सुभाषितावलि · श्लोक 0987-1006
पुंस्त्वादपि प्रविचलेद्यपि यद्यधोपि
यायाद्यपि प्रणयनेन महानपि स्यात् ।
अभ्युद्धरेत्तदपि विश्वमितीदृशीयं
केनापि दिक्प्रकटिता पुरुषोत्तमेन ॥
स्वल्पाशयः स्वकुलशिल्पविकल्पमेव
यः कल्पयन्स्खलति काचवणिक्पिशाचः ।
ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न-
निर्यत्नगुम्फपटुवैकटिकेर्ष्ययान्तः ॥
देवी क्व दुर्गतिहरा भगिनी भवानी
देवो हरः क्व भगिनीपतिरार्तबन्धुः ।
अम्भोनिधौ क्व शरणागतवृत्तिदैन्यं
मैनाक नाकथयितव्यमिदं त्वया नः ॥
तुङ्गात्मतास्तशिखरस्य वृथैव भानोर्-
नालम्बिनी भवति यास्तमये प्रपित्सोः ।
श्लाघ्यः स तामरसनालगुणोपि दैत्य-
भीत्या यमेत्य मरुतां पतिराललम्बे ॥
गृहं श्मशानं गजचर्म चाम्बरं
विलेपनं भस्म वृषश्च वाहनम् ।
कुबेर हे वित्तपते न लज्जसे
प्रियस्य ते सख्युरियं दरिद्रता ॥
नैकत्र शक्तिविरतिः क्वचिदस्ति सर्व
भावाः स्वभावपरिनिष्ठिततारतम्याः ।
आकल्पमौर्वदहनेन निपीयमान-
मम्भोधिमेकचुलकेन पपावगस्त्यः ॥
विष्णुर्बिभर्ति भगवानखिलां धरित्रीं
तं पन्नगस्तमपि तत्सहितं पयोधिः ।
कुम्भोद्भवस्तमपिबत्खलु हेलयैव
सत्यं न कश्चिदवधिर्महतां महिम्नः ॥
आरोपितः पृथुनितम्बतटे तरुण्या
कण्ठे च बाहुलतया निविडं गृहीतः ।
उतुङ्गपीनकुचनिर्भरपीडितोयं
कुम्भः करीषदहनस्य फलानि भुङ्क्ते ॥
आबद्धकृत्रिमसटावलितांसभित्ति-
रारोप्यते मृगपतेः पदवीं यदि श्वा ।
मत्तेभकुम्भतटपाटनलम्पटस्य
नादं करिष्यति कथं हरिणाधिपस्य ॥
मुखमपि परिशिष्टं यस्य तेजःप्रसूतिं
खरकिरणमथेन्दुं ग्रासपात्रीकरोति ।
यदि किल वपुरस्य प्राभविष्यत्समग्रं
किमिव किमिव राहुर्नाकरिष्यत्तदानीम् ॥
यत्पुष्पपल्लवफलाहितसाम्यमोहैर्-
न ज्ञायते शुक तव स्थितिरस्थितिर्वा ।
तद्दाडिमं त्यजसि नैव फलाशया त्वम्-
अर्थातुरो न गणयत्यपकर्षदोषम् ॥
वरमिह रवितापैः किं न शीर्णासि गुल्मे
किमु दवदहनैर्वा सर्वदाहं न दग्धा ।
यदहृदयजनौघैर्वृन्तपर्णानभिज्ञैर्-
इतरकुसुममध्ये मालति प्रोम्भितासि ॥
किमिदमुचितं शुद्धेः स्पष्टं सपक्षसमुन्नतेः
फलपरिणतेर्युक्तं प्राप्तुं गुणप्रणयस्य ते ।
क्षणमुपगतः कर्णोपान्तं परस्य पुरः स्थितान्-
विशिख निपतन्क्रूरं दूरान्नृशंस निहंसि यत् ॥
स हेमालंकारः क्षितिपतनलग्नेन रजसा
तथा दैन्यं नीतो नरपतिशिरःश्लाघ्यविभवः ।
यथा लोष्टभ्रान्तिव्यवहितविवेकव्यतिकरो
विलोक्यैनं लोकः परिहरति पादक्षतिभयात् ॥
आहूतेषु विहंगमेषु मशको नायान्पुरोवार्यते
मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम् ।
खद्योतोपि न कम्पते प्रचलितुं मध्येपि तेजस्विनां
धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥
एवं चेत्सरसस्वभावपरता जाड्यं किमेतादृशं
यद्यस्त्येव निसर्गतः सरलता किं ग्रन्थिमत्तेदृशी ।
मूलं चेच्छुवि पङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी
किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे ॥
त्वं भोगी यदि कुण्डली यदि भवांस्त्वं चेद्भुजंगः सखे
धत्से चेन्मुकुटं सरत्नमुरग स्वस्त्यस्तु ते किं ततः ।
अस्थाने यदि कञ्चुकं त्यजसि तन्नास्माकमत्र स्पृहा
किं तु क्रूरविषोल्कया दहसि यद्भ्रातः क एष ग्रहः ॥
मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो
निर्यत्नोपनतैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।
अन्यत्रानृजु वर्त्म वाग्वितसना दृष्टौ विषं दृश्यते
यादृक्तामनु दीपको ज्वलति किं भोगिन्सखे किन्विदम् ॥
भूयांस्यस्य मुखानि नाम विदितैवास्ते महासत्त्वता
कद्र्वाः प्राक्प्रसवोयमत्र कुपिते चिन्त्यं यथेदं जगत् ।
त्रैलोक्याद्भुतमीदृशं तु चरितं शोषस्य येनास्य सा
प्रोन्मृज्येव निवर्तिता विषधरज्ञानेपि दुर्वर्णिका ॥
किं तेन हेमगिरिणा रजताद्रिणा वा
यस्याश्रयेण तरवस्तरवस्त एव ।
मन्यामहे मलयमेव यदाश्रितानि
शाहोटनिम्बकुटजान्यपि चन्दनानि ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0