सुभाषितावलि · श्लोक 0887-0906
वैकुण्ठायश्रियमभिनवं शीतभानुं भवाय
प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्क्व गण्यम् ।
तृष्णार्ताय स्वमपि मुनये यद्ददाति स्म देहं
कोन्यस्तस्माद्भवति भुवनेष्वम्बुधेर्बोधिसत्त्वः ॥
रत्नोज्ज्वलाः प्रविकिरल्लंहरीः समीरैर्-
अब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः ।
दोषोर्थिनः स खलु भाग्यविपर्ययाणां
दातुर्मनागपि न तस्य तु दातृतायाः ॥
अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरै-
रात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ।
व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः
प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते स्वामिभिः ॥
स्वस्त्यस्तु विद्रुमलतासुमनोमणिभ्यः
कल्याणिनी भवतु मौक्तिकशुक्तिपङ्क्तिः ।
प्राप्तं मया सकलमेव फलं पयोधेर्-
यद्दारुणैर्जलचरैर्न विदारितोस्मि ॥
आदाय वारि परितः सरितां मुखेभ्यः
किं तावदर्जितमनेन दुरर्णवेन ।
क्षारीकृतं च वडवादहने हुतं च
पातालकुक्षिकुहरे विनिवेशितं च ॥
कालप्राप्तं महारत्नं यो न गृह्णात्यबुद्धिमान् ।
अन्यहस्तगतं दृष्ट्वा पश्चात्स परितप्यते ॥
भिद्यतेनुप्रविश्यान्तर्यो यथारुच्युपाधिना ।
विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः ॥
स्फटिकस्य गुणो योसौ स एवायाति दोषताम् ।
धत्ते स्वच्छतया छायां यस्तां मलवतामपि ॥
येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ।
अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ॥
शुष्कतनुतृणलवाग्रं गृह्णाति धनाशयान्यदीयं यः ।
मूढास्तृणमणिमपि तं नियुञ्जते पादरक्षायै ॥
सद्वंशजः साधुगुणः सुवृत्तः
संतापभित्तुल्यगुणोपगूढः ।
कान्तो दृशः पश्य तथापि हारः
क्षिप्तो बहिस्तुङ्गकुचद्वयेन ॥
कनकभूषणसंग्रहणोचितो
यदि मणिस्त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि हि शोभते
भवति योजयितुर्वचनीयता ॥
मरकतस्य वरं मलिनात्मता
त्यजति जातु निजां प्रकृतिं न यः ।
अमलतां स्फटिकस्य धिगञ्जसा
भजति रूपमुपान्तगतस्य यः ॥
अस्मिन्सखे ननु मणित्वमहासुभिक्षे
चिन्तामणे त्वमुपलो भव मा मणिर्भूः ।
अद्येदृशा हि मणयः प्रभवन्ति लोके
येषां तृणग्रहणकौशलमेव भूषा ॥
भूमौ पतन्नपि रजः परिधूसरोपि
जात्यन्धदुर्जनजनैरवधीरितोपि ।
त्रैलोक्यवन्दनमहामहिमानमन्तश्-
चिन्तामणिर्नहि जहाति कदाचिदेव ॥
चिन्तामणे भुवि न केनचिदीश्वरेण
मूर्ध्ना धृतोसि यदि मा स्म ततो विषीदः ।
नास्त्येव हि त्वदधिरोपणपुण्यबीजं
सौभाग्ययोग्यमिह कस्यचिदुत्तमाङ्गम् ॥
चिन्तामणेस्तृणमणेश्च कृतं विधात्रा
केनोभयोरपि मणित्वमदः समानम् ।
नैकोर्थितानि दददर्थिजनाय खिन्नो
गृह्णञ्जरत्तृणलवं न तु लज्जितोन्यः ॥
मनोरथशतैर्वृतो भुवननाथचूडोचितस्-
तृणैरलमधः कृतः कृतपदः क्वचिद्ग्रावसु ।
व्रजत्यपि सचेतसां विषयमीदृशां यो दृशो
लुठत्यचलकंदरे विधुर एष चिन्तामणिः ॥
परामृषति सस्पृहं मुहुरपेलवं वीक्षते
महत्किमपि रत्नमित्यसमसंमदं गूहते ।
कुतोपि परिलेपवच्छविमवाप्य काचोपले
वहत्यतिकदर्थनां बत वराककः पामरः ॥
किरणनिकरैराशाचक्रं चिरं परिपूरयन्-
किमिह गहेन भ्रातर्व्यर्थं समुल्लसितो भवान् ।
क इह भवतो वेत्त्यत्यन्तं निसर्गमहार्घतां
मरकतमणे दग्धग्रामे हतादरपामरे ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0