सुभाषितावलि · श्लोक 0685-0704
जलकणवितरणरहितः प्रकटितधवलितवेषः ।
चातक रटसि वृथा किं जलदः शारद एषः ॥
सन्ति कूपाः स्फुरद्रूपाः परितः सरितः शुभाः ।
तथापि चातकस्यैकः फलदो जलदोदयः ॥
केकानिभाद्धटयसे पटुचाटुकानि
चञ्चत्कलापमपि नृत्यसि रञ्जनाय ।
हे चातक प्रयतसे जलदं प्रतीत्थं
बिन्दुं जलस्य लभसे न च लज्जसे च ॥
वाहत्वमीश्वरसुतस्य विधाय बर्हिन्-
प्रम्लायितः स निजपक्षकलाप एव ।
नाराधितः स भवता पुरुषोत्तमः किं
यस्ते तृषं प्रशमयेत्कचमेघवर्षैः ॥
वसतोतिशयप्रीत्या मानसोचितसंस्थितेः ।
पल्वलाम्भसि हंसस्य हंसतैव विकल्प्यते ॥
पिबन्ति मधु पद्मेभ्यो भृङ्गाः केसरधूसराः ।
हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसम् ॥
यदि नाम दैवयोगाज्जगदसरोजं कदाचिदपि जातम् ।
अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः ॥
कटु रटति निकटर्वती वाचाटष्टिट्टिभः पटुर्यत्र ।
अपसरणमेव शरणं मौनं वा तत्र हंसस्य ॥
अस्तु यद्यपि सर्वत्र नीरं नीरजमण्डितम् ।
रमते न मरालस्य मानसं मानसं विना ॥
क्षुधितोपि पद्मखण्डे जहाति रजसावृतं हि किंजल्कम् ।
गुणिनि कृतपक्षपातो बिसं तु बहु मन्यते हंसः ॥
तरलयसि दृशं किमुत्सुका-
मकुलषमानसवासलालिते ।
अवतर कलहंसि वापिकां
पुनरपि यास्यसि पङ्कजालयम् ॥
भृङ्गाङ्गनाजनमनोहरहारिगीत-
राजीवरेणुक्रणकीर्णपशङ्गतोयाम् ।
रम्यां हिमाचलनदीं प्रविहाय हंस
हे हे हताश वद कां दिशमुत्सुकोसि ॥
हे हंस मेलितपयःसलिलं विवेक्तुं
शक्तस्य संप्रति मतिः क्व नु तेद्य याता ।
कासारवारिणि कलां पतितां यदिन्दो-
रादातुमिच्छसि बिसाङ्कुरवाञ्छया त्वम् ॥
शीतांशुशेखरशिरोरुहसंश्रितानि
पुण्यानि पावितजगन्ति मनोरमाणि ।
भ्रान्त्वा चिरं सुरसरित्सलिलानि दैवाल्-
लब्धानि हातुमिह वाञ्छसि नासि हंसः ॥
स्थित्वा चिरं नभसि निश्चलतारकेण
मातङ्गसङ्गकलुषां नलिनीं निरीक्ष्य ।
उत्पन्नमन्युपरिघर्घरनिःस्वनेन
हंसेन साश्रु परिवृत्य गतं न लीनम् ॥
येनोज्झितं सहचरीवदनोपनीतं
रम्यं मृणालशकलं हिमशङ्खशुभ्रम् ।
सोयं खगो हतविधे तव चेष्टितेन
शेवालनाललवलम्पटतां विधत्ते ॥
रटसि कटु किमुच्चैर्वायस स्पर्धया मे
विहगहतक विष्ठारक्तवक्त्रान्तरालः ।
विततधवलपक्षाक्षेपविक्षोभिताम्भाः
कमलवनविहारी सारसोहं न काकः ॥
हंसोध्वगः श्रममपोहयितुं दिनान्ते
कारण्डकाकबकभासवनं प्रविष्टः ।
मूकोयमित्युपहसन्ति लुनन्ति पक्षान्-
नीचाश्रयो हि महतामवमानभूमिः ॥
क्व कठिनमहो पीलोः पत्त्रं मृदुः क्व बिसाङ्कुरः
क्व कटु लवणं कौपं चाम्भः क्व तामरसासवः ।
क्व कुसुमरजो हृद्यं रूक्षाः क्व चोषरपांसवः
क्व मरुविषयो ध्वाङ्क्षक्षेत्रं क्व हंस भवादृशाः ॥
भो राजहंस किमिति त्वमिहागतोसि
योसौ बकः स इह हंस इति प्रतीतः ।
तद्गम्यतां त्वरितमेव ततः प्रभाते
यावद्वदन्ति बक एष न मूढलोकाः ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0