सुभाषितावलि · श्लोक 0482-0501
उपभोगकातराणां पुरुषाणामर्थसंचयपराणाम् ।
कन्यारत्नमिव गृहे तिष्ठन्त्यर्थाः परस्यार्थे ॥
ते मूर्खतरा लोके येषां धनमस्ति नास्ति च त्यागः ।
केवलमर्जुनरक्षणवियोगदुःखान्यनुभवन्ति ॥
कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः ।
जलसंपदोम्बुराशेर्यान्ति लयं शश्वदौर्वाग्नौ ॥
प्राप्तानपि न लभन्ते भोगान्भोक्तुं स्वकर्मभिः कृपणाः ।
मुखरोगः किल भवति द्राक्षापाके बलिभुजां हि ॥
न निर्यियासन्ति कदर्यहस्ताद्-
धनानि पांसोरिव तैललेशाः ।
दैवात्कदाचिद्विनियोक्तुरेव
निर्गन्तुमिच्छन्त्यसुभिः सहैव ॥
संचितं क्रतुषु नोपयुज्यते
याचितं गुणवते न दीयत्ये ।
तत्कदर्यपरिरक्षितं धनं
चौरपार्थिवगृहेषु गच्छति ॥
वरममी तरवो वनगोचराः
शकुनिसार्थविलुप्तफलश्रियः ।
न तु धनाढ्यगृहाः कृपणाः फण-
निहितरत्नभुजंगमवृत्तयः ॥
सुसंवृतैर्जीवितवत्सुरक्षितैर्-
निजेपि देहे कृतयन्त्रणस्य च ।
तवानुमार्गं व्रजतो भवान्तरे
शठैर्धनैः पञ्चपदी न पूरिता ॥
अहो धनानां महती विदग्धता
सुखोषितानां कृपणस्य वेश्मनि ।
व्रजन्ति न त्यागदशां न भोग्यतां
परां च काञ्चित्प्रथयन्ति निर्वृतिम् ॥
न शान्तान्तस्तृष्णां धनलवणवारिव्यतिकरैः
क्षतच्छायः कायश्चिरविरसरूक्षाशनतया ।
अनिद्रा मन्दाग्निर्नृपसलिलचौरानलभयात्-
कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥
एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः
सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः ।
अप्येते सुमनोगिरां निशमनाद्बिभ्यत्यहो श्लाघया
धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति ॥
प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया
भीतः प्रत्युपकारकारणभयान्नाकृष्यते सेवया ।
मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते
कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति ॥
मत्वा सारं गुणानां शिरसि यदि शशी स्थापितो दैवयोगा-
दीशेन क्षीणबिम्बं सकलमुपचयं किं न नीतः क्षणेन ।
मिथ्यैवं ख्यापयन्तो गुणिनि सरलतां लोकभक्त्यर्थमुच्चैर्-
आढ्याः कुर्वन्ति वित्तव्ययचकितधियो मानमर्थेन शून्यम् ॥
ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुरितैर्नाब्धेः क्षुब्धता जातु जायते ॥
नाल्पीयसि निबध्नन्ति पदमुद्दामचेतसः ।
येषां भुवनलाभेपि निःसीमानो मनोरथाः ॥
पुंसामुन्नतचित्तानां सुखावहमिदं द्वयम् ।
सर्वसङ्गनिवृत्तिर्वा विभूतिर्वा सुविस्तरा ॥
अयं बन्धुः परो वेति गणना लघुचेतसाम् ।
पुंसामुदारचित्तानां वसुधैव कुटुम्बकम् ॥
जरामरणदौर्गत्यव्याधयस्तावदासताम् ।
जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥
परिवर्तिनि संसारे मृतः को वा न जायते ।
स जातो येन जातेन याति वंशः समुन्नतिम् ॥
अपि नाम स दृश्येत पुरुषातिशयो भुवि ।
गर्वोच्छूनमुखा येन धनिनो नावलोकिताः ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0