सुभाषितावलि · श्लोक 0766-0785
कृष्णं वपुर्वहतु चुम्बतु सत्फलानि
रम्येषु संचरतु चूतवनान्तरेषु ।
पुंस्कोकिलस्य चरितानि करोतु नाम
काकः किल ध्वनिविधौ ननु काक एव ॥
संप्राप्य कोकिलकुलैः कमनीयकान्तिः
कान्तस्वरैरपि बलात्खलु संनिकर्षम् ।
वैधुर्यभाजि हतवेधसि किं वराकः
काकः करोत्वनुकृतिं न ययौ यदेषाम् ॥
इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः
समन्तादाक्रान्ता विषविषमबाणप्रणयिभिः ।
तरोरस्य स्कन्धे गमय समयं कीर निभृतं
न वाणी कल्याणी तदिहमुखमुद्रैव शरणम् ॥
कअति मुखगृहीतं भुक्तशेषं पुरीषं
विलिखति चरणाग्रैर्देवतानां शिरांसि ।
व्रजति च हतमानः साधुमूर्धस्वशङ्कः
किमिव न कुरुते खं प्राप्य काको वराकः ॥
दौर्भाग्यं वचसां तनोर्मलिनता चेष्टास्वहो चापलं
शङ्कायास्तदुपज्ञतैव विदिता वृत्तिस्त्ववाच्यैव सा ।
इत्थं दृष्कृतशाखिनः फलमिव स्फीतं तथाप्यातुरः
काकः कोकिललाञ्छनच्छविरुचा कष्टं मुहुर्मूर्छति ॥
नृत्यन्तः शिखिनो मनोहरममी श्रव्यं पठन्तः शुका
वीक्ष्यन्ते न त एव खल्विह रुषा वार्यन्त एवाथवा ।
पान्थस्त्रीगृहमिष्टलाभकथनाल्लब्धान्वयेनामुना
संप्रत्येतदनर्गलं बलिभुजा मायाविना भुज्यते ॥
रे रे ध्वाङ्क्ष विरूक्षतास्तु वचसः काणाक्षिता क्षम्यते
लौल्यं नाम तवेति कात्र गणना भाण्ड्यं विभूषैव ते ।
सर्वं सोढमिदं स्वभावविहितं वह्नेरिवौष्ण्यं हि ते
यत्त्वेवं विगुणस्य कापि भवतो ग्रीवा न तत्सह्यते ॥
काकः कोकिलमुन्नमय्य कुरुते चूते फलास्वादनं
भुङ्क्ते राजशुकं निवार्य कुररः क्रीडापरो दाडिमम् ।
धूको बर्हिणमस्य शाखिशिखरे शेते सजानिः सुखं
हा जातं विपरीतमद्य विपिने श्येने परोक्षं गते ॥
किं केकीव शिखण्डमण्डिततनुः किं कीरवत्पाठकः
किं पुंस्कोकिलवत्स्वनेन मधुरः किं हंसवत्सद्गतिः ।
किं सामान्यशकुन्तशावक इव क्रीडाविनोदाकरः
काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥
उत्पत्तिर्मरुतां प्रभोर्युगदिने प्रख्याप्यविश्वोत्सवे
पुण्याहश्रुतिषु प्रसिद्धिरधिका पूर्णं वयः पौरुषम् ।
काकुत्स्थेन समं सपत्नकलहो दैवज्ञता तादृशी
काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥
आद्यः प्रवेशसमयः स कलेर्युगस्य
प्राप्तस्तिरस्कृतबहूदकहंससार्थः ।
आहूये सादरतया तपसोन्तिमोह्नि
काणो द्विजः प्रतिगृहं बत यत्र पूज्यः ॥
सूर्य्दन्यत्र यच्चन्द्रेप्यर्थसंस्पर्शि तत्कृतम् ।
खद्योत इति कीटस्य नाम तुष्टेन केनचित् ॥
घनसंतमसमलीमसदशदिशि निशि यद्विराजसि तदन्यत् ।
कीटमणे दिनमधुना तराणिकरान्तरितचारुसितकिरणम् ॥
जर्जरतृणाग्रमदहन्सर्षपकणमप्रकायन्नूनम् ।
कीटत्वमात्मतन्त्रः खद्योतः ख्यापयन्भाति ॥
भ्राजिष्णवो नभसि भूरिहृतान्धकार-
स्वल्पप्रभाः स्वतनुमात्रनिबद्धभासः ।
खद्योतकाः प्रकटतीव्रगुरुप्रभावास्-
तावन्न सप्ततुरगः समुदेति यावत् ॥
युष्मादृशः कृपणकाः क्रिमयोपि यस्यां
भान्ति स्म संतमसमय्यगमन्निशासौ ।
सूर्यांशुदीप्रदशदिग्दिवसोधुनायं
भात्यत्र नेन्दुरपि कीटमणे किमु त्वम् ॥
इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः
स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः ।
अन्धं समग्रमपि कीटमणे भविष्य-
दुन्मेषमेष्यति भवानिति दूरमेतत् ॥
सत्त्वान्तः स्फुरिताय वा कृतगुणाद्यारोपतुच्छाय वा
तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् ।
यच्छायास्फुरणारुणेन खचता खद्योतनाम्नामुना
कीटेनाहितयापि जङ्गममणिभ्रान्त्या विडम्ब्यामहे ॥
प्रत्यग्रैः पर्णनिचयैस्तरुर्यैरेव शोभितः ।
जहाति जीर्णांस्तानेव किं वा चित्रं कुजन्मनः ॥
यथापल्लवपुष्पाढ्या यथापुष्पफलर्द्धयः ।
यथाफलर्द्धिस्वारोहा हा मातः क्वागमन्द्रुमाः ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0