भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0807-0826

0807

अत्यन्तशीतलतया सुभगस्वभाव
सत्यं न कश्चिदपि ते तरुरस्ति तुल्यः ।
छायार्थिनामपि पुनर्विकटद्विजिह्व-
सङ्गेन चन्दन विषद्रुमनिर्विशेषः ॥

0808

कथमियति वनान्ते कश्चिदेको न तादृग्-
वरवनतरुरुच्चैः पुष्पवल्लीफलाढ्यः ।
जगदसुखविधातुर्दग्धधातुर्नियोगाद्-
धवखदिरपलाशाः केवलं वृद्धिभाजः ॥

0809

शाखासंततिसंनिरुद्धगगनाभोगस्य लब्ध्वा तरोश्-
छायां यस्य भविद्भिरेव शमिता घर्मापदोनेकशः ।
भोः पान्था ननु दृश्यतां विधिगतिस्तस्यैव कालक्षय-
प्रक्षीणस्य तलेद्य तप्तसिकताङ्गारैवः परं दह्यते ॥

0810

चित्रैर्यस्य पतित्त्रिभिर्दशदिशो भ्रान्त्वा समेतैः सुखं
विश्रान्तं शयितं प्रभुक्तमुषितं स्कन्धे फलैः प्रश्रिते ।
तस्यैवोन्मथितस्य दुष्टकरिणा मार्गद्रुमस्याधुना
कारीषाय कषन्ति शोषपरुषां गोपालबालास्त्वचम् ॥

0811

संतोषः किमशक्तता किमथवा तस्मिन्नसंभावना
शोभैवाथ च काननिस्थितिरियं प्रद्वेष एवाथवा ।
आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे
संबन्धोननुरूपयापि न कृतः किं चन्दनस्य त्वया ॥

0812

सन्मूलः प्रथिन्नतिर्घनलसच्छायः स्थितः सत्पथे
सेव्यः सद्भिरितीदमाकलयता तालोध्वगेनाश्रितः ।
पुंसः शक्तिरियत्यसौ स तु फलेदद्याथवा श्वोथवा
काले क्वाप्यथवा कदाचिदथवा नेत्यत्र वेधाः प्रभुः ॥

0813

यज्जातोसि चतुष्पथे घनलसच्छायोसि किं छायया
संयुक्तः फलितोसि किं यदि फलैः पूर्णोसि किं संनतः ।
हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकर्षण-
क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चोष्टितैः ॥

0814

सुस्कन्धस्य विसारिसौरभगुणाक्रान्ताखिलाशस्य ते
तन्वीचारुपयोधरान्तरकृतस्पर्शस्य गोप्याकृतेः ।
दोषः कोपि भुजंगसंगमकृतः प्रोद्गूत एषोधुना
येन त्वां परिहृत्य चन्दनतरो यान्त्यध्वगा दूरतः ॥

0815

छिन्नस्तप्तसुहृत्स चन्दनतरुर्यूयं पलाय्यागता
भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास्तत्र वः ।
दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चेत्-
किं तेनैव सह स्वयं न निधनं याताःस्थ भो भोगिनः ॥

0816

त्वन्मूले पुरुषायुषं गतमिदं कालेन संशष्यतां
क्सोदीयांसमपि क्षणं परमतः शक्तिः कुतः प्राणितुम् ।
तत्स्वस्त्यस्तु विवृद्धिमेहि महतीमद्यापि का नस्त्वरा
कल्याणैः फलितासि तालविटपिन्पुत्रेषु पौत्रेषु वा ॥

0817

छायास्यैव घनासुगन्धिरयमेवापन्नतापच्छिदा-
मग्रेस्यैव गुणग्रहः सगुणता किं चन्दनस्योच्यताम् ।
आ मूलात्पुनरेषु बद्धवृतिभिर्व्यालैस्तथा दूषितो
जाने येन वरं धवोथ खदिरोप्यन्योथवा न त्वयम् ॥

0818

न श्लाष्यानि फलानि पल्लवकृता छाया न वाञ्छापि सा
नो पुष्पं सुमनोहरं न विहगाः शब्दामृतस्यन्दिनः ।
काकव्रातपुरीषनिर्भरजरन्मूर्तेरशुद्धात्मनो
निःस्तब्धस्य तरोरधः कथमहो सृष्टोसि दुर्वेधसा ॥

0819

नास्य स्वादुफलं न चारु कुसुमं न स्निग्धपर्णा लता
न च्छाया क्लमहारिणी न च कलक्वाणास्तथा पत्रिणः ।
एषोसौ खदिरदुमः किमथवा पान्थेन दृष्टस्त्वया
तत्किं पान्थ कठोरकण्टकमुखैर्गात्रक्षतार्थी भवान् ॥

0820

स्निग्धाः पल्लविनः प्रकामविटपव्याविद्धचण्डातपा
नम्राः स्वादुफला समाश्रितजनक्षुत्तापविच्छेदिनः ।
दग्धास्ते तरवः प्रयान्तु पथिकास्तेष्वेव मार्गेष्वमी
रूक्षाः काण्टकिनः ससर्पविवरा भूयः प्ररूढा द्रुमाः ॥

0821

छाया नात्मन एव या कथमसावन्यस्य निष्प्रग्रहा
ग्रीष्मोष्मापदि शीतलस्तलभूवि स्पन्दोनिलादेः कुतः ।
वार्ता वर्षशते गते किल फलं भावीति वार्तैव सा
द्राघिम्णा मुषिताः कियच्चिरमहो तालेन बाला वयम् ॥

0822

कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाहोटकं
वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकृतये मार्गस्थितस्यापि से ॥

0823

आमोदैर्मरुतो मृगाः किसलयैर्लम्बैस्त्वचा तापसाः
पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया ।
स्कन्धैर्गन्धगजाश्च विश्रमरुजाः शश्वद्विभक्तास्त्वया
प्राप्तस्त्वं द्रुम बोधिसत्त्वपदवीं सत्यं कुजाताः परे ॥

0824

भ्राम्यद्भृङ्गभरावनम्रकुसुमच्योतन्मधूद्गन्धिषु
च्छायावत्सु तलेषु पान्थनिवहा विश्रम्य गेहेष्विव ।
नित्यं निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलैस्-
ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः ॥

0825

हे हे मण्डितमार्ग मार्गविटपिञ्जीव्याः समाः शाश्वतीर्-
अद्याप्यावृणु दिक्तटानि विटपैः सालैश्चुचुम्बाम्बरम् ।
मूले विश्रमणाशयैव लुठिता यन्न त्वया केवलं
घर्मार्तेः परिमोचिताः फलशतैर्यावद्वयं तर्पिताः ॥

0826

वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता
जातोसौ सरसः प्रवासिफलदः सर्वाश्रितापाश्रयः ।
नानादेशसमागतैरविदितैराक्रान्तमन्यैः खगैस्-
तं लब्धावसरोपि वृद्धशकुनिर्दूरे स्थितो वीक्षते ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc