भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 1027-1040

1027

ये संतोषसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो
येप्येते धनलोभसंकुलधियस्तेषां तु दूरे नृणाम् ।
इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥

1028

द्रव्याणामधरोत्तरव्यतिकरो भग्नाशयानामधो
बीजानां नयनं स्वयं च निजवच्छिद्रक्रियान्वेषणम् ।
व्यूहाबन्धविधायिभिर्गतभयैर्मुग्धप्रसुप्तार्भकं
शून्यं प्राप्य निवासमाखुभिरहो किं किं न यद्यत्कृतम् ॥

1029

अन्योन्यस्य लयं भयादिव महाभूतेषु यातेष्वलं
कल्पान्ते परमेक एव स तरुः स्कन्धोच्चयैर्जृम्भते ।
विन्यस्य त्रिजगन्ति कुक्षिकुहरे देवेन यस्यास्यते
शाखाग्रे शिशुनेव सेवितजलक्रीडाविलासालसम् ॥त्रिविक्रमस्य

1030

त्रैलोक्योपकृतिप्रसक्तमनसो देवस्य शंभोः प्रिया
जाता शैलकुले वरैरभिमतैरानन्दयन्ती सुरान् ।
म्लेच्छानामपि वाञ्छितार्पणपरा स्वस्यास्पदस्याम्बिका
विन्ध्यस्योन्नतिमातनोति न निजां दैवस्य कीदृग्बलम् ॥भा. अमृतदत्तस्य

1031

किं त्वं हालिक मूढधीर्हतफलं मा मा कृथा लाङ्गलं
क्षेत्रं नैव भवत्यधः कठिनता नैवात्र दृष्टा त्वया ।
उल्लेखोपि न जायतेत्र विरम क्लेशः फलं केवलं
निर्बीजा बहवो गताश्च सततं दृष्टाः श्रुता वा न किम् ॥कस्यापि

1032

कोयं भ्रान्तिप्रकारस्तव पवन घनावस्करस्थानजातं
तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम् ।
यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
केनोपायेन सह्यो वपुषि मलिनतादोष एष त्वयैव ॥भा. अमृतदत्तस्य

1033

जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं
श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् ।
संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥कस्यापि

1034

कटु रटसि किमेवं कर्णयोः कुञ्जरारे-
रविदितनिजबुद्धे किं न विज्ञातमस्ति ।
शिरतरकरदंष्ट्राटङ्कनिर्भिन्नकुम्भं
मशक गलकरन्ध्रे हस्तियूथं ममज्ज ॥कस्यापि

1035

उद्रर्जन्कुटिलस्तटाश्रयतरुप्रोन्मूलनोड्डामरो
मा गर्वीः सरितः प्रवाह जलधिं प्रक्षोभयामीति भोः ।
स्वां सत्तां यदि वाञ्छसि भ्रम मरुष्वेवाःस्व तत्रैव वा
दूरे वाडववह्निरत्र तु महासत्त्वैर्विशन्पीयसे ॥

1036

स्थैर्यं तुङ्गशिरा जगत्स्थितिकृते वेलामहीभृच्छ्रितो
दूरात्प्रेरणया कलावत इमं क्रान्तुं जलानां पते ।
मिथ्या वाञ्छसि किं ततस्तव परं स्याद्रत्नसत्त्वक्षयो
नूनं घट्टनमाप्य पादतलगस्त्वस्यैव चान्ते लुठेः ॥

1037

आन्दोलयस्यविरतं गगनार्कमङ्के
तारागणं च शशिनं च तथेतराणि ।
तेजांसि भासुरतडित्प्रभृतीनि साधो
चित्रं तथापि न जहासि यदान्ध्यमन्तः ॥

1038

अयं स भुवनत्रयप्रथितसंयमः शंकरो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयमिति प्रियायाः करं
करेण परिपीडयञ्जयति जातहासः स्मरः ॥

1039

भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपव्योमलक्ष्मीमुषो ये
क्षीवा ये कृष्णशारा नरहृदयभिदस्तारकक्रूरशल्याः ।
ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः
पायासुर्वोतिवीर्यास्त्रिभुवनजयिनः पञ्चबाणस्य बाणाः ॥

1040

गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc