सुभाषितावलि · श्लोक 0786-0806
साध्वेव तद्विधावस्य वेधाः क्लिष्टो न यन्मुधा ।
स्वरूपाननुरूपेण चन्दनस्य फलेन किम् ॥
मया बदरलुब्धेन वृक्षाणामनभिज्ञया
वने कण्टकसादृश्यात्खदिरः पर्युपासितः ॥
महातरुर्वा भवति समूलो वा विनश्यति ।
नाङ्कुरप्रक्रियामेति न्यग्रोधकणिकाङ्कुरः ॥
पुष्पपत्त्रफलच्छायामूलवल्कलदारुभिः ।
धन्या महीरुहा येषां विमुखा यान्ति नार्थिनः ॥
पतत्यङ्गारवर्षे वा वाति वा प्रलयानिले ।
तालः स्तब्धतयारब्धस्तयैव सह नश्यति ॥
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।
मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥
अगतीनां खलीकाराद्दुःखं नैवोपजायते ।
भवन्त्यशोकाः प्रायेण साङ्कुराः पादताडिताः ॥
यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।
निजवपुषैव परेषां तथापि संतापमपहरति ॥
प्राप्ते वसन्तमासे वृद्धिं प्राप्नोति सकलवनराजिनः ।
यन्न करीरे पत्त्रं तत्किं दोषो वसन्तस्य ॥
फलितघनविटपविघटितपटुदिनकरमहसि लसति कल्पतरौ ।
छायार्थी कः पशुरपि भवति जरद्वीरुधां प्रणयी ॥
फलकुसुमकिसलयोज्ज्वलविटपशतान्तरिततरणिकिरणौघे ।
मार्गतरौ निकटस्थे कः पथिकः क्लान्तिमनुभवति ॥
दूरीकृतस्वार्थलवा जनस्य
समुद्यता ये भुवि तापशान्त्यै ।
द्रुमास्त एवागतिका न विद्मः
प्रजापतेराशयलेशमत्र ॥
चन्दने विषधरान्सहामहे
वस्तु सुन्दरमगुप्तिमत्कुतः ।
रक्षितुं वद किमात्मसौष्ठवं
संचिताः खदिर कण्टकास्त्वया ॥
ग्रथित एष मिथः कृतशृङ्खलो-
विषधरैरधिरुह्य महाजडः ।
मलयजः सुमनोभिरनाश्रितो
यदत एव फलेन न युज्यते ॥
यत्किंचनानुचितमप्युचितानुबन्धि
किं चन्दनस्य न कृतं कुसुमं फलं वा ।
लज्जामहे भृशमपक्रम एव यातुस्-
तस्यान्तिकं परिगृहीतबृहत्कुठारः ॥
हे बालचम्पकतरो तरुणीकपोल-
लावण्यचुम्बनसुखोचितचारुपुष्प ।
किं पुष्पितेन विजहीह विकासहास-
मुद्दामपामरगणा मरुभूमिरेषा ॥
अन्तःप्रतप्तमरुसैकतदह्यमान-
मूलस्य चम्पकतरोः क्व विकासचिन्ता ।
प्रायो भवत्यनुचितस्थितिदेशभाजां
श्रेयः स्वजीवपरिपालनमात्रमेव ॥
दौर्जन्यमात्मनि परं प्रथितं विधात्रा
भूर्जद्रुमस्य विफलत्वसमर्पणेन ।
किं चर्मभिर्निशितशस्त्रशतावकृत्तैर्-
आशां न पूरयति सोर्थिपरम्पराणाम् ॥
किं कण्टकैकरसिकेन फलद्विषा किं
वैरस्यसीमनि किमु स्थिरकौतुकेन ।
छायाविलासविमुखेन सतां किमङ्ग
छात्रा खलेन खदिरद्रुम एष सृष्टः ॥
लब्धं चिरादमृतवत्किममृत्यवे स्याद्-
दीर्घं रसायनवदायुरुत प्रदद्यात् ।
एतत्फलं यदयमध्वगशापदग्धः
स्तब्धः फलं फलति वर्षशतेन तालः ॥
हे वृक्ष शोभित महाफलभारलक्ष्म्या
क्षुत्तापशान्तिजनकैकजगत्प्रसिद्ध ।
त्वत्तो मया कथमपीदमधो निरस्तम्-
एकं फलं शकुनिखण्डितमल्पमाप्तम् ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0