सुभाषितावलि · श्लोक 0564-0583
आ सर्गात्प्रतिवासरं रसशतैर्या बोधिता पोषिता
कल्पान्तावसरेथ सैव पृथिवी स्वैरेव दग्धा करैः ।
कृत्वेत्थं किमपि स्वकर्म नियतेः पूर्वापरोपप्लुतं
कष्टं सोपि दिनान्तवीतकिरणस्तिग्मांशुरस्तं गतः ॥
येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जगच्-
चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा ।
तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो
यद्बध्नाति धृतिं शशाङ्कशकलालोकेथ दीपेथवा ॥
शोच्यस्तावदुमापतिः प्रभुतया यो मूर्ध्नि गङ्गोक्षिते
सच्छिद्रं नृशिरःकपालममलं चन्द्रं च धत्ते समम् ।
चन्द्रः शोच्यतरस्ततः परिभवेप्येवंविधे यः सति
ज्योत्स्नाहासविकासपाण्डुरवपुर्मुख्यां मुदं पुष्यति ॥
पूर्णं वीचिभुजैः स्ववृद्धिरभसादिन्न्दुं समालिङ्गति
क्षीणं दूरत एव मुञ्चति पिता भूत्वा जलानां निधिः ।
प्रक्षीणस्य तु येन तस्य वसुना कृत्वा क्रमेणोदयं
पूर्णत्वे च दवीयसि स्थितमहो मित्राय तस्मै नमः ॥
ध्वान्तेन ग्रथितैर्ग्रहक्षितिपतेर्देवस्य दूरस्थितेः
सच्चक्रप्रमदावहाभ्युदितता कैर्नाम नाकाङ्क्षिता ।
एतेनाभ्युदितेन संप्रति पुनः कष्टं तथा चेष्टितं
लोकस्तीक्ष्णकरोयमित्यभिमुखं नैनं यथा प्रेक्षते ॥
दृष्टैव यं करसहस्रहृतान्धकारं
भीत्यापयान्त्यनुदिनं शतशः पिशाचाः ।
क्षीणे विधौ हरिविलूनकरोति चित्रं
गृह्णाति तं द्युमणिमभ्रपिशाच एकः ॥
तमोग्रस्तं जगत्सर्वं त्रातुं भानुः सदोद्यतः ।
तं तु त्रातुं तमोग्रस्तं जगत्येकोपि न क्षमः ॥
रात्रौ गुणनिधेः पद्मात्कुमुदं यदनक्षरम् ।
प्राप्ता लक्ष्मीः स महिमा राज्ञो जडनिधेर्ध्रुवम् ॥
आभाति चन्द्ररहिता न कदापि रात्रिश्-
चन्द्रोपि रात्रिरहितो गतकान्तिरेव ।
किं कारणं यदनयोः प्रतिमासमेको
जातो निस्तरतया परिरम्भयोगः ॥
गगनशयनलीनां रात्रिमुत्सृज्य चन्द्रो
व्रजति धवलपक्षे कृष्णपक्षे तु रात्रिः ।
अपसरति यदीन्दोर्व्योमतल्पे प्रसुप्तात्-
त्रुटति तदनयोः किं तावता दम्पतित्वम् ॥
आशाः प्रकाशयति यस्तिमिराणि भङ्क्त्वा
बोधं दृशां दिशति भूरिगुणेष्वभीष्टः ।
खेदाय यस्य न परोपकृतिष्वटाट्या
धीमान्नमस्यति न कस्तमिनं प्रशस्यम् ॥
विचारस्तथ्यो वा भवतु वितथो वा किमपरं
तथाप्युच्चैर्धाम्नो भवति बहुजल्पो जनरवः ।
तुलोत्तीर्णस्यापि प्रथितमहिमध्वस्ततमसो
रवेस्तादृक्तेजो न भवति हि कन्यां गत इति ॥
उडुगणपरिवारो नायकोप्योषधीनाम्-
अमृतमयशरीरः कान्तियुक्तोपि चन्द्रः ।
भवति विगतरश्मिर्मण्डलं प्राप्य भानोः
परसदननिविष्टः को लघुत्वं न याति ॥
उच्चः सत्फलदो यथायमहमप्येतादृगेतावता
स्पर्धां मन्द मदोद्धतः स्वजनकेनार्केण मा मा कृथाः ।
दूरादेव भवादृशोस्य महसा ध्वस्ताः समस्ताः स्वयं
नैवेच्छत्ययमत्ययं गुणिसखः कस्यापि तेजोनिधिः ॥
तुल्या सुखस्थितिरमुष्य ममेति राज्ञि
स्पर्धां निजेपि जनके जनकेलिहेतौ ।
मा राजनन्दन कृथाः स हि सर्वलोक-
ध्वान्तान्तकृद्गिरिशहस्तपवित्रितात्मा ॥
मात्सर्येण जहद्ग्रहान्विसदृशे धूमध्वजे योग्यतां
ज्ञात्वा स्वां विदधत्त्विषं दिनपतिर्हास्यप्रशान्त्युन्मुखः ।
दैवं वेत्ति न यः शिखी स परतो नामास्तु तत्संभवाः
स्युर्दीपा अपि यद्वशेन जगतां तिग्मांशुविस्मारकाः ॥
पाद्मा ये मदनुव्रता दधति ते क्लान्तिं तुषाराहता
येप्येते दिवसा मदेकशरणाः कार्श्यं परं यान्ति ते ।
गच्छन्नित्थमसौ समाश्रितजनप्रीत्येव दूरां दिशं
हेमन्ते भगवानहर्पतिरहो लोके गतः सेव्यताम् ॥
नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥
एकोहमसहायोहं कृशोहमपरिच्छदः ।
स्वप्नेप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥
मत्तेभकुम्भनिर्भेदकठोरनखराशनिः ।
मृगारिरिति नाम्नैव लघुत्वं याति केसरी ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0