भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0584-0603

0584

पतन्ति नैव मातङ्गकुम्भपाटनलम्पटाः ।
वल्गत्स्वपि कुरङ्गेषु मृगारेर्नखराः खराः ॥

0585

किं किर्मः क उपालभ्यो यत्रेदमसमञ्जसम् ।
काकिण्यपि न सिंहस्य मूल्यं कोटिस्तु दन्तिनः ॥

0586

लीलादलितधृष्टेभकुम्भपीठस्य निर्भयैः ।
कथं केसरिणः क्रान्तं सुप्तस्यापि मृगैः पदम् ॥

0587

मत्तेभकुम्भनिर्भेदरुधिरारुणपाणिना ।
हरिणा हरिणः स्पर्धां वराकः कुरुते कथम् ॥

0588

तावद्गर्जति मातङ्गो वने मदभरालसः ।
शिरोविलग्नलाङ्गूलो यावन्नायाति केसरी ॥

0589

शौर्यदर्पबलाध्मातश्वसद्गण्डान्तशोभिनः ।
सटामुत्पाट्य सिंहस्य किं नराः सुखमासते ॥

0590

कोपोदेकतलाघातनिपतन्मत्तदन्तिनः ।
हरेर्हरिणयुद्धेस्य कियान्व्याक्षेपविस्तरः ॥

0591

यावदस्थिषु संलग्नाः कराः केसरिणः क्षणम् ।
यूथस्य प्राणितं तावत्तदरण्यनिवासिनः ॥

0592

सग्र्वगर्जद्गजगण्डमण्डली-
विखण्डनोड्डामरविक्रमक्रमः ।
अनन्तविश्रान्तकुरङ्गसंगर-
प्रसङ्गमङ्गीकुरुते कथं हरिः ॥

0593

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥

0594

एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रेज्ञे ।
सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति ॥

0595

सिंहः करोति विक्रममलिझाङ्काराङ्किते करे करिणः ।
न पुनर्नखमुखविलिखितभूधरकुहरस्थिते नकुले ॥

0596

समदकरिकुम्भदारणमदपङ्कच्छुरितकेसरसटस्य ।
सिंहस्य क इव वक्त्रे करतलमाधातुमुत्सहते ॥

0597

निष्प्रग्रहेषु करिपोतशतेषु मोहाद्-
वल्गत्सु बालिशतया पुरतोप्यटत्सु ।
मत्तेभकुम्भदलनोचितचित्तवृत्तेः
सिंहस्य लोचननिमीलनमेव युक्तम् ॥

0598

दृष्ट्वैव रोषवशघूर्णितकेसरांस-
मायान्तमन्तकसमं पुरतो मृगारिम् ।
मांसं चिखादिषुभिरेत्य पतत्रिपूगैर्-
भ्रान्तं मदान्धगजयूथपमस्तकेषु ॥

0599

यः केसरी खरनखक्रकचोग्रपाणि-
निर्दारितेभवरकुम्भसमुद्भवेन ।
नव्येन शोणितचयेन निरस्ततृष्णो
नित्यं बभूव धिगहोद्य तृणेन सोर्थी ॥

0600

विस्रं वपुः परवधप्रवणा च बुद्धिस्-
तिर्यक्तयैव कथितः सदसद्विवेकः ।
इत्थं न किंचिदपि साधु मृगाधिपस्य
तेजस्तु तत्स्फुरति येन जगद्वराकम् ॥

0601

सिंहोस्तु शत्रुरथवाधिपतिर्मृगाणां
शंसास्पदं तदपि न द्वयमेव मन्ये ।
तस्य स्फुरत्करजवज्रशिरोभिघात-
हेलानिपातितमतङ्गजजङ्गमाद्रेः ॥

0602

प्रेङ्खन्मयूखनखपातशिखानिखात-
विख्यातवारणगणस्य हरेर्गुहायाम् ।
क्रोष्टा निकृष्टसरमासुतदृष्टिनष्ट-
धार्ष्ट्यो निविष्ट इति कष्टमिहाद्य दृष्टम् ॥

0603

मत्तेभकुम्भदलनाकुललोलवल्ग-
दन्तः क्वणत्करजवज्रशिखाभिघातः ।
किं केसरी जगति माननिधिस्तृणेन
प्राणात्ययेपि कुरुते स्वशरीरयात्राम् ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc