सुभाषितावलि · श्लोक 0867-0886
लज्जामहे वयमहो भृशमप्यनेके
सांयात्रिकाः सलिलराशिममी विशान्ति ।
स्कन्धाधिरोपिततदीयतटोपकण्ठ-
कौलेयकाम्बुदृतयो यदुदीर्णतृष्णाः ॥
आ स्त्रीशिशुप्रथितयैष पिपासितेभ्यः
संरक्ष्यतेम्बुधिरपेयतयैव दूरात् ।
दृष्ट्वा करालमकरालिकरालिताभिः
किं भाययस्यपरमूर्मिपरम्पराभिः ॥
धिग्धिग्धिगम्बुधिममी निरपत्रपस्य
यस्याध्वगा मरुभुवीव नितान्ततान्ताः ।
तृड्दाहशुष्कगलनिर्गतदीर्घजिह्वा
दीना विवर्तितदृशोनुतटं प्रयान्ति ॥
निर्मथ्यते यदि सुरासुरसैन्यसंघैर्-
आपूर्यते यदि जलैर्जलदापगाभिः ।
पेपीयते च वडवामुखवह्निना चेन्-
न क्षुभ्यति स्म जलधिर्न तनुत्वमेति ॥
मैनाकादिभिरद्रिभिर्मघवतः संत्रस्य यत्रास्यते
चण्डार्चिर्भगवानुदेति च यतो यत्रास्तमभ्येति च ।
शेते क्वापि निलीय यस्य जगतां कुक्ष्येकदेशे पतिर्-
गाम्भीर्यश्रियमस्य कस्तुलयितुं वारां निधेरर्हति ॥
उपकृतवता श्रीरत्नाभ्यां हरेः शशिलेखया
मनसिजरिपोः पीयूषेणाप्यशेषदिवौकसाम् ।
कथमितरथाः तेन स्थेयं यशोभरमन्थरं
यदि न मथनायासं धीरः सहेत पयोनिधिः ॥
विषमभिमुखं मुक्तं रौद्रं दिशो दश संश्रिताः
शशितरुमणिप्रायैः प्रायः प्रलोभनमाहितम् ।
किमिव न कृतं नन्थारम्भे शठेन पयोधिना
तदपि निपुणैर्नास्य क्षान्तं सुरैरमृतं विना ॥
यदिह भवतो गाम्भीर्येण प्रयाति महत्तया-
प्यनुचितगुणारम्भः कालः किमेतदनन्तरम् ।
अयि जलनिधे किं कल्लोलैरलब्धसमाप्तिभिर्-
विरम सरितामेतत्तोयं न तेस्ति मनागपि ॥
समाश्रित्योत्सङ्गं विपृतवदनस्यास्य वसतः
क्षणेनैकस्यान्तर्ज्वलितवपुषो यत्क्षणमपि ।
न तृष्णामौर्वाग्नेरपनयति पुष्टेपि विभवे
नृशंसस्याम्भोधेर्व्रजतु विलयं सोस्य महिमा ॥
अहो बत सरित्पतेरिदमनार्यरूपं परं
यदुज्ज्वलरुचीन्मणीन्सुचिरचर्चितास्थागुणान् ।
जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः
क्षिपत्यनिशमूर्जितैर्झगिति तन्मयत्वं गतः ॥
इहैकश्चूडालोभ्यजनि कलशाद्यस्य सकलैः
पिपासोरम्भोभिश्चुलुकमपि नो भर्तुमशकः ।
स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः
कुषित्वा क्लिश्नासि श्रुतिकुहरमब्धे किमिति नः ॥
रूक्षं क्षारमपेयमत्र सलिलं लब्ध्वा परं तप्यते
व्यालग्राहभियावगाहनमपि स्वस्थेन नासाद्यते ।
तत्किं पान्थ पयोधिनामनि मरौ तृष्णाविमूढो भवान्-
अन्तर्निह्नुतिनाशितामलमणिव्राते मुधा धावसि ॥
सर्वासां त्रिजगत्यपामियमसावाधारता तावकी
प्रोल्लासोयमसौ तवाम्बुनिलये सेयं महासत्त्वता ।
सेवित्वा बहुभङ्गभीषणतनुं त्वामेव वेलाचल-
ग्रावस्रोतसि पाप तापकलहो यत्क्वापि निर्वाप्यते ॥
कल्लोलैर्विकिरत्वसौ गिरिवरान्वेलाविलासोत्थितैः
शब्दैर्वा बधिरीकरोतु ककुभो धत्तां च विस्तीर्णताम् ।
पान्थानां रवितापतप्तवपुषां तृष्णातिरेकच्छिदः
किं साम्यं प्रतनोः करोतु सरसोप्यब्धिः कृताडमबरः ॥
दतं येन सुधानिधानमसमं सत्त्वाधिकेनार्थिने
श्रीवासोपि महामणिर्विधुरसौ कल्पद्रुमो गौस्तथा ।
शापात्क्षारजलस्तथापि जलधिः प्राप्तायशा इत्यहो
लोकोयं तृणवद्गुणं विगणयन्दोषग्रहैकाग्रधीः ॥
हा कष्टं तटवासिनोपि विफलप्राग्भारमालोक्य माम्-
अन्यत्रैव विपासवः प्रतिदिनं गच्छन्त्यमी जन्तवः ।
इत्थं व्यर्थजलातिभारवहनप्रोद्भूतखेदादिव
स्वां मूर्तिं वडवानले जलनिधिर्मन्ये जुहोत्यन्वहम् ॥
मर्यादापरिपालनेन महतां क्षौणीभृतां रक्षणाद्-
विश्रान्त्या मधुसूदनस्य सुचिरं यत्किंचिदासादितम् ।
गाम्भीर्योचितमात्मनो जलधिना मन्थव्यथासंभ्रमाद्-
देवेष्वर्पयतामृतं द्रुतमहो सर्वं तदुत्पुंसितम् ॥
आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर्-
यत्कर्मातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते ।
एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर्-
अन्यस्यापि महात्मनो न वपुषः स्वल्पोपि जातः श्रमः ॥
नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं
त्वां पृच्छामि यदम्बुधे किमपि तन्निश्चित्य देह्युत्तरम् ।
नैराश्यानुशयातिमात्रनिशितं निःश्वस्य यद्दृश्यसे
तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः ॥
इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्-
इतश्च शरणार्थिनां शिखरिणां गुणाः शेरते ।
इतश्च वडवानलः सह समस्तसंवर्तकैर्-
अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0