भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0746-0765

0746

केनाघ्रातमुदारमस्य कुसुमं कैश्चुम्बितं केसरं
पीतः केन रसोस्य केन रजसा चोद्वेल्लितं केन वा ।
हे हे मुग्धमधुव्रत व्रज जवादन्यांस्तरून्पुष्पिता-
नुत्तालेत्र वृथैव पिप्पलतरौ किं किंचिदासाद्यते ॥

0747

प्रत्यग्रोत्र यथासुखं मधुरसः पातव्य इत्युत्सुकस्-
तृष्णाविभ्रमविप्रलब्धह्र्दयस्तत्त्वावबोधं विना ।
निर्विण्णोप्यफलश्रमो न विरमत्यालेख्यपद्माकरे
दुर्बुद्धिर्व्यसनी तथापि मधुपस्तृष्णाशयोद्भ्राम्यति ॥

0748

यस्याः संगमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला
यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृतिम् ।
भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते
धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥

0749

येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कधवला पद्मोदरे शारदे ।
भ्रान्तं येन मदप्रवाहमलिने गुण्डस्थले दन्तिनां
सोयं भृङ्गयुवा करीरविटपे बध्नातु तुष्टिं कुतः ॥

0750

मा भून्नाम सहामुनैव निधनं दैवात्कथंचित्पुनस्-
तृष्णा वा हतजीविते यदि तदा किं पुष्पशून्यं जगत् ।
येनैवोन्मथितः स एव दयितः पद्माकरो निर्दयं
दानाम्भःस्पृहयानुयात्यलिरहो लोलस्तमेव द्विपम् ॥

0751

सोपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा ।
सर्वं निश्चितवानसि भ्रमर हे यद्वारणोद्याप्यसा-
वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥

0752

रे रे भृङ्ग मदान्धवारणचलत्कर्णानिलान्दोलन-
क्लेशक्लान्ततनो मुधैव भवता दुःखं किमित्यास्यते ।
उत्कूजत्समदद्विरेफवलयप्यालुप्तकोशश्रियः
सामोदाः प्रकटाशयाः प्रतिपदं सन्त्येव पद्माकराः ॥

0753

गन्धाढ्यां नवमालिकां मधुकरस्त्यक्त्वा गतो यूथिकां
तां त्यक्त्वापि गतः स चन्दनतरुं तस्मात्सरोजं गतः ।
बद्धस्तत्र निशाकरेण सुचिरं क्रन्दत्यसौ मन्दधीः
संतोषेण विना पराभवशतं प्राप्नोति लुब्धो जनः ॥

0754

रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पद्मिनी च ।
एवं विचिन्तयति कोषगते द्विरेफे
हा हन्त हन्त नलिनीं गज उन्ममाथ ॥

0755

भ्रमन्वनान्ते वनमञ्जरीषु
न षट्पदो गन्धफलीमजिघ्रत् ।
सा किं न रम्या स च किं न रन्ता
बलीयसी केवलमीश्वरेच्छा ॥

0756

अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं
मत्स्यः श्रीपरिरम्भनिर्भरतरव्याकोशकोषोन्मुखैः ।
आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर्-
दूरादेव निमेषशून्यनयनः पद्मं समुद्वीक्षते ॥

0757

जीवतो निगिरन्मत्स्यान्मुनिवद्दृश्यते बकः ।
मृनानपि न गृध्रस्तु धिगाकारमुनीन्द्रताम् ॥

0758

नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवम् ।
जनयति कुमुदभ्रान्तिं वृद्धबको बालमत्स्यानाम् ॥

0759

एष बकः सहसैव विपन्नः
शाद्यमहो क्व नु तद्गतमस्य ।
साधु कृतान्तक कश्चिदपि त्वां
वञ्चयितुम् न कुतोपि समर्थः ॥

0760

निजकुलोचितचेष्टितमात्मनो
यदपहाय यियाससि हंसताम् ।
बक चर व्रतमेव तथापि ते
फलति तत्तदिदं यततां नृणाम् ॥

0761

न कोलिलानामिव मञ्चु कूजितं
न कब्धलास्यानि गतानि हंसवत् ।
न बर्हिणानामिव चित्रपक्षता
गुणस्तथाप्यस्ति बके बकव्रतम् ॥

0762

तद्वेदग्ध्यं समुदितपयस्तोयतत्त्वं विवेक्तु-
मालापास्ते स च मृदुपदन्यासहृद्यो विलासः ।
आस्तां तावद्बक यदि तथा वेत्सि किंचिदिच्छ्लथाशं
तूष्णीमेवासितुमयि सखे त्वं कथं मे न हंसः ॥

0763

कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसात्-
किं तत्रास्ति सुवर्णपङ्कजवनान्यम्भः सुधासंनिभम् ।
मुक्ताशुक्तिरथास्ति शङ्खनिचयो वैदूर्यरोहाः क्वचिच्-
छम्बूकाः किमु सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ॥

0764

तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः ।
केन विज्ञायते काकः स्वयं यदि न भाषते ॥

0765

आत्मरुतादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः ।
किं जानन्ति वराकाः काकाः केकारवान्कर्तुम् ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc