भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0442-0461

0442

प्रायः स्वभावमलिनो महतां समीपे
टिष्ठन्खलः प्रकुरुतेर्थिजनोपघातम् ।
शीतार्दितैः सकललोकसुखावहोपि
धूमे स्थिते नहि सुखेन निषेव्यतोग्निः ॥

0443

धूमः पयोधरपदं कथमप्यवाप्य
वर्षाम्बुभिः शमयति ज्वलनस्य तेजः ।
दैवादवाप्य कलुषप्रकृतिर्महत्त्वं
प्रायः स्वबन्धुजनमेव तिरस्करोति ॥

0444

उल्लासिताखिलखलस्य विशृङ्खलस्य
प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः ।
दैवादवाप्तविभवस्य गुणद्विषोस्य
नीचस्य गोचरगतैः सुखमास्यते कैः ॥

0445

नाश्चर्यमेतदधुना हतदैवयोगा-
दुर्च्चैःस्थितिर्यदधमो न महानुभावः ।
रथ्याकलङ्कशतसंकरसंकुलोपि
पृष्ठे भवत्यवकरो न पुनर्निधानम् ॥

0446

प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्-
समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम् ।
भुजगमपि कोपितं शिरसि पुश्पवद्धारयेन्-
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥

0447

लभेत सिकतासु तैलमपि यत्नतः पीडयन्-
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
कदाचिदपि पर्यटच्छशविषाणमासादयेन्-
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥

0448

अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेब्जमवरोपितं सुचिरमूषरे वर्षितम् ।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतः
कृतान्धमुखमण्डना यदबुधो जनः सेचितः ॥

0449

वृथा दुग्धोनड्वान्स्तनभरनता गौरिति चिरं
परिष्वक्तः षण्ढो युवतिरित लावण्यसहिता ।
कृता वैदूर्याशा विकचकिरणे काचशकले
मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता ॥

0450

स्वपक्षच्छेदं वा समुचितफलभ्रंशमथवा
स्वमूर्तेर्भङ्गं वा पतनमशुचौ नाशमथवा ।
शरः प्राप्नोत्येतान्हृदयपथसंस्थोपि धनुष
ऋजोर्वक्राश्लेषाद्भवति खलु सुव्यक्तमशुभम् ॥

0451

गुणाणां सा शक्तिर्विपदमनुबध्नन्ति यदमी
प्रसन्नस्तद्वेधा मम यदि न तैर्योगमकरोत् ।
विषण्णं दौर्गत्यादिति गुणिनमालोक्य विगुणः
करोति स्वे गेहे ध्रुवमतिसमृद्ध्योत्सवमसौ ॥

0452

अवेक्ष्य स्वात्मानं विगुणमपरानिछ्हति तथा
फलत्येतन्नो चेद्विलपति न सन्तीह गुणिनः ।
निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततो-
प्यहो नीचे रम्या सगुणविजिगीषा विधिक्ता ॥

0453

यदि परगुणा न क्षम्यन्ते यतस्व तदर्जने
नहि परयशो निन्दाव्याजैरलं परिमार्जितुम् ।
विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथा
दिनकरकरान्पाणिच्छत्त्रैर्नुदच्छ्रममेष्यसि ॥

0454

प्रकृष्टे संपर्के भणिभुजगयोर्जन्मजनिते
मणिर्नाहेर्दोषान्भजति न च सर्पो मणिगुणान् ।
असाधुः साधुर्वा भवति ननु जात्यैव पुरुषो
नसङ्गाद्दौर्जन्यं न च सुजनता कस्यचिदपि ॥

0455

न विषममृतीकर्तुं शक्यं प्रयत्नशतैरपि
त्यजति कटुतां न स्वां निम्बः स्थितोपि पयोह्रदे ।
गुणपरिचितामार्यां वाणीं न जल्पति दुर्जनश्-
चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः ॥

0456

वरमहिमुखे क्रोधाविष्टे करौ विनिवेशितौ
विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने ।
गिरिवरतटान्मुक्तश्चात्मा वरं शतधा कृतो
न तु खलजनावाप्तैरर्थैः कृतं हितमात्मनः ॥

0457

वर्णस्थं गुरुलाघवं न गणथत्याशङ्कते न क्वचिद्-
रूपं नैव परीक्षते न पुरुषं वृत्तेषु वार्ता कुतः ।
कष्टं नायशसो विभेति महतो नैवापशब्दान्तरान्-
मृत्युर्मूर्खकविः खलः कुनृपतिश्चौरश्च तुल्यक्रियाः ॥

0458

सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिनेर्-
मींआंसाकृतमुन्ममाथ तरसा हस्ती मुनिं जैमिनिम् ।
छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम्-
अज्ञानाहतचेतसामतिरुषां कोर्थस्तिरश्चां गुणैः ॥

0459

वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवाञ्-
छूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् ।
गुह्यानि प्रकटिकरोति घटयन्यत्नेन वैराशयं
ब्रूते शीघ्रमवाच्यमुज्झति गुणान्गृह्णाति दोषान्खलः ॥

0460

हसति लसति हर्षात्तीव्रदुःखे परेषां
स्खलति गलति मोहादात्मनः क्लेशलेशे ।
नदति वदति निन्द्यं मानिनां किं च नीचः
परुषवचनमल्पं श्रावितो हन्तुमेति ॥

0461

यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि ।
अथासज्जगनोष्ठीषु पतिष्यसि पतिष्यसि ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc