भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0644-0663

0644

हे गन्धकुञ्जर महागिरिकुञ्जराजि-
मद्यापि मा स्मर सलीलनिमीलिताक्षः ।
मुञ्चाभिमानमधुना भज वर्तमानं
वक्रं विधेरुपरि शासनमङ्कुशं च ॥

0645

स्वच्छस्वादुजला विहाय सरितो हर्तुं तृषं दुःसहां
मा मत्त द्विरदाक्षि निक्षिप शरत्कृष्टे तडागाम्बुनि ।
पीतेस्मिन्सकलेपि गच्छति न ते शान्तिं पिपासा जले
ग्रामस्यैकगतेरमुष्य नियतं स्याज्जीविते संशयः ॥

0646

दूर्वाकुरतृणाहारा धन्यास्तात वने मृगाः ।
विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥

0647

अमृता विगतप्राणा सान्तःशल्याकृतव्रणा ।
अबद्धा निश्चलेवास्ते कूटसंस्थे मृगे मृगी ॥

0648

रज्ज्वा दिशः प्रवितताः सलिलं विषेण
पाशैर्मही हुतभुजा ज्वलिता वनान्ताः ।
व्याधाः पदान्यनुसरन्ति गृहीतबाणाः
कं देशमाश्रयति यूथपतिर्मृगाणाम् ॥

0649

द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे
किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे ।
विदधति हतव्याधानां ते मनागपि नार्द्रतां
कठिनमनसामेषामेते विलोचनविभ्रमाः ॥

0650

स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरंस्-
तृषार्तः सारङ्गो विरमति न खिन्नेपि मनसि ।
अजानानस्तत्त्वं न स मृगयतेन्यत्र सरसी-
मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते ॥

0651

हे सारङ्ग तृणान्यशान सलिलैः प्राणान्पुषाणाथवा
यद्वा स्याः पवनाशनस्तदपि ते साविष्कृति प्राणितम् ।
येनेयं भवतोच्छ्वसत्कुवलयप्रस्तारचारुद्युतिर्-
दृष्टिर्वित्तमदोद्धताक्षिणि मुखे मूर्खस्य नायासिता ॥

0652

अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर्-
द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः ।
हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना
किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः ॥

0653

नैतास्ता मलय काननभुवः स्वच्छस्रवन्निर्झरास्-
तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।
रूक्षध्वाङ्क्षपरिग्रहो भरुरयं स्फारीभवद्भ्रान्तयस्-
ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥

0654

त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली
विस्रम्भस्थितिहेतवो न गणिता बन्धूपमाः पादपाः ।
बालापत्यवियोगदुःखविधुरा नापेक्षिता सा मृगी
मार्गन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी ॥

0655

छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां
पर्यस्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ।
व्याधानां शरगोचरादपि जवेनोत्प्लुत्य धावन्मृगः
कूपान्तः पतितः करोति विधुरे किं वा विधौ पौरुषम् ॥

0656

स्वैरी भ्राम्यसि नाथ काम्यसि परद्वाराणि नोत्ताम्यसि
नाद्यानामनिमित्तकोपकुटिलालापं मुखं पश्यसि ।
मुञ्चस्येकमपि क्षणं प्रकटितप्रेमां च न प्रेयसीं
हे सारङ्ग तवातिसुन्दरमिदं केनोपदिष्टं व्रतम् ॥

0657

स्वच्छन्दं हरिणेन या विहरता दैवात्समासादिता
भङ्गप्रस्रुतदुग्धबिन्दुबिसरा शालेर्नवा मञ्जरी ।
निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथस्-
तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति ॥

0658

सारङ्गो न लतागृहेषु रमते नो पंसुले भूतले
नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि ।
तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं
शैलेन्द्रोदरकंदरेषु गतधीः शृङ्गारिवेषः स्थितः ॥

0659

शृङ्गेणाङ्गं मृगाणां कषति परिचयप्राप्तये निःस्पृहाणां
मन्दस्वच्छन्दचारी परिहरति भयादालयं यूथपस्य ।
दृष्टस्तिष्ठत्यलक्ष्यो झगिति निपतितैस्तत्कुरङ्गीकटाक्षैः
सारङ्गो दुःखमास्ते विधुरविधिवशादन्ययूथप्रविष्टः ॥

0660

आदाय मांसमखिलं स्तनवर्जमङ्गान्-
मां मुञ्च वागुरिक याहि कुरु प्रसादम् ।
अद्यापि घासकवलग्रसनानभिज्ञो
मन्मार्गवीक्षणपरस्तनयो मदीयः ॥

0661

पुरो रेवा पारे गिरिरतिदुरारोहशिखरः
सरः सव्ये वामे दवदहनदाहव्यतिकरः ।
धनुष्पाणिः पश्चाच्छबरहतको धावतितरां
न यातुं न स्थातुं हरिणाशिशुरेष प्रभवति ॥

0662

क्व क्रीडति क्व चरति क्व करोति वृत्तिं
वारि क्व नाम पिबति स्वपिति क्व नाम ।
इत्थं मृगं निरपराधमबाधमानं
व्याधोनुधावति वधाय धनुर्दधानः ॥

0663

चन्द्रः सुधांशुरयमत्रिसुतो द्विजेशः
पुण्यैरवापि शरणाय मयेति तोषम् ।
मुग्धैणशाव भज मा त्यज पापमेनं
मीनं प्रभुज्य सहसा कृतमेषभोगम् ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc