भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0967-0986

0967

हेमकार सुधियो नमोस्तु ते
दुस्तरेषु बहुशः परीक्षितुम् ।
काञ्चनाभरणमश्मना समं
यत्त्वयैतदधुरोप्यते तुलाम् ॥

0968

वृत्ते एव स घटोन्धकूप यस्-
त्वत्प्रसादमपनेतुमक्षमः ।
मुद्रितं त्वधमचेष्टितं त्वया
तन्मुखाम्बुकणिकाः प्रतीच्छता ॥

0969

शतपदी सति पादशते क्षमा
यदि न गोष्पदमप्यतिवर्तितुम् ।
किमियता द्विपदस्य हनूमतो
जलधिविक्रमणे विवदामहे ॥

0970

न गुरुवंशपरिग्रहशौण्डता
न च महागुणसंग्रहणादरः ।
फलविधानकथापि न मार्गणे
किमिह लुब्धकबाल गृहेधुना ॥

0971

तृणमणेर्मनुजस्य च तद्वतः
किमुभयोर्विपुलाशयतोच्यते ।
तनु तृणाग्रलवावयवैर्ययोर्-
अवसिते ग्रहण प्रतिपादने ॥

0972

भ्रातः सुवर्णमयरूपकतारचित्रा-
लंकारयत्नघटनासु सुवर्णकार ।
दूरीकुरु श्रममिहाद्य सुवर्णपात्रे
दुर्वर्णयोजयितुरस्ति महार्घलाभः ॥

0973

तनुतृणाग्रधृतेन हृतश्चिरं
क इह येन न मौक्तिकशङ्कया ।
स जलबिन्दुरतो विपरीतदृग्-
जगदिदं वयमत्र सचेतनाः ॥

0974

रे दन्दशूक तदयुक्तमपीश्वरस्त्वां
वाल्लभ्यतो नयति नूपुरधाम सत्यम् ।
आवर्जितालिकुलसत्कृतिमूर्छितानि
किं शिञ्जितानि भवतः क्षम एष कर्तुम् ॥

0975

सुवर्णकार श्रवणोचितानि
वस्तूनि विक्रेतुमिहागतोसि ।
अद्यापि नाश्रावि यदत्र पल्ल्यां
पल्लीपतिर्नूनमविद्धकर्णः ॥

0976

तानुन्नतान्क्षितिभृतो ननु रूपयामः
पक्षक्षयव्यतिकरे मथितं तदोजः ।
युक्तं किमौर्वशिखिनः परिकोपितस्य
तेजस्विनोप्युदधिनिर्मथनं विसोढुम् ॥

0977

चित्रं कियद्यदयमम्बुधिरम्बुदौघ-
सिन्धुप्रवाहपरिपूर्णतया महीयान् ।
त्वं त्वर्थिनामुपकरोषि यदल्पकूप
निष्पीड्य कुक्षिकुहरं हि महत्त्वमेतत् ॥

0978

धिग्वाडवं दहनमर्थितया विपक्ष-
मभ्येति यः स्वजठरप्रतिपूरणाय ।
धिग्वारिराशिमपि यस्तु तथाविधस्य
शत्रोर्जलैरपि न पूरयभिलाषम् ॥

0979

शावान्कुलायकगतान्परिपातुकामा
नद्याः प्रगृह्य लघु पक्षपुटेन तोयम् ।
दावानलं किल सिषेच मुहुः कोपोती
स्निग्धो जनो न खलु चिन्तयते स्वपीडाम् ॥

0980

काकः स्वभावचपलः परिशुद्धवृत्तिर्-
लब्ध्वा बलिं स्वजनमाह्वयते परांश्च ।
चर्मास्थिमांसवति हस्तिकलेवरेपि
श्वा द्वेष्टि हन्ति च परान्कृपणस्वभावः ॥

0981

आदायि वारि यत एव जहाति भूयस्-
तत्रैव यः स जलदः प्रथमो जडानाम् ।
वान्तं प्रतीप्सति तदेव तदेव यस्तु
स्त्रोतः पतिः स निरपत्रपसार्थवाहः ॥

0982

बुध्यामहे न बहुधापि विकल्पमानाः
कैर्नामभिर्व्यपदिशाम महामतींस्तान् ।
येषामशेषभुवनाभरणस्य हेम्नस्-
तत्त्वं विवेक्तुमुपलाः परमं प्रमाणम् ॥

0983

न म्लानितान्यखिलधामवतां मुखानि
नास्तं तमो न च कृतो भुवनोपकारः ।
सूर्यात्मजोहमिति केन गुणेन लोकान्-
प्रत्यापयिष्यसि शने शपथं विना त्वम् ॥

0984

संरक्षितुं कृषिमकारि कृषीवलेन
पश्यात्मनः प्रतिकृतिस्तृणपूरुषोयम् ।
स्तब्धस्य निष्क्रियतयास्तभियोस्य नून-
मत्स्यन्ति गोमृगगनाः पुनरेव सस्यम् ॥

0985

कस्यानिमेषवितते नयने दिवौको-
लोकादृते जगति ते अपि वै गृहीत्वा ।
पिण्डे प्रसारितमुखेन तिमे किमेतद्-
दृष्टं न बालिश विशद्बडिशं त्वयान्तः ॥

0986

आ जन्मनः कुशलमण्वपि ते कुजन्मन्-
पांसो त्वया यदि कृतं वद तत्त्वमेतत् ।
उत्थापितोस्यनलसारथिना यदर्थं
दुष्टेन तत्कुरु कलङ्कय विश्वमेतत् ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc