सुभाषितावलि · श्लोक 0604-0623
विश्वस्य स्थितये धनुर्धरतया गर्जन्तमुच्चैः पदे
मेघं दन्तिमदान्तदुर्ललितधीर्मा सिंह लालङ्घिषीः ।
अस्माद्वज्रविदारितक्षितिभृतो मा पाति वर्षोपलैर्-
झम्पालम्पटभावभाविपतनाच्चिन्त्योङ्गभङ्गः स्वयम् ॥
खरनखरनिखातोत्तुङ्गमातङ्गकुम्भ-
स्थलविगलितमुक्तालंकृतक्ष्मातलस्य ।
हरति हरिणवृन्दं किं हरेर्वैरमाजौ
मिलितमपि समन्तादेककार्येण कृत्स्नम् ॥
अनुकृतगण्डशैलमदमण्डितगण्डतट-
भ्रमदलिमण्डलीनिविडगुंगुमघोषजुषः ।
दलयति हेलयैव हरिरुग्रकरान्करिणस्-
त्रिजगति तेज एव गुरु नो विकृताकृतिता ॥
शैलश्रेणिगुहागृहेषु निवसञ्जीवन्निजाडम्बरैर्-
अव्याजोर्जितविक्रमो मृगपतिर्वीरेन्द्र मा कुप्यताम् ।
अस्मात्कुञ्जरकुम्भसंभववसापानैकहेवाकिनो
यल्लब्धं व्यसनाकुलेन मनसा स्वेनैव तच्चिन्त्यताम् ॥
कश्मीरान्गतुकामस्य मीरशाहाख्यभूपतेः ।
शाहाबुद्दीनभूमीन्द्रः प्राहिणोदिति लेखकम् ॥
किमेवमविशाङ्कितः शिशुकुरङ्ग लोलक्रमं
परिक्रमितुमीहसे विरम नैव शून्यं वनम् ।
स्थितोत्र गजय्ङ्थनाथमथनोच्छलच्छोणित-
च्छटापटलभासुरोत्कटसटाभरः केसरी ॥
कठोरनखराहतद्विरदकुम्भपीठस्थली-
लुठद्रुधिररञ्जितोल्ललितकेसरः केसरी ।
गभीररवकातरातुरतरातुरव्याहृतैः
पतन्हरिणकैः समं समरभूमिकां लज्जते ॥
चरत वृषभा जालीमांसं यथेच्छमभीरवः
पिबत नलिनीकच्छेष्वच्छं पुनर्महिषाः पयः ।
वहत करिणो भूयः शोभां मदेन कपोलयोर्-
असहनतया दूरीभूतो विधेर्त केसरी ॥
लब्धा डम्भरमम्बरे जलधरं गर्जन्तमालोक्य यद्-
दूरादुच्छलितोसि सिंह महतां तेनैव खिन्नं मनः ।
यत्त्वासारभयेन संप्रति दरीसांमुख्यमालम्बसे
तद्दृष्ट्वैव वयं ह्रिया किमपरं पातालमूलं गताः ॥
यस्यानेकमदान्धवारणघटाकुम्भस्थलीभेदन-
व्यापारैकविनोददुर्ललितया कालोगमल्लीलया ।
उद्गर्जज्जलभारवामनघनस्पर्धी स एवाधुना
सिंहः पञ्जरपातपुञ्जिततनुर्धत्ते दशामीदृशीम् ॥
क्षुत्क्षामेपि जराकृशोपि शिथिलप्राणोपि कष्टां दशा-
मापन्नोपि विपन्नधीधृतिरपि प्राणेषु नश्यत्स्वपि ।
दर्पाध्मातकरीन्द्रकुम्भदलनप्रेङ्खन्नखाग्राशनिः
किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥
नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घदीर्घः करः
सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धते ।
तेजोबीजमसह्यमस्य हृदये न्यस्तं पुरा वेधसा
तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते ॥
माद्यन्मातङ्गकुम्भस्थलबहलवसावासनाविस्रगन्ध-
व्यासङ्गव्यक्तमुक्ताफलशकललसत्केसरालीकरालः ।
व्याधीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्विधामा
विभ्यत्सारङ्गसार्थः सततमसहनः केसरी केन दृष्टः ॥
कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः
कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥
आ बाल्यादपि यो विदारितमदोन्मत्तेभकुम्भस्थली-
स्थालीमध्यकवोष्णरक्तरसवन्मुक्तापुलाकप्रियः ।
हस्तस्तस्य कथं प्रसर्पतु पुरः कृच्छ्रेप्यवस्थान्तरे
गर्तावर्तविवर्तमानशशकप्राणापहारे हरेः ॥
रक्ताक्तयन्नखरकोटिनिभादिभानां
यूथाः पलाशवनतोपि पलाय्य जग्मुः ।
सिंहस्य तस्य जरतो विषमा दशा यद्-
गोमायवैरवयवैरपि नास्ति वृत्तिः ॥
पर्जन्यं प्रति गर्जतः प्रतिनिधीन्विन्ध्यस्य वातोद्धता-
नम्भोधीनिव धावतः सरभसं हत्वा रणे वारणान् ।
वृक्षाद्वृक्षमुपेयुषोल्पवपुषः शाखामृगस्योपरि
क्रुद्धः सोपि भवानहो बत गतः पञ्चास्य हास्यां दशाम् ॥
हुंकारैः स्तनितानुकारचतुरैर्न्यक्कारमाकारित-
क्षौणीभृच्छिखरश्रियो गजघटा नीत्वा मदाटोपिनीः ।
सिंहः संहतभावतो दशदिशः क्लिश्यत्सु दुर्वाशितैर्-
गोमायुष्वपि विश्वविश्वविदितप्रौढिः किमुद्यच्छते ॥
करिकलभ विमुञ्च लोलतां
चर विनयव्रतमानताननः ।
मृगपतिनखकोटिभङ्गुरो
गुरुरुपरि क्षमते न तेङ्कुशः ॥
केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि
गाहस्य शैलतटनिर्झरिणीपयांसि ।
भावानुरक्तकरिणीकरलालिताङ्ग
मातङ्ग मुञ्च मृगराजरणाभिलाषम् ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0