सुभाषितावलि · श्लोक 0542-0563
शूराश्च कृतविद्याश्च रूपवत्यश्च योषितः ।
यत्र यत्र गमिष्यन्ति तत्र तत्र कृतालयाः ॥
रुद्रोद्रिं जलधिं हरिर्दिविषदो दूरं विहायः श्रिता
भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिताः ।
लीना पद्मवने सरोजनिलया मन्येर्थिसार्थाद्भिया
दीनोद्धारपरायणाः कलियुगे सत्पूरुषाः केवलम् ॥
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः सहस्रगुणितैरपि हन्यमानाः
प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥
प्रसरद्भिः करैर्यस्य विकसन्ति न सद्गुणाः ।
तस्य दोषाकरस्येयं कथं नित्यास्ति पूर्णता ॥
क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोतिदूरताम् ।
उपैति मित्राद्यच्चन्द्रो युक्तं यन्मलिनः सदा ॥
कथं न लज्जितस्तादृक्सविता तेजसां निधिः ।
ब्रह्माण्डखण्डिकां प्राप्य कुर्वन्पादप्रसारिकाम् ॥
रवेरेवोदयः श्लाघ्यः कोन्येषामुदयग्रहः ।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥
किमनेन न पर्याप्तं कान्तत्वं शशलक्ष्मणा ।
सुसंतप्तापि नलिनी यद्विश्वासमुपागमत् ॥
करान्प्रसार्य रविणा दक्षिणाशाविलम्बिना ।
न केवलमनेनात्मा दिवसोपि लघूकृतः ॥
वर्तते येन पातङ्गिः षण्मासान्द्वौ च वत्सरौ ।
राशिः स एव चन्द्रस्य न याति दिवसत्रयम् ॥
शिरसा धार्यमाणोपि सोमः सोमेन शंभुना ।
तथापि कृशतां धत्ते कष्टः खलु पराश्रयः ॥ qस्व्0552-3 प. पाजकस्य
पततु वारिणि यातु दिगन्तरं
विशतु वह्निमथो व्रजतु क्षितिम् कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते ।
यो मीनराशिं भुक्त्वैव मेषं भोक्तुं समुद्यतः ॥
पततु वारिणि यातु दिगन्तरं
विशतु वह्निमथो व्रजतु क्षितिम् ।
रविरसावियतास्य गुणेषु का
सकललोकचमत्कृतिषु क्षतिः ॥
तत्तावदेव शशिनः स्फुरितं महीयो
यावन्नो तीक्ष्णरुचिमण्डलमभ्युपैति ।
अभ्युद्यते सकलधामनिधौ च तस्मिन्-
निन्दोः सिताभ्रशकलस्य च को विशेषः ॥
सद्वृत्तयः सदसदर्थविवेकिनो ये
ते पश्य कीदृशममुं समुदाहरन्ति ।
चौरासतीप्रभृतयो ब्रुवते यदस्य
तद्गृह्यते यदि कृतं तदहस्करेण ॥
एकैव सामृतमयी सुतरामनर्घा
काप्यस्त्यसौ शशधरस्य कला ययैव ।
आरोपितो गुणविदा परमेश्वरेण
चूडामणौ न गणितोस्य कलङ्कदोषः ॥
उद्यन्त्यमूनि सुबहूनि महामहांसि
चन्द्रोप्यलं भुवनमण्डलमण्डनाय ।
सूर्यादृते न तदुदेति न चास्तमेति
येनोदितेन दिनमस्तमितेन रात्रिः ॥
लोकानन्दाद्विरमति न यः क्षीयमाणोपि भूयः
स्वःस्थे तस्मिन्किल दिनमुखं नूतनं नाभविष्यत् ।
दैवं कीदृक्कथमपि यथा भर्तुमात्मानमेव
व्यग्रः कालं गमयति सखे सोप्ययं पश्य चन्द्रः ॥
क्षीणश्चन्द्रो विशाति तरणेर्मण्डलं मासि मासि
लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती ।
संपूर्णश्चेत्कथमपि तथा स्पर्धयोदेति भानोर्-
नो दौर्जन्याद्विरमति जडो नापि दैन्याद्व्यरंसीत् ॥
पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः
क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः ।
सोयं चन्द्रः पतति गगनादल्पशेषैर्मयूखैर्-
दूरारोहो भवति महतामप्युपभ्रंशनिष्ठः ॥ qस्व्0561-5 कलशकस्य
पातः पूष्णो भवति महते नोपतापाय यस्मात्-
कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये क्व तत्तेजस्तादृग्ज्वलनमहसो नाशपिशुनं
पराभूतिः क्वासौ विसदृशतराद्राहुशिरसः ।
विधेर्योगादेतत्समुचितमिदं तु व्यथयति
त्रपाहीनो मित्रात्तदपि गगने यद्विहरति ॥
पातः पूष्णो भवति महते नोपतापाय यस्मात्-
कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये ।
एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्-
तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोवकाशः ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0