भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0726-0745

0726

मदनमवलोक्य निष्फलमनित्यतामपि च बन्धुजीवानाम् ।
गुरुमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥

0727

भ्रमर भ्रमता दिगन्तराणि
क्वचिदासादितमीक्षितं श्रुतं वा ।
वद सत्यमपास्य पक्षपातं
यदि जातीकुसुमानुकारि पुष्पम् ॥

0728

कमलं भवनं रजोङ्गरागो
मधु पानं मधुराः प्रियाप्रलापाः ।
शयनं मृदु केसरोपधानं
भ्रमरस्याम्भसि का न राजलीला ॥

0729

पतितमुत्पतितं स्थितमक्रियं
सकरुणं क्वणितं गतमागतम् ।
कमलिनीमलिना तुहिनाहतां
नहि तदस्ति विलोक्य न यत्कृतम् ॥

0730

कमलिनीमलिनी दयितं विना
न सहते सह तेन निषेविताम् ।
तमधुना मधुना निहितं हृदि
स्मरति सा रतिसारमहर्निशम् ॥

0731

मदं न लिप्सेत शिलीमुखो यदि
द्विपान्न कर्णाग्रनिपातमाप्नुयात् ।
परोपसर्पी सुखलेशलिप्सया
नरो भवत्येव पराभवास्पदम् ॥

0732

मधुकर बहुशस्त्वया निरस्ताः
कुसुमलतास्तृणावत्सुपुष्पिताग्राः ।
फलमनुभव कण्टकावृताभ्यस्-
तदिदमपत्रप केतकीलताभ्यः ॥

0733

पुल्लेषु यः कमलिनीकमलोदरेषु
चूतेषु यो विलसितः कलिकान्तरस्थः ।
पश्याद्य तस्य मधुपस्य शरद्व्यपाये
कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥

0734

पुष्पासवं सुरभि गन्धिरजोङ्गरागः
पीत्वा लतासु मधुपः कमले निषण्णः ।
बद्धोधुना शशिकरैः करुणं विरौति
संतोषहीनमिह कं न भजन्त्यनर्थाः ॥

0735

अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु ।
नुग्धाननामरजसं कलिकामकाले
बालां कदर्थयसि किं नवमालिकायाः ॥

0736

एरावणाननमदाम्बुकणावपात-
संसक्ततामरसरेणुपिशङ्गिताङ्गः ।
चण्डानिलाहततुषारविशीर्णपक्षः
क्षीणः क्षितौ मधुकरो विवशोत्र शेते ॥

0737

सोत्कः परिभ्रमसि किं व्यवपातिधैर्यः
कूजन्द्विरेफ करुणं कुसुमासवार्थी ।
अन्यासु पादपलतासु धृतिं बधान
भग्ना हि सा कुसुमिता सहकारवल्ली ॥

0738

स्वामोदवासितसमग्रदिगन्तराला
रक्ता मनोहरमुखा सुकुमारमूर्तिः ।
सेव्या सरोजकलिका तु यदैव जाता
नीतस्तदैव विधिना मधुपोन्यदेशम् ॥

0739

जात्युज्ज्वले मधुरकोमलवाग्निलासौ
द्वौ पुष्करे मधुकरौ युगपत्प्रविष्टौ ।
एकस्तयोर्मधुभराकुलपूर्णदेहः
कष्टे विधौ न रजसापि युतो द्वितीयः ॥

0740

मधुकरगणश्चूतं त्यक्त्वा गतो नवमालिकां
पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।
तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं
परिचितगुणद्वेषी लोको नवं नवमीहते ॥

0741

लिखितकमले सौन्दर्येण प्रकामहृतात्मना
किमिव न कृतं तत्र भ्रान्त्वा मधुस्पृहयालिना ।
अधिगतरसः सोभूत्तस्मान्मनागपि नाल्पधीर्-
धुरि तु लिखितस्तृष्णान्धानां जनेन विवेकिना ॥

0742

भ्रमति बकुले मन्दं कुन्दे न विन्दति निर्वृतिं
प्रकृतिसुरभौ रक्ताशोके न याति विशोकताम् ।
सुरभिकुसुमामोदोत्कण्ठापनीतमना वने
वहति तनुतामङ्गे भृङ्गः स्मरन्नवमालिकाम् ॥

0743

स्पृशति शनकैश्चुम्बन्नङ्गैः करोति निपीडनं
चरणपतनं मुद्राभेदं विधातुमपीहते ।
समयमुचितं चित्तोत्सुक्यात्प्रतीक्षितुमक्षमो
मधुकरयुवा पुण्यैर्लब्ध्वा नवां नवमालिकाम् ॥

0744

हिमोत्सन्नां दृष्ट्वा हतकमलनालां कमलिनीं
द्विरेफाः संवृत्ताः सपदि गजगण्डप्रणयिनः ।
अहो धिग्भूतानां प्रकृतिरियमप्रत्ययकरी
न कश्चित्क्षीणार्थे प्रथमगुणगन्धं गणयति ॥

0745

किमामोदभ्रान्त्या भ्रमसि सुचिरं भृङ्ग ननु हे
न जानीषे तत्त्वं प्रतपतितरां ग्रीष्मसमयः ।
स्थितं शून्यं पुष्पैः प्रकटविटपं पश्य विपिनं
गतः गौरभ्याढ्यः प्रकृतिसुभगश्चैत्रविभवः ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc