सुभाषितावलि · श्लोक 0705-0725
अये वापीहंसा निजवसतिसंकोचपिशुनं
करुध्वं मा चेतो वियति बहतो वीक्ष्य विहगान् ।
अमी ते सारङ्गा भुवनमहनीयव्रतभृतो
निरीहाणामेषां तृणमिव भवन्त्यम्बुनिधयः ॥
तरौ तीरोद्भूते क्वचिदपि दलाच्छादिततनुः
पतद्धारासारां गमय विषमां प्रावृषमिमाम् ।
निवृत्तायां त्वस्यां सरसि सरसोत्फुल्लनलिने
स एव त्वं हंसः पुनरपि विलासास्त इह ते ॥
गतं तद्गाम्भीर्यं जलमपि वृतं जालकशतैः
सखे हंसोत्तिष्ठ प्रथमममुतो दग्धसरसः ।
स यावत्पङ्काम्भःकलुषितवपुर्भूरिविलपन्-
न काको वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥
स्पृशति न बिसं चञ्च्वा भूयस्तया सह खण्डितं
पिबति न जलं याति स्वप्तुं न शेवलजालकम् ।
कमलकलिकाभङ्गक्रीडां करोति न सारसः
क्वणति करुणं शोकग्रस्तः प्रियाविरहाकुलः ॥
सरसि बहुशस्ताराछायां दशन्परिवञ्चतः
कुमुद विटपान्वेषी हंसो निशास्वविचक्षणः ।
दशति न पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहकचकितो लोकः सत्येप्यपायमपेक्षते ॥
मुक्ताभानि पयांसि भङ्गविलसद्दुग्धा बिसग्रन्थयः
स्फीतास्तामरसासवा विहरणक्रीडासहं सैकतम् ।
सन्त्येव प्रतिदेशमत्रविषमे हे हंस पङ्काङ्किते
धृष्टोक्त्रुष्टबके जरत्सरसि ते कोयं निवासग्रहः ॥
आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर्-
भूयोपि प्रविभज्यमाननलिनं पश्येम तोयाशयम् ।
इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः
शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥
तावद्दोलितपङ्कजच्युतरजःपिङ्काङ्गरागोज्ज्वल्प्
यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षोत्सवः ।
कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेप्यक्षमः
सोयं संप्रति हंसको मरुगतः कष्टं तृणं वाञ्छति ॥
यां स्मृत्वा सहसैव मानससरस्त्यक्त्वा विशेषार्थिनस्-
तामेवोत्सुकचेतसः कमलिनीं दृष्ट्वा बकाध्यासिताम् ।
लीयन्ते विगताभिमानलघवस्तत्रैव भूयोपि ये
हंसास्ते न भवन्ति हंसधवलाः प्रायो बका एव ते ॥
यामालिङ्ग्य बका रटन्ति कटुकं दीर्घोच्छ्वसत्कंधरा
यस्यामंसतटावघट्टितजलं वल्गन्त्यमी मद्गवः ।
या शश्वन्मलिनात्मकैरपि बकैर्नक्तंदिनं सेव्यते
सा हंसेन मनस्विना कमलिनी युक्तं यदि त्यज्यते ॥
रूपं हारि मनोहरा सहचरी पानाय पाद्मं मधु
क्रीडा चाप्सु सरोरुहेषु वसतिस्तेषां रजो मण्डनम् ।
वृत्तिः साधुमता बिसेन सहृदश्चारुस्वनाः षट्पदाः
सेवादैन्यविमाननाविरहितो हंसः सुखं जीवति ॥
मत्स्या अपि हि जानन्ति क्षीरनीरविवेचनम् ।
प्रसिद्धं राजहंसानां यशः पुण्यैरवाप्यते ॥
क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयं
ये नोज्झन्ति पुरीषपुष्टवपुषस्तेकेचिदन्ये द्विजाः ॥
ये तु स्वर्गतरङ्गिणीबिसलतालेशेन संवर्धिता
गङ्गानीरमपि त्यजन्ति कलुषं ते राजहंसाः कुतः ॥
समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः ।
श्वभ्रेस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥
काकैः सह विवृद्धस्य कोकिलस्य कला गिरः ।
खलसङ्गेपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥
श्रोत्रोत्सवं तव कलं कलकण्ठ कोत्र
नादं शृणोति रतिविग्रहसंधिदूतम् ।
दावाग्निदग्धघनपादपकोटरान्त-
राविर्भवत्कटुरवासु वनस्थलीषु ॥
मूकीमूय तमेव कोकिल मधुं बन्धुं प्रतीक्षस्व हे
हेलोल्लासितमालतीपरिमलामोदानुकूलानिलम् ।
यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लसत्-
पांसूत्तम्भभृतो निदाघदिवसाः संतापसंधायिनः ॥
भ्रातः कोकिलकूजितैरलमलं नार्घन्ति यस्माद्गुणास्-
तूष्णीमाःस्व विशीर्णपर्णनिचयच्छन्नः क्वचित्कोटरे ।
उद्यानद्रुमवाटिकाकटुरटत्काकावलींसकुलः
कालोयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः ॥
क्वचिज्झिल्लीनादः क्वचिदतुलकाकोलकलहः
क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः ।
क्वचिद्धोरः फेरुध्वनिरयमहो दैवघटना
कथंकारं तारं क्वणतु चकितः कोकिलयुवा ॥
... ... ... ... ... ... ॥
केतकीकुसुमं भृङ्गः पीड्यमानोपि सेवते ।
दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः ॥
कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः ।
अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0