सुभाषितावलि · श्लोक 0624-0643
उच्छृङ्खलेन निरपेक्षतयोन्मदेन
येनाकुलीकृतमिदं करिणा बभूव ।
दत्त्वा पदं शिरसि हस्तिपकार्भकेण
मन्दः कथं गमित एष वशं प्रसह्य ॥
विन्ध्याद्रिसानुतरुपुष्पपतत्पराग-
संपुञ्जपूजितकरः करियूथसेव्यः ।
योभूत्स एव नृनिदेशकरः करीन्द्रो
जातः कथं किमथवा प्रभुरत्र कालः ॥
अन्तःसमुत्थविरहानलतीव्रताप-
संतापिताङ्ग करिपुङ्गव मुञ्च शोकम् ।
धात्रा स्वहस्तलिखितानि ललाटपट्टे
को वाक्षराणि परिमार्जयितुं समर्थः ॥
भो भोः करीन्द्र दिवसानि कियन्ति तावद्-
अस्मिन्मरौ समतिवाहयकुत्रचित्त्वम् ।
रेवाजलैर्निजकरेणुकरप्रयुक्तैर्-
भूयः शमं गमयितासि निदाघकाले ॥
अस्मिञ्जडे जगति को नु बृहत्प्रमाण-
कर्णः करी ननु भवेद्दुरितस्य पात्रम् ।
इत्यागतं तमपि योलिनमुन्ममाथ
मातङ्ग एव किमतः परमुच्यतेसौ ॥
न गृह्णाति ग्रासं नवकमलकिंजल्किनि जले
न पङ्कैराह्लादं व्रजति बिसभङ्गार्धशकलैः ।
ललन्तीं प्रेमार्द्रामपि विषहते नान्यकरिणीं
स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥
लतान्तान्नादत्ते शशिशकलशीतं न च जलं
भ्रमद्भृङ्गासङ्गाः परिहरति कान्ताः कमलिनीः ।
दधद्भाराकारं करमपि करी जातविरहो
वितन्वन्नुच्छ्वासान्क्षणमपि वतान्ते न रमते ॥
नदीवप्रान्भित्त्वा किसलयवदुत्पाट्य च तरून्-
मदोन्मत्ताञ्जित्वा करचरणदन्तैः प्रतिगजान् ।
जरां प्राप्यानार्यां तरुणजनविद्वेषजननीं
स एवायं नागः सहति कलभेभ्यः परिभवम् ॥
वरमियमङ्कुशक्षतिरलक्षितमापतिता
विनयविधित्सया शिरसि ते गजयूथपते ।
न पुनरपश्चिमा करजवज्रशिखाभिहतिः
प्रसभसमुत्थितस्य निशिता वनकेसरिणः ॥
स्वाधीनां प्रविहाय शैलकटकप्रान्ते करेण वने
यत्ते नागरिकाजने निपतितं सद्भावशून्ये मनः ।
तस्यैतद्दृढरज्जुबन्धनवधव्यापारखेदात्मकं
हे मत्तद्विपु कर्मणः परिणतं रागानुरूपं फलम् ॥
क्वाकारो गिरिसन्निभः क्व च गतिर्वेगेन लीला च सा
हेलाकुड्मलितेक्षणाः क्व नु दृशस्तद्वा क्व ते बृंहितम् ।
वप्राघातरसः क्व ते क्व च करः कष्टं यदेवंविधं
त्वामारुह्य शिशुः पदा परवशं संचारयत्याज्ञया ॥
पादाघातविघूर्णिता वसुमती त्रासालसाः पक्षिणः
पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः ।
प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं
तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥
पुण्ड्रेक्षूनपि भक्षयन्घृतभृतो मांसौदनादीनपि
प्रावृण्वन्विविधाः कुथा अपि वहन्नक्षत्रमाला अपि ।
कर्णे चामरमालिकामपि दधद्दन्ती तथापि स्मर-
न्वैन्ध्यीनां घनसल्लकीवनभुवामास्ते सदा दुःखितः ॥
नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवो
पीतं येन सरोजपत्त्रपुटके होमावशेषं पयम् ।
तं दृष्ट्वा मदमन्थरालिवलयव्यालुप्रगण्डं गजं
सोत्कण्ठं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥
दन्ते न्यस्य करं प्रलम्बितशिराः संमील्य नेत्रद्वयं
किं त्वं वारण तप्यसे गणिकया को नाम नो वञ्चितः ।
ग्रासं शान्तमना गृहाण सततं शोकोधुना त्यज्यतां
ये मत्ता अविवेकिनश्चलधियस्ते प्राप्नुवन्त्यापदम् ॥
पत्युर्यत्कवलावशेषपतितग्रासेन वृत्तिः कृता
पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः ।
प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं
यद्बन्धार्पणकातरस्य करिणः क्लिष्टं न दृष्टं मुखम् ॥
घासग्रासं गृहाण त्यज गजकलभ प्रेमबन्धं करिण्याः
पाशग्रन्थिव्रणानामभिमतमधुना देहि पङ्कानुलेपम् ।
दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तरम्या
रेवाकुलोपकण्टद्रुमकुसुमरजो धूसरा विन्ध्यपादाः ॥
लाङ्गूलचालनमधश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥
यद्विन्ध्यः शिखरी तदन्तरपि यत्पीलुप्रियः पिप्पलः
सोत्कण्ठा रभसागमादभिपतद्रेणुः करेणुश्च यत् ।
तत्किं भद्रतया स्मरत्यपि करी दैवं हि सर्वंकषं
तन्मृत्योरपि दुःसहं तु यदयं मन्दो धुरि स्थापितः ॥
मध्येविन्ध्यमुदूर्मिनार्मदनदीवातूलवातावली-
हेलोद्धूलितमल्लिकाकिसलयैर्यो वृद्धिमभ्यागतः ।
सोयं दैववशाद्वशाविरहितः शूत्कारकारी करी
निर्मज्जद्वजरज्जुपाशविवशः कष्टं किमाचेष्टाम् ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0