भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0664-0684

0664

करभ यदि कदाचित्प्रभ्रमन्दैवयोगान्-
मधुकरकुलतस्त्वं प्रापयेथा मधूनि ।
विरम विरम तेभ्यः सन्ति शष्पाण्यरण्ये
प्रथममुखरसास्ते शोषयन्त्येव पश्चात् ॥

0665

विकचकुमुदैः फुल्लाम्भोजैः सरोभिरलंकृतां
मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीम् ।
स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां
परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥

0666

करभदयिते यत्तत्पीतं सुदुर्लभमेकदा
मधु वनगतं तस्यालाभे विरौषि किमुत्सुका ।
कुरु परिचितैः पीलोः पत्त्रैर्धृतिं मरुगोचरे
जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥

0667

करभदयिते योसौ पीलुस्त्वया मधुलुब्धया
व्यपगतधनच्छायस्त्यक्तो न सादरमीक्षितः ।
चलकिसलयः सोपीदानीं प्ररूढनवाङ्कुरः
करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥

0668

करभ किमिदं दीर्घोच्छ्वासैः क्षिणोषि शरीरकं
विरम शठे हे कस्यात्यन्तं सखे सुखमागतम् ।
चर किसलयं स्वस्थः पीलोर्विमुञ्च मधुस्पृहां
पुनरपि भवान्कल्याणानां भविष्यति भाजनम् ॥

0669

करभ रभसात्क्रोष्टुं वाञ्छस्यहो श्रवणज्वरः
शरणमथवानृज्वी दीर्घा तवैव शिरोधरा ।
पृथुगलबिलावृत्तिश्रान्तोच्चरिष्यति वाङ्मुखा-
दियति समये को जानीते भविष्यति कस्य किम् ॥

0670

तथा संतुष्टः सञ्जलवृणशमीपीलुबदरैश्-
चरन्स्वस्थोरण्ये करभशिशुकः शोकरहितः ।
कृतो मध्वास्वादप्रवणहदयो मुग्धविधिना
यथा नान्यद्भुङ्क्ते न पिबति न शेते न रमते ॥

0671

यस्यासीन्नवपीलुपत्त्रबदरग्रासोपि संतुष्टये
दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि ।
सोयं संप्रति याति बालकरभः क्षीणोद्यमः क्षामतां
मन्ये नूनमनेन दैवहतकेनास्वादितं भ्रामरम् ॥

0672

पीलूनां हि फलं कषायरहितं रोमन्थयित्वा मरौ
शाखाग्रं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः ।
तत्स्मृत्वा करभेन खेदविधुरं दीर्घं तथा कूजितं
प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा ॥

0673

क्रमेलकं निन्दति कोमलेच्छुः
क्रमेलकः कण्टकलम्पटस्तम् ।
प्रीतौ तयोरिष्टभुजोः समायां
मध्यस्थता नैकतरोपहासः ॥

0674

एक एव खगो मानी वने वसति चातकः ।
पिपासितो वा म्रियते याचते वा पुरंदरम् ॥

0675

अयि चकितमुग्धचातक मरुभुवि धावसि मुधा किमुद्ग्रीवम् ।
ग्रीष्मे दवाग्निवलितस्तापिच्छोयं न विद्युत्वान् ॥

0676

पिपासुरप्येव जलं शिखण्डी
प्रतीक्षते प्राणसमां पिबन्तीम् ।
नूनं प्रियास्नेहनिबद्धदृष्टिः
स्वल्पं पयः पश्यति निम्नगासु ॥

0677

अत्युन्नतिव्यसनिनः शिरसोधुनैष
स्वस्यैव चातकशिशुः प्रणयं विधत्ताम् ।
अस्यैतदिच्छति नहि प्रततासु दिक्षु
ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥

0678

केकाः कला वनभुवस्तिलकायमानो
रम्यः कलापमहिमैष शिखण्डिनोस्य ।
दुर्लक्षणं ननु विहायसि वायसादि-
क्षुण्णेप्ययं चटकतुल्यगतिर्न जातः ॥

0679

नीलाब्जपुञ्जरजसारुणितान्विमुच्य
स्वच्छान्सुधाधिकरसानपि वारिराशीन् ।
यच्चातकः पिबति वारिधरोदबिन्दून्-
मन्ये तदानतिभयाच्छिरसोभिमानी ॥
दिव्याम्बुपाननियमस्तव मोहयेत्कं
दोषोपि संवृतिमतां भजते गुणत्वम् भूमिस्थमम्बु यदि चातक पातुमिच्छेः
कण्ठव्रणं प्रकटयेस्तदयोग्यतां च ॥
दिव्याम्बुपाननियमस्तव मोहयेत्कं
दोषोपि संवृतिमतां भजते गुणत्वम् ॥

0681

किं नैव सन्ति नवतामरसावतंसा
हंसावलीवलयिनो जलसन्निवेशाः ।
कोपि ग्रहो गुरुरयं बत चातकस्य
पौरंदरीं यदभिवाञ्छति वारिधाराम् ॥

0682

किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता
निन्द्याः पापतया स्वकुक्षिषु गताः किं नाम पक्षाः क्षयम् ।
रम्यं वा गगने न किं विहरणं किं तूग्रकाकावली-
पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः ॥

0683

नो ताण्डवेन नयनामृतनिर्झरेण
केकारवेण न च कर्णरसायनेन ।
बर्हेण चापि सुरचापरुचा तवाय-
मोतुर्न तुष्यति शिखिन्वधमन्तरेण ॥

0684

चातक तात कियद्भवता पातकमतुलमकारि ।
नवजलदादपि चञ्चुपुटे यत्तव न पतति वारि ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc