भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0462-0481

0462

कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्धोषितं
तन्नम्राङ्गतया वदन्ति करुणं यस्मात्रपावान्भवेत् ।
श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृ-
द्ये केचिन्ननु शाव्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः ॥

0463

भण्डस्ताण्डवमण्डपे चटुकथावीथीषु कन्थाकविर्-
गोष्ठश्व स्वगृहाङ्गणे शिखरिभूगर्ते खटाखुः स्फुटम् ।
पिण्डीशूरतया विटश्व पटुतां भूभृद्गृहे गाहते
गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते ॥

0464

जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं
शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि ।
तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे
तत्को नाम गुणो भवेद्गुणवतां यो दुर्जनैर्नाङ्कितः ॥

0465

आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी
बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः ।
भेकः पारं यियाऔर्भुजगमपि महाघस्मरस्याम्बुराशेः
प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा ॥

0466

अगुणकणो गुणोराशिर्द्वयमिह दैवात्खलमुखे पतितम् ।
प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः ॥

0467

शरणं किं प्रपन्नानि विषवन्मारयन्ति किम् ।
न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥

0468

कृपणेन समो दाता न भूतो न भविष्यति ।
अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥

0469

या विपत्तिर्धनापाये नवा भोगिवदान्ययोः ।
प्रज्ञापकर्षात्प्रागेव प्राप्ता हि कृपणेन सा ॥

0470

त्यागोपभोगशून्येन धनेन धनिनो यदि ।
भवामः किं न तेनैव धनेन धनिनो वयम् ॥

0471

गृहमध्यनिखातेन धनेन रमते यदि ।
स तु तेनानुसारेण रमते किं न मेरुणा ॥

0472

किंशुके किं शुकः कुर्यात्फलितेपि बुभुक्षितः ।
अदातरि समृद्धेपि किं कुर्युरुपजीविनः ॥

0473

दानोपभोगबन्ध्या या सुहृध्बिर्या न भुज्यते ।
पुंसां यदि हि सा लक्ष्मीरलक्ष्मीः कतम भवेत् ॥

0474

अतिसंचयकर्त् णां वित्तमन्यस्य कारणाम् ।
अन्यैः संचीयते यत्नादन्यैश्च मधु पीयते ॥

0475

यद्ददासि विशिष्टेभ्यो यदाश्नासि दिने दिने ।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥

0476

विडम्बनैव पुंसि श्रीः परप्रणयपांसुले ।
कान्तिं कामिह कुर्वीत कुणौ कटककल्पना ॥

0477

कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियाम् ।
दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः ॥

0478

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाशः ॥

0479

दानं भोगं च विना धनसत्तामात्रकेण चेद्धनिनः ।
वयमपि किमिति न धनिनिस्तिष्ठति नः काञ्चनो मेरुः ॥

0480

धनिनोप्यदानभोगा गण्यन्ते धुरि महादरिद्राणाम् ।
हन्ति न यतः पिपासामतः समुद्रोपि मरुरेव ॥

0481

अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः ।
कृपणजनसंनिकर्षं संप्राप्यार्थाः स्वपन्तीव ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc