सुभाषितावलि · श्लोक 0522-0541
धनबाहुल्यमहेतुः कोपि निसर्गेण मुक्तकरः ।
प्रावृषि कस्याम्बुमुचः संपत्तिः किमधिकाम्बुनिधेः ॥
उत्पादिता स्वयमियं यदि तत्तनूजा
तातेन वा यदि तदा भगिनी खलु श्रीः ।
यद्यन्यसंगमवती च तदा परस्त्री
तत्त्यागबद्धमनसः सुधियो भवन्ति ॥
द्रविणार्जनजः परिश्रमः
फलितोप्यस्य जनस्य नीरसः ।
द्रविणार्जनमात्मतुष्टये
परमावर्जयितुं गुणार्जनम् ॥
यः प्रशंसति नरो नरमन्यं
देवतासु वरदासु सतीषु ।
मुग्धधीर्धनलवस्पृहयालुस्-
तं नृशंसमहमाद्यमवैमि ॥
यथा शरीरं किल जीवितेन
विनाकृतं काष्ठमिवावभाति ।
तथैव लज्जीवितमप्यवैमि
लोकोत्तरेण स्फुरितेन शून्यम् ॥
सन्तोपि सन्तः क्व किरन्तु तेजः
क्व नोज्ज्वलन्तु क्व नु न प्रथन्ताम् ।
विधाय रुद्धा ननु वेधसैव
ब्रह्माण्डकोशे घटदीपकल्पाः ॥
कदर्थितस्यापि हि धैर्यवृत्तेर्-
न शक्यते सत्त्वगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्नेर्-
नाधः शिखा यान्ति कदाचिदेव ॥
जातश्च नाम न विनङ्क्ष्यन्ति चेत्ययुक्तम्-
उत्पाद एव नियमेव विनाशहेतुः ।
तुल्ये च नाम मरणव्यसनोपतापे
मृत्युर्वरं परहितावहिताशयस्य ॥
इयत्यप्येतस्मिन्निरवधिमहत्यध्वनि गुणास्-
त एवामी द्वित्रा जरठजरठा यान्ति गणनाम् ।
अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः
स्मयस्तब्धोयावत्कलयति समग्रं तृणमिदम् ॥
स्वचित्तपरिचिन्तयैव परितापमात्मन्यमी
न बिभ्रति मनास्विनो यदमुना न तावत्क्षतिः ।
अहर्निशमिहैव ये परमनोनुवृत्त्या पुनर्-
वहन्ति विजिगीषुतां किमिव तेनुकम्पास्पदम् ॥
विपुलहृदयैरन्यैः कैश्चिज्जगज्जनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥
अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैर्-
भुवस्तस्या लाभे क इव बहुमानः क्षितिभुजाम् ।
तदंशस्याप्यंशे तदवयवलेशेपि पतयो
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥
परेषां चेतांसि प्रतिदिवसमायास्य बहुधा
प्रसादं किं नेतुं विशासि हृदय क्लेशकलिलम् ।
प्रसन्ने त्वय्येव स्वयमुदितचिन्तामणिगुणे
विविक्तः संकल्पः किमभिलषितं पुष्यति न ते ॥
विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं
परिष्वक्तोप्यर्थैः परिभवपदं याति कृपणः ।
स्वभावेनोद्भूतां गुणसमुदयावाप्तिविपुलां
द्युतिं सैंहीं न श्वा धृतकनकमालोपि लभते ॥
भुज्यन्ते स्वगृहस्थिता इव सुखं यस्याथिभिः संपदः
पट्वी यस्य मतिस्तमःप्रहतये द्वावेव तौ प्राणितः ।
यस्त्वात्मंभरिरुन्नतेपि विभवे हीनश्च विद्वत्तया
तस्यालेख्यमणेरिवाकृतिधृतः सत्ताप्यसत्ता ननु ॥
आधाराय धरावकाशविधयेप्याकाशमालोकने
भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन ।
इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे
दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसाम् ॥
नित्यं या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते
पश्यन्ति स्पृहयालवो न रिपवो यां विक्रमासादिताम् ।
यस्याः साधुपरिक्षयेण सुहृदां नाशेन वा संभवो
नो संपद्विपदेव सा गुणवतां प्रीतिस्तया कीदृशी ॥
न्याय्यं मार्गमनुज्झतः सुकृतिनो दैवाद्भवन्त्यापदो
यास्ताः सन्तु बलेरिवादिपुरुषायोर्वीं स्वयं यच्छतः ।
शक्रस्येव जुगुप्सितैः सुबहुभिर्निन्द्यैर्भृशं कर्मभिर्-
देवानामुपरि प्रभुत्वमपि मे मा भूत्त्रपाकारणम् ॥
शय्या शाद्वलमासनं शुचिशिला सद्म द्रमाणामधः
शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः ।
इत्य्प्रार्थितसर्वलभ्यविभवे दोषोयमेको वने
दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥
अल्पीयसामेव हि जन्मभूमेस्-
त्यागः प्रमादो विदुषां न सोस्ति ।
स्थानादपेता मणयो व्रजन्ति
राज्ञां शिरः काकमुखानि भेकाः ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0