भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0907-0926

0907

दूरे कस्यचिदेष कोप्यकृतधीर्नैवास्य वेत्त्यन्तरं
मानी कोपि न याचते मृगयते कोप्यल्पमल्पाशयः ।
इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला
जाता नैपुणदुस्तरेषु निकषा स्थानेषु चिन्तामणेः ॥

0908

ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययःपिण्डिकां
ते दृष्टाः प्रतिधाम दग्धमणयो विच्छिन्नसंख्याश्चिरम् ।
नो जाने किमभावतः किमथवा दैवादिह श्रूयते
नामाप्यत्र न तादृशस्य तु मणे रत्नानि गृह्णाति यः ॥

0909

यन्मुक्तामणयोम्बुधेरुदरतः क्षिप्ता महावीचिभिः
पर्यन्तेषु लुठन्ति निर्मलरुचा स्पष्टाट्टहासा इव ।
तत्तस्यैव परिक्षयाज्जलनिधेर्द्वीपान्तरालम्बिनां
रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥

0910

माणिक्योयं महार्घः क्षितितलमहितो दीप्तिमानुच्चजन्मा
दृष्ट्वैनं नूनमाराद्व्यपसरतितरां कापि दौर्गत्यनीतिः ।
इत्थं भ्रान्तिप्रपञ्चैर्विपदपहृतये केनचित्स्थापितः स-
न्नन्ते दृष्टः स एव व्रणशतपरुषः कोपि पाषाणखण्डः ॥

0911

यामः स्वस्ति तवास्तु रोहणगिरे मत्तः स्थितिप्रच्युता
वर्तिष्यन्त इमे कथं कथमिति स्वप्नेपि मैवं कृथाः ।
श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा
ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः ॥

0912

उच्चैरुच्चरतु चिरं चीरी वर्त्मनि तरुं समारुह्य ।
दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः ॥

0913

शङ्खोस्थिशेषः स्फुटितो मृतो यद्-
उच्छ्वासितेनोच्छ्वसते नु सत्यम् ।
किं तूच्चरत्येव न सोस्य शब्दः
श्रव्यो न यो यो न सदर्थशंसी ॥

0914

प्राणान्विहाय धवलत्वगुणोचितानि
प्राप्तानि यज्जगतिवक्त्रविशेषयोगात् ।
शङ्खैर्महाविभवशब्दविजृम्भितानि
तज्जीवितं सहृदयाः प्रभवन्ति येषाम् ॥

0915

धीरः श्रोत्रसुखावहोपि सदृशः सत्यं परं मङ्गलं
क्वापि ग्रामसुराङ्गणे स तु लसन्संध्यासु शङ्खध्वनिः ।
माद्यन्मेदुरसारमेयसरलग्रीवाग्रदीर्घीभवन्-
नादो नाम कृतानुकारमुदितग्राम्याट्टहासाहतः ॥

0916

रत्नाकराज्जनिभुवोप्यपचायमानः
शुष्कास्थिशेषतनुतामपि लम्बमानः ।
श्वासैः सफूत्कृतिभिरप्युपहन्यमानः
शुद्धाशयो वदति मङ्गलमेव शङ्खः ॥

0917

शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः
पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः ।
एकः कोपि स पाञ्चजन्य उदभूदाश्चर्यभूतः सतां
यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥

0918

सर्वाशापरिपूरि हुंकृतमदो जन्मापि दुग्धोदधेर्-
गोविन्दाननचुम्बि सुनदरतरं पूर्णेन्दुबिम्बाद्वपुः ।
श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि यत्-
कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे ॥

0919

वरमश्रीकतैवास्तु नेतरश्रीसमानता ।
इति कैरवकोद्भेदे कमलं मुकुलायते ॥

0920

लक्ष्मीसंपर्करूपोयं दोषः पद्मस्य निश्चितम् ।
यदयं गुणसंदोहधामनीन्दौ पराङ्मुखः ॥

0921

अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ॥

0922

किं दीर्घदीर्घेषु गुणेषु पद्म
सितेष्ववच्छादनकारणं ते ।
अस्त्येव तान्पश्यति चेदनार्या
त्रस्तेव लक्ष्मीर्न पदं विधत्ते ॥

0923

स्थलकुशेशय संचिनु कण्टकान्-
प्रथय पङ्ककुलोद्भवतां मुदा ।
अपि बधान धृतिं जलसंगमे
व्रजसि येन परास्पदतां श्रियः ॥

0924

अक्षेष्वियं व्यसनिता हृदये यदेते
रागो घनो मधुमदोत्कटमाननं च ।
पद्मस्तथापि परमास्पदमेव लक्ष्म्यास्-
तद्दैन्यमेव किल दुर्भगता यदेभिः ॥

0925

पद्मादयो बहुगुणा अपि यन्निशासु
नाशं न यान्ति विरहेण दिवाकरस्य ।
तत्पङ्कसंकरजलाशयजन्मजाड्य-
ज्यायोविजृम्भितमिदं त्रिजगत्प्रतीतम् ॥

0926

लक्ष्मीं विशेषय कुशेशय कौशलाङ्कां
जृम्भा जहीहि चलतां च विमुञ्च किंचित् ।
आशागतान्यलिकुलानि मुदं नयेह
मित्त्रे विधौ सति विधत्स यथेष्टमेतत् ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc