भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0947-0966

0947

परार्थे यः पीडामनुभवति भङ्गेपि मधुरो
यदीयः सर्वेषामिह खलु विकारोप्यभिमतः ।
न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्दोषोसौ न पुनरगुणाया मरुभवः ॥

0948

तापः स्वात्मनि संश्रितद्रुमलतादोषोध्वगैर्वर्जनं
सत्यं तीव्रतया तृषस्तव मरो कोसावनर्थोदयः ।
नन्वर्थः सुमहानयं जललवस्वाम्यस्मयोद्गर्जिनः
संनह्यन्ति यतस्तवोपकृतये धाराधराः प्राकृताः ॥

0949

एवं चोद्विधिना कृतोस्युपकृतौ कस्यांचिदप्यक्षमः
कामं मोपकृथास्ततस्तव मरो वाच्यं न धीरो भव ।
किं त्वारान्मृगतृष्णयोपजनयन्नम्भोमुचां वञ्चनां
प्रेम्णा कर्षसि तर्षमूर्छितधियोप्यन्यानतः शोच्यसे ॥

0950

आम्राः किं फलभारनभ्रशिरसो रम्याः किमूष्मच्छिदः
सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः ।
एतास्ता निरवग्रहोग्रकरभोल्लीढावरूढाः पुनः
शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥

0951

जलान्तराणि श्वभ्रेषु तिष्ठन्तु क्वापि यान्तु वा ।
सुरसिन्धुप्रवाहस्य सृतौ रत्नाकरोवधिः ॥

0952

क्वान्तः शून्यो नडः क्वेक्षुस्तथापि सुदृशाकृती ।
विवेकशून्यमनसां विप्रलम्भाय निर्मितौ ॥

0953

नास्य भारग्रहे शक्तिर्न च वाहगुणः कृषौ ।
देवागारबलीवर्दस्तथाप्यश्नाति शोभनम् ॥

0954

नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥

0955

वरमुन्नतलाङ्गूलात्सटाधूननभीषणात् ।
सिंहात्पादप्रहारोपि न सृगालाधिरोहणम् ॥

0956

गन्धैकसारो विफलः सेव्यश्चन्दनपादपः ।
भुजंगाः पवनाहाराः सेवकाः सदृशो विधिः ॥

0957

क्व गतो मृगो न जीवत्यनुदिनमश्नंस्तृणानि विविधानि ।
स्वयमाहतगजभोक्तुः सिंहस्य तु दुर्लभा वृत्तिः ॥

0958

वक्रमशय्यासंस्थितमन्तःकोटरमनेकदुर्ग्रन्थि ।
प्रगुणीकर्तुं शक्तो दुर्दारु न विश्वकर्मापि ॥

0959

न तदनुकृतं मनागपि न वा जलं सुचिरसेवितैः शीतम् ।
अन्धीकृते कुदीपैः प्रत्युत धूमेन मे नयने ॥

0960

उत्सन्नमापणममुं द्रक्ष्यामो निर्मलैः कदा नयनैः ।
चिन्तामणिकाचकणौ विपरीतगुणागुणौ यत्र ॥

0961

उज्ज्वलचम्पकमुकुलाशङ्कितया यः प्रदीपकं स्पृशति ।
कज्जलकलङ्कदाहं मुक्त्वान्यत्तस्य किं घटताम् ॥

0962

शिखरी चितशिखरशिखः स्फुरदौर्वशिखाकदम्बकोम्बुनिधिः ।
कस्यापि लङ्घनीयौ न तु नगरावकरनिकरोयम् ॥

0963

फणमणिभासुरगुरतरसमर्थबहुमस्तके शेषे ।
कः क्षितिभरमुद्वोढुं प्रार्थयते कृपणकणिकीटान् ॥

0964

यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् ।
यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥

0965

शरदि समग्रनिशाकरकरशतहततिमिरसंचया रजनी ।
जलदान्तरितार्कामपि दिवसच्छायां न पूरयति ॥

0966

मृदुसुभगपरिकररुचोप्यनुचितमिदमेकमेव मदनस्य ।
यदनेन कृतः केतौ मकरो दंष्ट्राकरालमुखः ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc