपि न ब्रते मया शतशः पृष्टो ऽपि ।
तयोक्तम्-तर्हि त्वदीयं जीवितं रूपं यौवनं सवमपि निरर्थकमेव यदिदं नाज्ञायि ।
ततः पद्मिनी पतिं पृच्छति-कथं मण्डकप्राप्तिः? पतिराह-विधेः प्रसादात् ।
उक्तञ्च-
द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशो ऽप्यन्तात् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखोभूतः ॥ सुक्_6.8 (=61) ॥
किञ्च-
क्षुत्क्षामस्य करण्डपिण्डिततनोर्म्लान्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥ सुक्_6.9 (=62) ॥
यदा न कथयति तदानशनं चक्रे ।
पतिराह-अस्मिन्कथिते महती हानिः पश्चात्तापश्च भविष्यति ।
एवं बोधितापि सा यावन्नाग्रहं मुञ्चति तदा तेन दैवोपहतचित्तेन कथितम् ।
उक्तञ्च-
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षन्ति न स वेत्यात्मनो हितम् ॥ सुक्_6.10 (=63) ॥
तेन च राजन्विक्रमार्कबुद्धिमुक्तेन गुह्यं कीर्तितम् ।
यतो हीनपुण्यो बुद्ध्या मुच्यते ।
उक्तञ्च-
रामो हेममृगं न वेत्ति नहुषो याने युनक्ति द्विजान् विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने ।
द्यूते भ्रातृचतुष्टयं च महिषीं धर्मात्मजो दत्तवान् प्रायः सत्पुरुषो ऽप्यनर्थसमये बुद्ध्या परित्यज्यते ॥ सुक्_6.11 (=64) ॥
सा च पतिमुखात् श्रुत्वा सखीपुरी जगाद ।
तया चात्मपतिः कुठारहस्तः प्रेषितो विनायकपार्श्वे ।
सो ऽपि पद्मिनीपतिश्च प्रातस्तत्र जगाम ।
विनायको ऽपि द्वावपि मयूरबन्धैर्बन्धयामास ।
सो ऽपि च पद्मिनीपतिरुक्तः रे त्वदीय एवायमनर्थः ।
ततस्त्वय्येव दण्डो युज्यते ।
ततः सखीपतिर्ययाचे ।
तान्पञ्च मण्डकान्तस्मै स प्रददौ ।
तौ द्वावपि स्वं स्वं गृहं जग्मतुः ।
ततः पत्या दापिताः ।
पश्चात्तापं च कुरुते ।

ततस्त्वमपि राजेन्द्र! मां मा पृच्छ ।
तव पश्चात्तापो भविष्यति ।
इदं श्लोकं स्वयमेव विचिन्तय ।
इति कथयित्वा बालपण्डिता उत्थाय स्वगृहं गता ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ षष्ठी कथा ॥
स्तर्त् सुक् 7:
अन्यस्मिन्दिने प्रभावती शुकं पप्रच्छ-कीर! पुनस्तन्मत्स्यहास्यकारणं राज्ञा ज्ञातं शृतं न वा ।
शुकः प्राह-प्रातः पुनर्बालपण्डितामाकारयित्वा राजा प्राह-कि तन्मत्स्यहास्यकारणम्? ब्रूहि शीघ्रं बालिके! सा चाह-
देवाग्रहो न कर्तव्यः पश्चात्तापो भविष्यति ।
स्थगिकासक्तचित्तस्य विप्रस्याभूत्पुरा यथा ॥ सुक्_7.1 (=65) ॥
अस्ति धरणीतले वत्सोननाम पट्टनम् ।
तत्र वीराख्यो राजा तत्र च केशवो नाम ब्राह्मणः ।
तेन कदाचिदिति चिन्तितं यदहं पितृधनं न भोक्ष्ये ।
उक्तञ्च-
उत्तमाः स्वगुणैः ख्याता मध्यमाश्च पितुर्गुणैः ।
अधमा मातुलैः ख्याता श्वशुरैश्चाधमाधमाः ॥ सुक्_7.2 (=66) ॥
किञ्च- पिअर विढत्तै दव्व्डै चड्डिरि को ण करेइ ।
सैं बिढवै सैं भोजऐ विरला जणणि जणेइ ॥ सुक्_7.3 (=67) ॥
[पित्रर्जितं द्रव्यं भोगिनं कं न करोति ।
स्वयमर्जयति स्वयं भुङ्क्ते विरला जननी जनयति] ॥ सुक्_7.3* (=67*) ॥
इत्यवधार्य स मेदिन्यां बभ्राम देवतीर्थश्मशाननगरेषु धनार्थम् ।
अन्यदा स निर्जने प्रदेशे प्रसिद्धे शिवचत्वरे करालायाः श्मशाने च परिभ्रम्य परिश्रान्तः कपिलकमठमपश्यत् ।
तत्र च पर्यङ्कसनस्थं तापसं ददर्श स च विप्रस्तस्याग्रे कृताञ्जलिपुटस्तस्थौ ।
तापसो ध्यानं शनैर्मुक्त्वा एवमुक्तवान्-
किं कस्मै दीयते लोके त्रायते को भवार्णवात् ।
असाध्यं साध्यते कस्य काले ऽस्मिन्नतिथेरहो ॥ सुक्_7.4 (=68) ॥
ततः स ब्राह्मण ऊर्ध्वबाहुर्जगाद-तवाहमतिथिर्धनार्थी ।
तापसो ऽपि तं विप्रमल्पयाचक दृष्ट्वा मनसि दुःखीबभूव ।
उक्तञ्च-
स्तोकार्थप्रार्थनान्दीनान्दृष्ट्वोदारान्हि याचकान् ।
खिद्यन्ते ऽतीव मनसि अपि प्राणप्रदायिनः ॥ सुक्_7.5 (=69) ॥
किञ्च-
अहिहूओ वि अ विवआ करेइ सुअणो परस्स उपआरं ।
ओणेइ अण्णदाधं चन्दणतरुओ सखण्डो वि ॥ सुक्_7.6 (=70) ॥
[अभिभूतो ऽपि विपदा करोति सुजनः परस्य उपकारम् ।
अपनयत्यन्यतापं चन्दनतरुकः सहस्रकण्डो ऽपि] ॥ सुक्_7.6* (=70*) ॥
ततो योगीन्द्रो "यदा त्वमेतत्स्पर्शनं करिष्यसि तदा हेम्नः पञ्चशतानि नित्यं दास्यतीऽत्युक्त्वा विप्राय पर्यङ्कीकृतं सिन्दूरमर्पयामास ।
उक्तश्च-"एतत्त्वयान्यस्मै न दातव्यं न कथनीयञ्च ।
अन्यथा मम समीपे व्यावृत्य समेष्यति ।

तदर्पितं यदा स द्विजः प्रातः स्पृशति तदा सुवर्णशतपञ्चकं ददाति ।
स च रत्नावतीं पुरीं गतः ।
तत्र स्थगिकां नाम वेश्यां नित्यं कामयते ।
सा च तद्द्रव्यागमनं न जानाति ।
कुट्टिनी पृच्छति-हले! एष विप्रः किमपि व्यवसायादिकं न विधत्ते ।
परं द्रव्यं कुतो ऽस्माकं वितरति कस्माद्विलसतीति ।
ततो वेश्या तं पृच्छति ।
स विप्रः सर्वथा न कथयति ।
ततो वेश्यया स्वकलया भक्त्या चाराधितः ।
ततः पृष्टः सन्कथयामास यत्सिन्दूराद्द्रव्यागमः ।
तया च सुप्तस्य सिन्दूरं गृहीतम् ।
ततो द्रव्याभावे कुट्टिन्या गृहान्निष्कासितः ।
उक्तञ्च-
विश्वासप्रतिपन्नानां वञ्चने का विदग्धता ।
अङ्कमारुह्य सुप्तं हि हन्तुं किं नाम पौरुषम् ॥ सुक्_7.7 (=71) ॥
स विप्रस्तत्सिन्दूरमपश्यन्फूत्कुर्वन्राजद्वारं ययौ, मुषितो ऽहमिति वदन् ।
ततो विवादः सञ्जातः ।
कुट्टिन्याह-
धूर्तो ऽसौ मत्सुतालुब्धो धनहीनो भवत्यसौ ।
मनोभवग्रहग्रस्तो असमञ्जसमीदृशम् ॥ सुक्_7.8 (=72) ॥
जनैर्गुणैरसम्भाव्यं राज्ञा कथं सम्भाव्यते ।
परं सत्यमिदं जातं सिन्दूरं धनदं यतः ॥ सुक्_7.9 (=73) ॥
स च जनैर्वैदेशिको ऽयमिति ज्ञात्वा निर्वासितः ।
तच्च सिन्दूरं योगीन्द्रमेव ययौ ।
ततो राजन्विक्रमादित्य! स्थगिकाप्रीतिनिबन्धनात्तेनाख्याते च सिन्दूरे स्थगिका नैव विप्रस्य बभूव न च सिन्दूरम् ।
एवं तवापि राजन्! रतिः प्रीतिश्च न भविष्यति ।
एवमुक्त्वा बालपण्डिता गृहं जगाम ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ सप्तमी कथा ॥
स्तर्त् सुक् 8:
अथापरेद्युः प्रभावती शुकं पृच्छति ।
शुक उत्तरं ददौ-देवि! बालपण्डिता द्वितीये ऽह्नि संयाते राजानं प्राह-देव! नाग्रहः कर्तुं युज्यते ।
यतः-
राज्ञा नैवाग्रहः कार्यः शुभे वाशुभकर्मणि ।
तदङ्गानि हि भूतानि राज्ञां हि महती तनुः ॥ सुक्_8.10 (=74) ॥
आख्याते च तव मया विणिक्पुत्र्या यथाभवत् ।
न बहिर्न गृहं राजंस्तथा ते ऽपि भविष्यति ॥ सुक्_8.11 (=75) ॥
राजा पृच्छति-कथमेतत्? बालपण्डिता प्राह-अस्ति पृथ्वीतले त्रिपुरं नाम स्थानम् ।
तस्मिन्त्रिविक्रमो नाम राज ।
तत्र सुन्दराभिधानो वणिक् ।

तद्भार्या सुभगा नामातीव कुलटा ।
सा च भर्त्रा गृहान्निर्यान्ती प्रयत्नेन नियन्त्रिता ।
ताञ्च नियन्त्रणात्पूर्वमेको वणिग्यक्षगृहे स्थितः सकामामभजत् ।
यदा च बहिर्निर्गच्छन्तो पतिना निवारिता तदा सखीं प्राह-सखि! अद्य त्वया स मानवो यक्षायतन आकारणीयः यथाहं तत्र गत्वा तं रमे ।
त्वया च मयि गतायां पश्चादस्मद्गृहं ज्वालनीयं यथा गृहकार्यासक्तो जनो मां गातं न जानाति ।
अत्रान्तरे ऽहं तं स्वेच्छया भुक्त्वा समुपागच्छामि ।
ततः सखीवचनात्स पुमांस्तत्रायातः ।
साप्यागता ।
तदा च गतायां तस्यां सा सखी तद्गृहं प्रज्वालितवती ।
स पुमान्प्रज्वलने कुतूहली यक्षायतनं मुक्त्वा तत्रावलोकनाय गतः ।
सा च तत्र स्थितासमाप्तात्मप्रयोजना यावता गृहमागता तावता गृहं दग्धम् ।
न गृहं न बहिर्भूप वणिग्वध्वा यथाभवत् ।
तथा तव महाराज भविष्यति सुनिश्चयम् ॥ सुक्_8.12 (=76) ॥
अथ चेत् ज्ञातेन श्लोकार्थेन प्रयोजनं तदा कल्ये स्वयमेव ज्ञापयिष्यामि ।
इत्युक्त्वा सा गृहं ययौ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ॥
इति शुकसप्ततौ अष्टमी कथा ॥
स्तर्त् सुक् 9:
अथापरेद्युः सविस्मया प्रभावती शुकं पृच्छति स्म-शुक! किं विज्ञातं विक्रमार्केण मत्स्यहसनकारणम्? शुकः प्राह-देवि! न किमपि राज्ञा स्वयं ज्ञातम् ।
ततो राजा प्रातर्द्विजसुतामाहुय बालपण्डितां प्राह-त्वया इत्युक्तं यत्त्वं स्वयमेव ज्ञास्यसि ।
मया तु किमपि न ज्ञातम् ।
बालपण्डिता प्राह-यदि राजन्नेवमपि मया कथ्यमानं न वेत्सि, ततः शृणु ।
पुष्पहासो नाम मन्त्री सर्वमन्त्रिणामग्रणीर्निर्देषो गुप्तः ।
किमिति नियन्त्रितो ऽस्ति ।
राजा प्राह-अन्वर्थो ऽयं पुष्पहासः ।
यतः यदासो मदीयायां संसदि हसति तदास्यास्यात्पुष्पप्रकरो निपतति ।
इयञ्च कथापरराज्यमण्डलेषु ख्याताभूत् ।
ततस्तैः प्रेषिताः स्वीयपुमांसः कुतूहलान्वेषणाय ।
तेषु समायातेषु तेन न हसितं पुष्पप्रकरो ऽपि नाभूत् ।
इति कारणात्गुप्तिबन्धः ।
बालपण्डिता प्राह-केनापि कारणेन मन्त्रिणा न हसितम्, राजन्! तत्कारणं त्वया ज्ञातं न वा? राजा प्राह-मया किमपि न ज्ञातम् ।
बालपण्डिता प्राह-तर्हि कथमिदं दण्डं कुर्वन्पापभाक् न भवसि? उक्तञ्च-
धर्मेण राष्ट्रं विन्देन धर्मेणैवानुपालयेत् ।
धर्माच्छरण्यतां याति राजा सर्वभयापहः ॥ सुक्_9.1 (=77) ॥
यथा आग्रहान्मां मत्स्यहास्यकारणं पृच्छसि तथा तमपि पृच्छ हास्यकारणम् ।
स एवात्मीयहास्यस्य मत्स्यहास्यस्य च कारणं वक्ता ।
राजापि तद्वचनात्पुष्पहासं मन्त्रिणं वस्त्रदानपूर्वं मन्त्रिपदे प्रतिष्ठाप्य मत्स्यहास्यकारणं पप्रच्छ ।
मन्त्र्याह-यद्यपि गृहदुश्चरितमकथ्यम् ।
यतः-
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।

वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ सुक्_9.2 (=78) ॥
तथापि तु राजाज्ञा महती ।
यतः-
प्रभुः प्रीतिस्निग्धां दृशमपि न पापेषु विसृजेत् कुतः श्लाघ्यामाज्ञां प्रणयरससान्द्रेण मनसा ।
अतीत्यादित्याग्निप्रभृति भुवि धर्मेन्द्रियमयं नृपाख्यं हि ज्योतिः प्रसभमिदमैन्द्रं विजयते ॥ सुक्_9.3 (=79) ॥
ततो राजन्! मे कलत्रं नरान्तररतं जातं तच्च मया ज्ञातम्, तेन च दुःखेन न हसितम् ।
राजापीदमाकर्ण्य पुष्पहस्तकै राज्ञीमाहृत्य सम्मुखमवलोकयामास ।
सा च तेन प्रहारेण कपटमूर्च्छां नाटयति स्म ।
पुष्पहासो ऽपि तामवलोक्य सहासो बभूव पुष्पोत्करश्च समजनि ।
राजापि तामाश्वास्य कृतकोपो द्विजात्मजास्यं विलोक्य मन्त्रिणमवादीत् कथमस्मद्दुःखे सहासो ऽसि? मन्त्र्यपि सभयमञ्जलिं बद्ध्वाभाषत-राजन्! पोटकजनैस्त्वदीया राज्ञी रात्रौ नाडिकाभिराहतापि न मूर्च्छिता, अधुना मूर्च्छितेति हास्यकारणम् ।
राजापि सकोपो "मन्त्रिन्निदं त्वया दृष्टं श्रुतं वेऽति पप्रच्छ ।
मन्त्र्याह-स्वामिन्दृष्टमेवेदम् ।
यदि स्वामी न प्रत्येति तदा कञ्चुकमुत्तार्यावलोकयतु ।
एवं कृते राजा सर्वमज्ञासीत् ।
मन्त्रिणो द्विजसुतायाश्च मुखमवलोक्य किमिदमित्यवादीत् ।
मन्त्र्याह-स्वामिन्! यदिदं द्विजपुत्र्या गूढार्थं मत्स्यहास्यकारणं निवेदितं तन्मया प्रकटीकृतम् ।
इत्येवमुक्तो राजा आस्थानं व्यसर्जयत् ।
अथ द्विजसुतापुष्पहासावपि भीतहृष्टौ स्वं स्वं गृहं जग्मतुः ।
तेन च राज्ञा तस्या मञ्जूषास्थितो नरो दृष्टो विनाशितः ।
सा च निजवासाद्विसर्जिता ।
शुकः प्रभावतीमाह-
तथा त्वमपि कल्याणि मा कुरुष्व वृथाग्रहम् ।
यदाग्रहपरो लोके विलक्षो विक्रमार्कवत् ॥ सुक्_9.4 (=80) ॥
इति कथा श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ नवमी कथा ॥
स्तर्त् सुक् 10:
अन्यदा सशृङ्गारा प्रभावती शुकमाह-
किं कर्तव्यं मया कीर त्वं वदाद्य प्रियम्वद ।
यदि ते ऽस्ति सखी याहि शृङ्गारीव सहायिनी ॥ सुक्_10.1 (=81) ॥
प्रभावत्याह-कथमेतत्? शुक आह-अस्ति राजपुरं नाम स्थानम् ।
तत्र देवसाख्यः कौटुम्बिकः, तत्कलत्रे शृङ्गारवती सुभगा च ।
परस्परपरित्राणकृतबन्धपरायणे ।
परपुरुषलम्पटे प्रसिद्धे रतकर्मणि ॥ सुक्_10.2 (=82) ॥
अन्यदा यावत्सुभगा उपपतिना सह गृहान्तर्विद्येत तावद्बहिः स्थानात् पतिर्झिण्टहस्तो गृहद्वारि समाययौ ।
तदा सा कथं भवत्विति प्रश्नः? उत्तरमाह शुकः-ततः शृङ्गारदेव्या सा नग्नीकृत्य गृहाद्बहिर्निष्कासिता ।
पतिरपि "किमिदमिऽति ब्रुवाणो ऽत्यादरात् शृङ्गारदेव्या उक्तः-यत्त्वया एतानि झिण्टानि देव्या उपवनादानीतानि तत इयं ग्रहिला सञ्जाता ।
ततो यथास्थानं गत्वा मुञ्च यथा प्रगुणा स्यात् ।
ततः स मूढो यावदेवं कर्तुं बहिर्जगाम तावत्तया गृहादुपपतिर्निष्कासितः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ दशमी कथा ॥

स्तर्त् सुक् 11:
प्रदोषसमये ऽन्यस्मिन्कामिनी काममोहिता ।
विनयेन शुकं प्राह गच्छामि यदि मन्यसे ॥ सुक्_11.1 (=83) ॥
शुकः प्राह-
अवश्यमेव गन्तव्यं त्वयेत्थं मम निश्चयः ।
मनो ऽभीष्टे पयो निम्ने गच्छत्कः प्रतिवारयेत् ॥ सुक्_11.2 (=84) ॥
गतयापि त्वया तत्र कर्तव्यं किञ्चिदद्भुतम् ।
यथा रम्भिकया पूर्वं ब्राह्मणार्थे ऽद्भुतं कृतम् ॥ सुक्_11.3 (=85) ॥
प्रभावत्याह-कथमेतत्? शुक आह-अस्ति दाभिलाख्यो ग्रामः ।
तत्र विलोचनो ग्रामणीः ।
तद्भार्या रम्भिकाभिधा परनप्रिया ।
तां च तद्भर्तृभयान्न को ऽपि कामयते ।
ततः सा जलव्याजात् घटमादाय वापीं ययौ ।
दृष्ट्वा च तत्र सुरूपं पथिकं भट्टपुत्रं क्रीडार्थं दृष्टिसंज्ञया बभाण ।
सो ऽपि कामिनीदृष्टिसञ्चारचतुरो विवेद तदाकूतम् ।
उक्तञ्च-
उदीरितो ऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति नोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ सुक्_11.4 (=86) ॥
किञ्च णअब्भन्तरघोलन्तीए हअरमणराअदिट्ठीए ।
पुणरुत्तपेच्छिरीए बालअ किं किं ण भणिओ सि ॥ सुक्_11.5 (=87) ॥
[नाभ्यन्तरं घूर्णयन्त्या हृदयमनोराम दृष्ट्या ।
पुनुरुत्प्रेक्षमाणया बालक किं किं न भणितो ऽसि] ॥ सुक्_11.5* (=87*) ॥
अच्छीहिं चिअ भणिअं हिअअत्त्थं जो जणो ण लक्खेइ ।
तेण पडिबोहिएण ए किं कीरै ण क्खु अल्लेण ॥ सुक्_11.6 (=88) ॥
[अक्षिभ्यां चिरभणितं हृदयस्थं यो जनो न लक्षयति ।
तेन प्रतिबोधितेन च किं क्रियते नु खलु अज्ञेन] ॥ सुक्_11.6* (=88*) ॥
ततः स तदन्तिकमागत्य जगाद-भद्रे किं विधेयम्? साह-त्वया मम पृष्ठलग्नेन अस्मद्गृहं समागन्तव्यं मम पत्युश्च नमस्कारो विधेयः ।
सर्वमन्यदहं करिष्ये ।
त्वया तथैवेति वाच्यम् ।
एवमुक्त्वा सा गृहं प्रविष्टा ।
सो ऽपि गृहं प्रविष्टस्तत्पत्यरग्रे तस्थौ ।
पतिरपि विस्मितः ।
ततः सा कुम्भं मुक्त्वा पत्युः सकाशमागत्याव्रवीत्- नाथ! उपलक्षस्व एनम् ।
स आह-ने वेद्मीति ।
ततः सा प्राह-अयं मातृम्वसुः सुतो यो मया शिशुत्वे मुक्तः ।
स धवलो नाम मम मिलनार्थं समागमत् ।
ततो मया आलिङ्ग्य सर्वापि स्वजनवार्ता पृष्टा ।
स च ब्राह्मण "एवमितिऽ जल्पति ।
ततः पतिना सानुज्ञाता तं महानसं नीत्वा भोजनाच्छादनसंस्कारैस्तोषयामास ।
पतिरपि तुष्टः प्राह-भद्र! त्वया निजबान्धवस्य महती भक्तिः कार्येत्युक्त्वा सुप्तः ।

तदा च रम्भिका ब्राह्मणखट्टवायामुपावशत् ।
ततस्तेनोक्तम्-त्वया पत्युग्रे इत्युक्तं यन्मदीयो भ्राता समागतः ।
तत्त्वं मे प्रतिपन्ना भगिनी प्रतिपन्नं च निर्वाह्यते ।
उक्तञच-
छिज्जौ सीसुं अह होउ बन्धणं चऔ सव्वहा लच्छी ।
पडिवण्णपालणे सुपुरिसाण जं होउ तं होउ ॥ सुक्_11.7 (=89) ॥
[छिद्यतां शीर्षमथ भवतु बन्धनं चलतु सर्वथा लक्ष्मीः ।
प्रतिपन्नपालने सुपुरुषाणां यद् भवतु तद् भवतु] ॥ सुक्_11.7* (=89*) ॥
लज्जिज्जै जेण मणो मैलिज्जै णिअकुलक्कमो जेण ।
कण्ठट्ठिए वि जीए मा सुन्दरि तं कुणिज्जासु ॥ सुक्_11.8 (=90) ॥
[लज्जते येन मनो मलिनयति निजकुलक्रमो येन ।
कण्ठस्थिते ऽपि जीवे मा सुन्दरि तं करिष्यसि] ॥ सुक्_11.8* (=90*) ॥
रम्भिका प्राह-मा एवं वद ।
यतो ऽतिदुर्लभा रामा पितृमातृपरायणा ।
पितृमातृमयैर्भूत्वा भोक्तव्या कामिनी रैः ॥ सुक्_11.9 (=91) ॥
उक्तञ्च-
कामार्तां स्वयमायातां यो न भुङ्क्ते नितम्बिनीम् ।
सो ऽवश्यं नरकं याति तन्निःश्वासहतो नरः ॥ सुक्_11.10 (=92) ॥
सो किं व माणै पर महिल जो णवि जंपि एम्व ।
.... .... .... ॥ सुक्_11.11 (=93) ॥
[स किमेव मन्यते परमहिलां यो विपरीतं जल्पत्येवम् ।
.... .... ....] ॥ सुक्_11.11* (=93*) ॥
जो णवि माणै... सो किं व माणै थी अवराइ ।
... ... ... मा करि णेह अम्हहं भङ्गु ॥ सुक्_11.12 (=94) ॥
[यो विपरीतं मन्यते...स किमिव मन्यते स्त्रियमपराम् ।
... ... ...] ॥ सुक्_11.12* (=94*) ॥
श्रूयते रुक्मिणी पूर्वं कृष्णेव मदनातुरा ।
गृहीता भ्रातृजायापि कः काममतिलङ्घयेत् ॥ सुक्_11.13 (=95) ॥
विरञ्चिरपि कामार्तं स्वसुतामभिलाषुकः ।
दृश्यते ऽद्यापि वियति हारिणीं तनुमाश्रितः ॥ सुक्_11.14 (=96) ॥
विवाहे पार्वती दृष्ट्वा हरस्य हरवल्लभाम् ।
चस्कन्द रेतस्तस्यापि बालखिल्यास्तदुद्भवाः ॥ सुक्_11.15 (=97) ॥
तयैवं बोधितो मूर्खः स यावद्रमते न ताम् ।
फूत्कृतं मुषितास्मीति त्रायतां त्रायतामहो ॥ सुक्_11.16 (=98) ॥
तया च फूत्कृते किमिदमिति कुर्वाणो बान्धवैः सह धावितो भर्ता ।
स च कथं मुच्यते? इति प्रश्नः ।
उत्तरम्-एवं च स ब्राह्मणः सभयः सन्नतः पादयोः पतितो जगाद-स्वामिनि! प्राणान् रक्ष ।
तवेहितं करिष्यामि ।
एवं स्थिते सा दुग्धसहितं भक्तमढण्ढोलयत् अन्तिके ज्वलिनमज्वालयत् ।
आगतं च पतिं जगाद-अस्य विषूचिका उपपन्ना ।

ततो मया फूत्कृतम् ।
एवमुक्त्वा दुग्धभक्तं प्रदशितम् ।
पतिरपि मूर्खो दृष्ट्वा ययौ ।
ततः सा पत्यौ सुप्ते यदृच्छया सुरतं चकार ।
सो ऽपि च मान्द्यव्याजान्मासमेकं स्थितः पश्चाज्जगाम ।
इति श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ एकादशी कथा ॥
स्तर्त् सुक् 12:
अथान्यदा सा चलिता ।
शुकः प्राह-
विपरीते समायाते यदि वेत्सि त्वमुतरम् ।
यथा शोभिकया प्रोक्तं वव्वूले चरिते सति ॥ सुक्_12.1 (=99) ॥
अस्त्यत्र नलौडाग्रामे कुलालो महाधनः ।
तस्य भार्या शोभिका नाम परं कुलटा नरलम्पटा च ।
सा पत्यौ बहिर्गते उपपतिसहिता गृहान्तः क्रीडति ।
तस्याश्चैवं स्थिताया भर्ता गृहं समागमत् ।
तदनन्तरं सा कथं भवत्विति प्रश्नः ॥
शुकः प्राह-यदा च तया स आगच्छन् ज्ञानस्तदा उपपतिरुक्तः-"च] त्वं वव्वूलवृक्षम्ऽ ।
एवं च स तयो प्रोक्तस्तथा चकार ।
तस्य च वृक्षे चटतः परिधानवस्त्रं विलग्नं नग्नो ऽपि वृक्षमारूढः ।
तस्मिंश्च वृक्षमारूढे पतिः प्राह-कमिदमिति ।
सा आह-अयं शत्रुभिरभिभूतो ऽदोवस्त्रमपि त्यक्त्वा वव्वूलमधिरूढः ।
ततः समागत्य तस्याः पतिना वृक्षान्मन्दं मन्दमुत्तार्य स स्वगृहं प्रेषितः ।
तया धूर्तया च सहहस्ततालं हसितम् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ द्वादशोकथा ॥
स्तर्त् सुक् 13:
अथान्येद्युः प्रभावती शुकं पृच्छति ।
शुक आह-
व्रज देवि सुखं भुङ्क्ष्व अर्धभुक्ते पतौ यथा ।
कृतं राजिकया चित्तमुत्तरं धूलिसंयुतम् ॥ सुक्_13.1 (=100) ॥
अस्ति नागपुरं नाम स्थानम् ।
यत्रैको वणिक ।
तत्पत्नी राजिकानाम्नी सुरूपा परं दुश्चारिणो ।
वणिक्सुतश्च तां नरान्तरासक्तां न जानाति ।
ततश्च एकदा स भोजनाय यदोपविष्टस्तदा उपपतिः कृतसंकेतो मार्गे गच्छन् तया दृष्टः ।
तं त दृष्ट्वा गृहे ऽद्य धृतं नास्ति इत्युक्त्वा द्रव्यं तत्सकाशादादाय घृतानयनदम्भेन वेश्मतो निर्गत्य च सा बहिर्जारेण सह चिरं स्थिता ।
पतिस्तु गृहे क्षुधार्तः क्रुद्धश्च ।
ततः सा कथं गृहं गन्तुमर्हति-इति प्रश्नः ।
उत्तरम्-ततः सा हस्तौ पादौ मुखं च धूलिधूसरं विधाय सद्रम्मा धूलिं गृहीत्वा गृहमागता ।

पतिः क्रुद्धो रक्तेक्षणः किमिदमित्याह ।
सा च सनिःश्वासं रुदती धूलिपुञ्जं दर्शयित्वा इदमुवाच-यत्कृते त्वं क्रुद्धः स ते द्रव्यो ऽत्र धूल्यां पतितः ।
एनामुत्क्षिप्य गृहाण त्वम् ।
एवमुक्तः स विलक्षः तदङ्गानि वस्त्राञ्चलेन सम्मार्ज्य सान्त्वयामास विविधलालनैः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ त्रयोदशी कथा ॥
स्तर्त् सुक् 14:
सा नितम्बिनि अन्येद्युश्चलिता ।
शुकेनोक्तम्- युक्तमेव विशालाक्षि परं रन्तुं यदृच्छया ।
यद्यायाते पतौ वेत्सि धनश्रीरिव भाषितुम् ॥ सुक्_14.1 (=101) ॥
प्रभावत्याह-किमेतत् ।
शुकः प्राह-अस्ति पद्मावती पुरी ।
तत्र धनवालो नाम वणिक् ।
तस्य भार्या प्राणेभ्यो ऽपि प्रिया धनश्रोर्नाम ।
तच्च मिथुनं परस्परं स्नेहनिर्भरं क्रीडति ।
अन्यदा तु वणिग्द्रव्यसारमादाय तामापृच्छ्य देशान्तरं जगाम ।
सा च तस्मिन्गते संस्थितेव गृहस्थिता ।
न स्नाति न च सा भुङ्क्ते न जल्पति सखीसमम् ।
निरस्ताशेषसंस्कारा स्वदेहे ऽपि पराङ्मुखी ॥ सुक्_14.2 (=102) ॥
मलयानिलमारूढः कोकिलालापडिण्डिमः ।
मल्लिकामोददूतश्च मधुपारवमङ्गलः ॥ सुक्_14.3 (=103) ॥
अन्यदा तु समायातो वसन्तः कालराट् क्षितौ ।
मनो ऽपि विक्रियां यस्मिन्याति संयमिनां किल ॥ सुक्_14.4 (=104) ॥
तस्मिन्वसन्तोत्सवे गृहोपरि स्थिता नगरीरामणीयकमालोक्य यौवनं रूपं च निनिन्द ।
सखी च तदिङ्गितज्ञा जगाद-भामिनि! रूपं वयश्च मा व्यर्थं विधेहि ।
यतः- वाद्यते शृणु रम्भोरु कोकिलारावडिण्डिमः ।
मदनस्य नृपस्येव वसन्तेन धरातले ॥ सुक्_14.5 (=105) ॥
मुञ्चन्तु मानिनः सर्वे मानं सेवन्तु वल्लभाः ।
गत्वरं यौवनं लोके जीवितं च तथा चलम् ॥ सुक्_14.6 (=106) ॥
ततस्त्वमपि कुरु वयःसाफल्यमित्युक्ते धनश्रीर्जगाद-नाहं विलम्बितुं सहामि ।
यत्त्वया भवति तत् शीघ्रं विधेहि ।
ततस्तया सा नरान्तरेण योजिता ।
यदा च सा तेनात्मासक्ता ज्ञाता तदा तदीयशिरोवेणी छिन्ना ।
तत्काले च पतिर्देशान्तरादाजगाम ।
तदा सा कथं भवत्विति प्रश्नः ।
शुकः प्राह-यदा च पतिर्गृहद्वारमाययौ तदा तयोत्तरं विचिन्त्योक्म्-नाथ! त्वया तादवद्गृहद्वारि स्थीयतां यावत्सर्वं सज्जं विधीयते ।
तेन चैवं प्रतिपन्ने सा मध्ये गत्वा भट्टारिकां पूजयित्वा पुरतो वेणीं स्थापयामास ।
एवं कृत्वा बहिर्निर्गत्य चरणमण्डकैः पतिं गृहन्तर्देवीपुरतो नीत्वा जगाद-नाथ! पूजय गृहाधिदेवताम् ।
तेन पूजयता वेणीं दृष्ट्वा उक्तम्-किमिदमिति ।
तयोक्तम्-मयोपयाचितमासीत् ।

यदा मे पतिः समेष्यति तदा स्वामिन्यहं तवाग्रे वेणीं छेत्स्यामि ।
तदधुना मया कृतम् ।
स च मुग्धो देवीं नमस्कृत्य तां बहु मानयामास ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ चतुर्दशी कथा ॥
स्तर्त् सुक् 15:
अन्यदा सा चलिता ।
हसन्नाह शुको याहि यदि कर्तुं त्वमुत्तरम् ।
वेत्सि यथा श्रियादेव्या नूपुरे ऽपहृते कृतम् ॥ सुक्_15.1 (=107) ॥
अस्ति शालिपुरं नाम नगरम् ।
तत्र शालिगो वणिक् ।
तत्पत्नी जयिका ।
तयोः सुतो गुणाकरो नामाभूत् ।
तद्भार्या श्रियादेवी ।
सा चापरेण सुबुद्धिनाम्ना वणिजा सह रमते ।
ततो लोकापवादे ऽपि संजाते ऽनुरक्तस्तदीयः पतिर्न किमपि कर्णे करोति ।
उक्तञ्च- रत्ता पिच्छन्ति गुणा दोसा पिच्छन्ति जे विरत्तत्ति ।
मज्झत्था उण पुरिसा दोसा वि गुणा वि पिच्छन्ति ॥ सुक्_15.2 (=108) ॥
[रक्ताः पृच्छन्ति गुणान् दोषान् पृच्छन्ति ये विरक्ताः ।
मध्यस्थाः पुनः पुरुषा दोषानपि गुणानपि पृच्छन्ति] ॥ सुक्_15.2* (=108*) ॥
किञ्च- महिलारत्ता पुरिसा छेआ वि ण संभरन्ति अप्पाणं ।
इअरे उण तरुणीणं पुरिसा सलिलं व हत्थगअं ॥ सुक्_15.3 (=109) ॥
[महिलारक्ताः पुरुषाश्छेका अपि न सम्भरन्ति आत्मनाम् ।
इतरे पुनस्तरुणीनां पुरुषाः सलिलमेव हस्तगतम्] ॥ सुक्_15.3* (=109*) ॥
अन्यदा सा श्वशुरेण नरान्तरसहिता सुप्ता दृष्टा ।
ततश्चरणान्नूपुरं श्वशुरेण चोत्तारितं तया च ज्ञातम् ।
ततः सा तं जारं प्रस्थाप्य भर्तारं तत्रानीय तेन सह सुप्ता ।
निद्रान्तरे च पतिरुत्थापितः कथितञ्च-त्वदोयेन पित्रा नूपुरमस्मत्पादादवर्ताय गृहीतम् ।
एवंविधं च पातकं क्वापि न दृष्टं यद्वधूपादात् श्वशुरो नूपुरं गृह्णाति ।
तेनोक्तम्-प्रातः पितुः सकाशात्स्वयमर्पयिष्यामि ।
तेन च गुणाकरेण पितर निर्भर्त्स्य तत्सकाशान्नूपुरं याचितम् ।
पित्रा चोक्तम्-यदियं परपुरुषेण सह सुप्ता दृष्टा अतो मया नूपुरं गृहीतम् ।
तयोक्तम्-त्वत्पुत्रेण सह सुप्ताहमासम् ।
इत्यर्थे दिव्यं करोमि ।
अत्रैव ग्रामे उत्तरस्यां दिशि यक्षो ऽस्ति ।
तस्य जङ्घान्तरान्निर्गमिष्यामि ।
यः कश्चित्सत्यो भवति स जङ्घयोरन्तरान्निष्क्राम्यतीति प्रसिद्धम् ।
एवं श्वशुरेण चाङ्गीकृते सा कुलटा सति दिने जारस्य गृहे गत्वा तमुवाच-भो कान्त! प्रातरहं दिव्यार्थं यक्षस्य जङ्घान्तरान्निर्गमिष्यामि ।
त्वया तत्र समागत्य वातूलत्वमाश्रित्य मम कण्ठग्रहो विधेयः ।
तेन च तथोक्ते सा स्वगृहमाजगाम ।

मूल पाठ: Śukasaptati · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc