भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0847-0866

0847

पश्यामः किमयं विचेष्टत इति स्वल्पाभ्रसिद्धिक्रियैर्-
दर्पाद्दूरमुपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः ।
लब्धात्मप्रसरेण रक्षितुमथाशक्येन मुक्त्वाशनिं
स्फीतस्तावदहो घनेन रिपुणा दग्धो गिरिग्रामकः ॥

0848

गर्जित्वा बहु संनिरुध्य गगनं प्रच्छाद्य दिङ्मण्डलं
संपाद्योद्दलितेन्द्रनीलशकलश्यामाभिरामं वपुः ।
प्राप्ते वारिधरागमेपि सलिलं तत्त्यक्तमम्भोमुचा
चञ्चूश्रातकपोतकस्य सकला सिक्ता न येन स्वयम् ॥

0849

अत्रोत्पातघनेन मन्त्रिविकले शून्याम्बरव्यापिना
धृष्टस्वप्रकृतिक्रियासमुचिते ग्रामे तथा जृम्भितम् ।
रथ्याकर्दमवाहिनामतिशुचिस्वच्छात्मनामन्तरं
नाप्यज्ञायि जनैर्यथौघपयसां स्त्रोतोजलानामपि ॥

0850

रे मेघाः स्वशरीरदानगुरु किं बौद्धं यशो न श्रुतं
यष्माभिः किमु पारिजातचरितं नाकर्णितं वा क्वचित् ।
येनैतत्सुखलभ्यमम्बु ददतां युष्माकमुद्गर्जतां
नो लज्जाप्यभिजायतेतिरभसाद्व्योम्न्युद्धतं धावताम् ॥

0851

स्थाने वर्षति नैव गर्जति वृथा क्लान्तिं हरत्यञ्जसा
क्षेत्राणां परितापजर्जररुचां क्षेमंकरः क्ष्मातले ।
यद्यद्भद्रकसान्द्रतां हृदि दधात्यन्यत्करोत्युल्लस-
न्सन्मेघोयममोघदर्शनघनस्निग्धच्छविर्वर्धताम् ॥

0852

नो गर्जत्यम्बुराशिस्त्रिजगदधिपतिप्रार्थितार्थप्रदान-
व्यापार्स्फीतकीर्तिः स्फुरदन्लशिखानर्घरत्नैकपूर्णः ।
तत्तोयस्तोकमात्रव्यपहृतविकृतिः प्राकृतोयं प्रकृत्या
शून्ये क्षिप्त्वाम्बु गर्जत्यगणितनिधनो वारिवाहः सगर्वम् ॥

0853

न पालयति मर्यादां वेलाख्यामम्बुधिस्तथा ।
तृष्यतां नोपकर्तव्यमितीमामपरां यथा ॥

0854

गवादीनां पयोन्येद्युः सद्यो वा दधि जायते ।
क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥

0855

यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।
तथापि जानुदघ्नोयमिति चेतसि मा कृथाः ॥

0856

यस्याम्बुकणिकाप्यास्ये न पतत्यर्थीनां क्वचित् ।
कष्टमम्भोनिधिः सोपि नदीन इति कथ्यते ॥

0857

यातु नाशं समुद्रस्य महिमा स भुवि श्रुतः ।
वाडवः क्षुत्पिपासार्तो येनैकोपि न तर्पितः ॥

0858

अमृतरसविसरअवितरणमरणोत्तारितसुरे सति पयोधौ ।
कस्य स्फुरन्ति हृदये ग्रीष्मतडाका भुवि वराकाः ॥

0859

यदयं शशिशेखरो हरो
हरिरप्येष यदीशिता श्रियः ।
अमरा अपि यत्सुरा अमी
तदिमास्तस्य विभूतिविप्रुषः ॥

0860

क्षारतैव हि गुणस्तथास्ति ते
येन न व्रजति कश्चिदन्तिकम् ।
भीषणाकृति बिभर्षि यादसां
चक्रमर्णव किमर्थमग्रतः ॥

0861

अपास्य लक्ष्मीहरणोत्थवैरिता-
मचिन्तयित्वा च तदद्रिमन्थनम् ।
ददौ निवासं हरये महोदधिर्-
विमत्सरा धीरधियां हि वृत्तयः ॥

0862

जितेन्दुभासो नयतां मणिनधस्-
तृणानि मूर्ध्ना बिभृतां जलेश्वरः ।
प्रभोर्न कश्चित्प्रभुरस्ति तत्त्वतो
रत्नानि रत्नानि तृणं तृणं पुनः ॥

0863

ग्रीष्मं द्विषन्तु जलदागमर्थयन्तां
ते संकटप्रकृतयः कृपणास्तडागाः ।
अब्धेस्तु मुग्धशफरीचटुलाचलेन्द्र-
निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यम् ॥

0864

ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी
मुक्तौघः सिकता प्रवाललतिकाः शेवालमम्भः सुधा ।
तीरे कल्पमहीरुहाः किमपरं नामापि रत्नाकरो
दूरात्कर्णरसायनं निकटतस्तृष्नापि नो शाम्यति ॥

0865

आस्तां क्लमापहरणं जलधेर्जलेन
दूरे दवाग्निपरिदीपितमानसानाम् ।
एतावदस्तु यदि तोयकणैर्न जिह्वा
दन्दह्यते द्विगुणतां च न याति तृष्णा ॥

0866

रत्नान्यमूनि मकरालय मावमंस्थाः
कल्लोलवेल्लितदृषत्परुषप्रहारैः ।
किं कौस्तुभेन विहितो भवतो न नाम
याञ्चाप्रसारितकरः पुरुषोत्तमोपि ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc