सुभाषितावलि · श्लोक 0502-0521
पृथ्वी पृथ्वी गुणा मान्याः सन्ति भूपा विवेकिनः ।
पराभवापदं यान्ति कस्मादुन्नतबुद्धयः ॥
अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् ।
अहो बत महत्कष्टं चक्षुष्मानपि याचते ॥
दारिद्र्यानलसंतापः शान्तः संतोषवारिणा ।
याचकाशाविघातान्तर्दाहं को नाम पश्यतु ॥
परिपूर्णगुणाभोगगरिमोद्नार एव सः ।
त्रिजगत्स्पृहणीयेस्मिन्न रुचिर्द्रविणेपि यत् ॥
विद्ययैव मदो येषां कार्पण्यं च धने सति ।
तेषां दैवाभिशप्तानां सलिलादग्निरुत्थितः ॥
किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या न वेश्येव सामान्या पथिकैरपि भुज्यते ॥
त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः ।
परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना ॥
कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥
नृणां धुरि स एवैको यः कश्चित्त्यागपाणिना ।
निर्मार्ष्टि प्रार्थनापांसुधूसरं मुखमर्थिनाम् ॥
आकारमात्रविज्ञानसंपादितमनोरथाः ।
धन्यास्ते ये न शृण्वन्ति दीनाः प्रणयिनां गिरः ॥
बुद्धिर्या सत्त्वरहिता स्त्रीत्वं तत्केवलं मतम् ।
सत्त्वं चानयसंपन्नं तत्पशुत्वं न पौरुषम् ॥
कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः ।
इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥
अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः ।
यदुपक्रियमाणोपि प्रीयते न विलीयते ॥
प्रत्युपकुर्वत्पूर्वं कृतोपकारमपि लज्जयति चेतः ।
यस्तु विहितोपकारादुपकारः सोधिको मृत्योः ॥
प्रत्युपकुर्वन्बह्वपि न भवति पूर्वोपकारिणा तुल्यः ।
एकोनुकरोति कृतं निष्कारणमेव कुरुतेन्यः ॥
जीवञ्जीवयति हि यो ज्ञातिजनं परिजनं च सुहृदश्च ।
तस्य सफला गृहश्रीर्धिगनुपजीव्यां धनसमृद्धिम् ॥
यच्छञ्जलमपि जलदो वल्लभतामेति सर्वलोकस्य ।
नित्यं प्रसारितकरः सवितामपि भवत्यचक्षुष्यः ॥
नाप्तं यत्केनचिदपि मनोरथा अपि यतो निवर्तन्ते ।
तद्यपि न लभ्यतेन्यन्मनस्विनः किमभिमानफलम् ॥
घटनं विघटनमथवा कार्याणां भवति विधिनियोगेन ।
उचितेनुचिते कर्मणि वृत्तिनिवृत्ती ममायत्ते ॥
कल्पस्थायि न जीवितमैश्चर्यं नाप्यते च यदभिमतम् ।
लोकस्तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0