सुभाषितावलि · श्लोक 0927-0946
नित्यं तथा शृणु कुशेशय मद्वचांसि
स्नेहेन यानि भवतः कथयामि किंचित् ।
कान्त्यानया विमलया भ्रमरैर्गुणैर्वा
किं यासि रम्यतमतामुत कण्टकर्द्धेः ॥
संकोचमेहि बिसपुष्प जहीहि शोभां
दोषाकरोयमधुना समुदेति पश्य ।
वक्रात्मनि प्रभवति क्रमशो विचिन्त्य
प्रच्छन्नता गुणवतां स्वयमेव योग्या ॥
त्रुट्यद्गुणोपि बहुकण्टकतां गतोपि
रन्ध्रान्वितोपि हतकर्दमसंभवोपि ।
भृङ्गोपभोग्यविभवोपि तथापि पद्मो
मित्रोदये विकसनं लभते सदैव ॥
कामं भवन्तु मधुलम्पटषट्पदौघ-
संघट्टघुंघुमघनध्वनयोब्जखण्डाः ।
गायन्नतिश्रुतिसुखं विधिरेव यत्र
भृङ्गः स कोपि धरणिधरनाभिपद्मः ॥
तापापहे सहृदये रुचिरे प्रबुद्धे
मित्रानुरागनिरते धृतसद्गुणौघे ।
स्वाङ्गप्रदानपरितोषितषट्पदेस्मिन्-
युक्तं तवेह कमले कमले स्थितिर्यत् ॥
न पङ्कादुद्भूतिर्न जडसहवासव्यसनिता
वपुर्दिग्धं कान्त्या स्थलनलिन रत्नद्युतिमुषा ।
व्यधास्यद्दुर्वेधा हृदयलघिमानं यदि न ते
त्वमेवैकं लक्ष्म्याः परममभविष्यः पदमिह ॥
उत्पन्ना बहवस्तलेषु सरसामम्भोरुहाणां चया
ये यामिन्यधिपानुकारिरमणीवक्त्रोपमानं गताः ।
नाभौ भौमरिपोरजायत महापद्मः स कोप्येकको
यस्त्रैलोक्यसमुद्भवप्रभवितुर्जन्मावनित्वं गतः ॥
पुष्येन्यत्रावकाशो निपुणमपहृतः सौरभालोभनाभिः
स्वाभोगेन्तःप्रवेशोप्यशिथिलनिविडः कोशभावान्न दत्तः ।
नीत्वा नैराश्यमित्थं गलितगतिरसौ मुग्धबुद्धिः प्रदोषे
पद्मेन श्रीमतापि प्रसभमुभयतो भ्रंशितः पश्य भृङ्गः ॥
भ्रातः पङ्कज संकोचः कंचित्कालं विषह्यताम् ।
सैव प्रभाते शोभा ते भाते दिनकरे भवेत् ॥
अधोगतिं च संप्राप्य बिसाः पङ्ककलङ्किताः ।
गुणिनो निर्गुणैर्दाशैः कृष्टाः स्वाङ्कुरदर्शिताः ॥
तदङ्कुराणि पद्मानि गुणैर्युक्तानि मानिभिः ।
शिरसा धार्यमाणानि मीलितानि जडात्मना ॥
मरौ नास्त्येव सलिलं कृछ्राद्यद्यपि लभ्यते ।
तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥
चटुलचातकचञ्चुपुटात्पत-
ञ्जलकणोपि मरोरतिगोचरः ।
स पुनरद्य घनागमबन्धुना
जलधरेण जलैरपरः कृतः ॥
किं पान्थ निर्मथनसिद्ध्युपयोगिवस्तु-
संभारशालिनि मरौ सुगृहीतनाम्नि ।
संदृश्यतेतिविपरीतमिदं हि तत्र
कूपोस्ति तत्र च जलं यदयत्नलभ्यम् ॥
अस्मिन्मरौ किमपरं वचसामवाच्यं
मा मुञ्च पान्थ मुहुराश्रितवत्सलो भूः ।
एतत्त्वया जललवामिषलालसेन
दृष्टं ज्वलत्परिकरं सिकतावितानम् ॥
सत्पादपान्विपुलपल्लवपुष्पभार-
संपत्परीतवपुषः फलभारनभ्रान् ।
यो मुञ्जुशिञ्जितशकुन्तशताश्रितोरु-
शाखान्मरौ मृगयते न ततोस्ति मुग्धः ॥
जलतरुतृणशून्यः श्राम्यतामध्वगानां
किमपि किल बताहं नोपकर्तुं समर्थः ।
इति न परमभीक्ष्णं नानुशेते न यावच्-
छठमरुरनृताम्भःप्राप्तये तान्प्रयुङ्क्ते ॥
गतमतिजवाद्भ्रान्तं भ्रान्तं समुत्कषिता च भूश्-
चिरतरमथो निःश्वस्याथो सदैन्यमवस्थितम् ।
किमिव न कृतं पान्थेनेत्थं तथापि शठो मरुः
प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रताम् ॥
इतः काकानीकं प्रतिभयमितः कौशिककृता-
दितोमी गृध्राद्याः कुलमिदमितः कङ्कवयसाम् ।
श्मशानस्थानेस्मिन्नखिलगुणवन्ध्ये हततराव्-
अपि द्वित्राः केचिन्न खलु कलवाचः शकुनयः ॥
किमसि विमतिः किं वोब्मादी क्षणादभिलक्ष्यसे
पुनरपि पुनः प्रेक्षापूर्वा न काचन ते क्रिया ।
स्वयमजलकां जानानोपि प्रविश्य मरुस्थलीं
शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0