भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 1007-1026

1007

यान्दिग्ध्वैव कृता विषेण कुसृतिर्येषां कियद्गण्यते
लोकं हन्तुमनागसं द्विरसना रन्ध्रेषु ये जाग्रति ।
व्यालास्तेपि दधत्यमी सदसतोर्मूढा मणीन्मूर्धभिर्-
नौचित्याद्गुणशालिनां क्वचिदपि भ्रंशोस्त्यलं चिन्तया ॥

1008

तत्प्रत्यस्त्रतया धृतो न तु कृतः सम्यक्स्वतन्त्रो भयात्-
स्वस्थस्तान्प्रतिघातयेदिति यथाकामं न संपोषितः ।
संशुष्यन्वृषदंश एष कुरुतां मूकः स्थितोप्यत्र किं
गेहे किं बहुनाधुना गृहपतेश्चौराश्चरन्त्याखवः ॥

1009

स्वात्मीयान्न ददासि चेत्फणमणीन्मा दाः परार्थं परैर्-
यत्किंचिन्निहितं रुणत्सि किमिदं निध्यादि दुष्टाशया ।
एतत्तावदलं भवन्तमपरं पृच्छामि कस्मादहे
फूत्कारैर्विषवह्निवेगगुरुभिर्दन्दह्यसेमुं जनम् ॥

1010

निःसाराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्वचिच्-
छुष्यन्तोद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेषु ये ।
अन्तःसारपराङ्मुखेण धिगहो ते मारुतेनामुना
पश्यात्यन्तचलेन वर्त्म महतामाकाशमारोपिताः ॥

1011

ये जात्या लघवः सदैव गणनां याता न ये कुत्रचित्-
पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् ।
उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे
तुङ्गानामुपरि स्थितं क्षितिभृतां कुर्वन्त्यमी पांसवः ॥

1012

अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं
स्वपक्षाद्भेतव्यं बहु न तु विपक्षात्प्रभवतः ।
तमस्याक्रान्ताशे कियदपि हि तेजोवयविनः
स्वशक्त्या भासन्ते दिवसकृति सत्येव न पुनः ॥

1013

सांमुख्यं वस्तुजातं नयति ननु चिदीशस्य यद्दर्शनाढ्यं
नेत्रद्वन्द्वं किलैतद्विमलमिति ततोन्याङ्गसङ्गं विहाय ।
घ्राणं वंशाभिरामं परिमलनिरतं चक्षुषोर्मध्यभागे
नित्यं लीनं न चास्मिन्मृगसि नयनयोः श्वासमामुञ्च खिन्ने ॥

1014

एतत्तस्य मुखात्कियत्कमलिनीपत्त्रे कणं पाथसो
यन्मुक्ताफलमित्यमंस्त स जडः शृण्वन्यदस्मादपि ।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस्-
तत्रोड्डीय गते हहेत्यनुदिनं निद्राति नान्तःशुचा ॥

1015

आस्तेत्रैव सरस्यहो बत कियान्संतोषपक्षग्रहो
हंसस्यास्य मनाङ्न धावति मतिः श्रीधाम्नि पद्मे क्वचित् ।
सुप्तोद्यापि विबुध्यते न तदितस्तावत्प्रतीक्षामहे
वेलामित्युषसि प्रिया मधुलिहः सोढुं तु एव क्षमाः ॥

1016

वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं
ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः ।
तेपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर्-
दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥

1017

नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं
प्रस्थाने स्खलतः स्ववर्त्मनि विधेरन्यैर्गृहीतः करः ।
लोकश्चायमदृष्टदर्शनदशादृग्वैशसादुद्धृतो
युक्तं काष्ठिक लूनवान्यदसितामाम्रालिमाकालिकीम् ॥

1018

ऊढा येन महाधुरः सुविषमे मार्गे सदैकाकिना
सोढो येन कदाचिदेव न निजे गोष्ठेन्यशौण्डध्वनिः ।
आसीद्यश्च गवां गणस्य तिलकस्तस्यैव संप्रत्यहो
धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्धोष्यते ॥

1019

भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने
दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः ।
यच्चाधोमुखमक्षिणी पिदधता नागेन तत्र स्थितं
तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥

1020

नित्यं तीर्थे निवासः प्रकृतिरतितरां स्निग्धमुग्धस्वभावा
वृत्तिर्दैवाद्धि वक्त्रे गगननिपतितैर्निर्मलैर्वारिलेशैः ।
इत्थं सर्वं विलोक्य प्रकटमिह तिमे मुग्धलोकेन लोके
साधुत्वं दर्शितं ते बहिरबहिरमी कण्टकाः केन दृष्टाः ॥

1021

मृत्योरास्यमिवाततं धनुरमी चाशीविषाभाः शराः
शिक्षा सापि जितार्जुना प्रतिभयं सर्वाङ्गनिम्ना गतिः ।
अन्तः क्रौर्यमहो शठस्य मधुरं हा हारि गेयं मुखे
व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं निर्मृगम् ॥

1022

धिग्व्योम्नो महिमानमेतु दलशः प्रोच्चैस्तदीयं पदं
निन्द्यां दैवगतिं प्रयात्वभवनिस्तस्यास्तु शून्यस्य वा ।
येनोत्क्षिप्तकरस्य नष्टमहसः श्रान्तस्य संतापिनो
मित्रस्यापि निराश्रयस्य न कृतं धृत्यै करालम्बनम् ॥

1023

दिग्दाहैकरते वनान्तकर ते ज्वाला न मे रोचते
दुग्धं स्वाश्रयमुद्यतस्य भवतो नेच्छन्ति वृद्धिं जनाः ।
मूलान्यस्य महीभृतो दलयितुं दुर्वेधसा निर्मितः
को वा न त्वयि शङ्कते खल जगत्खेदावहे दाव हे ॥

1024

क्षुत्क्षामेण कथं कथंचिदनिशं गात्रं कृशं बिभ्रता
भ्रान्तं येन गृहे गृहे गृहवतामुच्छिष्टपिण्डार्थिना ।
अस्थ्नः खण्डमवाप्य दैवपतितं शून्यां त्रिलोकीमिमां
मन्वानो धिगहो स एव सरमापुत्रोद्य सिंहायते ॥

1025

शुष्कस्नायुवसावसेकमलिनं निर्मांसमप्यस्थि गोः
श्वा लब्धा परितोषमेति न तु तत्तस्य क्षुधः शान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृछ्रगतोपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥

1026

कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा गता
धाराजर्जरकेसरास्फुटरुचः पद्मा निमिग्ना जले ।
सा सर्वर्तुसुखावतारपदवी छन्ना तृणैर्नूतनैः
कष्टं तादृगपि स्वभावविमलं वृद्छ्यैव नष्टं सरः ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc