सुभाषितावलि · श्लोक 0827-0846
दावाग्निप्लोषदुःखं खरपवनजलक्लेशमर्काच्च तापं
मातङ्गाकर्षणानि व्यसनमपि गुरु प्राप्तवन्तोपि वज्रात् ।
दारुच्छायाफलानि त्वचमपि कुसुमं मञ्जरीः पल्लवान्वा
नार्थिभ्यो वारयन्ति प्रतिदिवसमहो साधु वृत्तं तरूणाम् ॥
हंसाः पद्मवनाशया बलिभुजो गृध्राश्च मांसाशया
पान्थाः स्वादुफलाशया मधुलिहः सौरभ्यगन्धाशया ।
दूरान्निष्फलरक्तपुष्पनिचयैर्निःसार रथ्योन्नते
रे रे शल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥
भ्रातर्भीममरुभ्रम्श्रमशमव्यापारपारंगमं
मत्वा चन्दनपादपं पथिक मा विश्रान्तये शिश्रियः ।
एतस्यान्तिकवर्तिभिर्घनविषज्वालावलीबीषणैर्-
आश्वास्य स्मृतिशेषतां विषधरैर्नींतः कियन्तोध्वगाः ॥
उच्चैर्यो मधुपानलुब्धमनसां भृङ्गाङ्गनानां गणैर्-
उद्गीतो रचितालयः खगकुलैर्देशान्तरादागतैः ।
आसीद्यश्व निषेवितोध्वगशतैर्ग्रीष्मोष्मतान्तिच्छिदे
सोयं संप्रति दुर्मदेन दलितश्छायातरुर्दन्तिना ॥
भुक्तं स्वादुफलं कृतं च शयनं शाखाग्रजैः पल्लवैस्-
त्वच्छायापरिशीतलं च सलिलं पीतं विनीतः क्लमः ।
विश्रान्तं सुचिरं ततोपि मनसा प्राप्ता परा निर्वृतिस्-
त्वं सन्मार्गतरुर्वयं च पथिका भूयास्पुनः संगमः ॥
अस्त्येव भूभृतां मूर्ध्नि दिवि वा द्योततेम्बुदः ।
मरुद्भिर्भुज्यमानोपि स किमेति रसातलम् ॥
अम्बुदः कृतपदो नभस्तले
तोयपूरपरिपूरितोदधिः ।
गोष्पदस्य भरणेप्यशक्तिमान्-
इत्यसत्यमभिदीयते कथम् ॥
एतदत्र पथिकैकजीवितं
पश्य शुष्यति कथं महत्सरः ।
धिङ्मुधाम्बुधर रुद्धसद्गतिर्-
वर्धिता किमिह हट्टवाहिनी ॥
स्वार्थानपेक्षं जनतापशान्त्यै
नित्योदिताः सन्ति पयोमुचोमी ।
विवर्षिणस्तानवगृह्णते ये
सन्त्येव ते केपि महानुभावाः ॥
क्व दृष्टमन्धेन बलाहकेन
घ्रातुं गवा यन्न तृणं निघृष्टम् ।
महातरुर्बन्धुरिवाध्वगाना-
मायात्ववश्यायकणैर्दरिद्रः ॥
उत्तुङ्गशैलशिखराश्रयणेन केचिद्-
उद्दामवीचिवलिताः सरितो भवन्ति ।
अन्ये पुनर्जलकणास्तृणलोष्टपाता-
दम्भोमुचां पयसि न क्षयमान्पुवन्ति ॥
यत्रोषितोसि चिरकालमकिंचनः सन्-
नर्णःप्रतिग्रहधनग्रहणाधमर्णः ।
निर्लज्ज गर्जसि समुद्रतटेपि तत्र
धृष्टोधमस्तव समो घन नैव दृष्टः ॥
आस्यं निरस्य रसितैः सुचिरं विहस्य
गात्रान्तरेषु घन वर्षसि चातकस्य ।
तच्चञ्चुकोटिकुटिलायतकंधरस्य
प्राणात्ययोस्य भवतः परिहासमात्रम् ॥
आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां
तोयादानां तदपि जलधेर्लोकसंतापशान्त्यै ।
दीर्घा छाया प्रकृतिमहति व्योम्नि चाभोगबन्धो
हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय ॥
आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां
तोयादानं तदपि जलधेर्लोकसंतापशान्त्यै ।
दीर्घा छाया प्रकृतिमहति व्योम्नि चाभोगबन्धो
हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय ॥
साधूत्पातघनौघ साधु सुधियां धेयं धरायामिदं
कोन्यः कर्तुमलं तवैव घटते कर्मेदृशं दुष्करम् ।
सर्वस्यौपयिकानि यानि कतिचित्क्षेत्राणि तत्राशनिः
सर्वानौपयिकेषु दग्धसिकतारण्येष्वपां वृष्टयः ॥
भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः
पाठीनैः पृथुपङ्ककूटलुठितैर्यस्मिन्मुहुर्मूर्छितम् ।
तस्मिञ्छुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं
येना कण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥
यद्भूभृतो लघुगुणैरपि बद्धमूलम्-
आपादितानि सहसैव तृणैः शिरांसि ।
अम्भोमुचः प्रचुरवर्षविशृङ्खलस्य
तच्चेष्टितं दुरवधारगतेर्जलस्य ॥
कृछ्राद्दत्ते विरलविरलान्वारिबिन्दून्प्रवृद्धो
गर्जत्येकः सरभसतरं पश्य तन्मात्रलाभात् ।
नृत्यत्यन्योप्यतुलमहिमश्लाघ्यभूमिर्न जाने
मध्यादाभ्यां विपुलहृदयश्चातकः किं नु मेघः ॥
गतास्ते जीमूताः स्फुरदलिकुलश्यामवपुषः
श्रिया येषां लोके स्थलजलविभागोप्यपहृतः ।
वृथा तृष्णान्धः किं भ्रमसि विधुरश्चातकशिशो
शरज्जीमूतोयं कुत इह पयोबिन्दुरपि ते ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0