भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0422-0441

0422

मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम् ।
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥

0423

प्रारम्भतोतिविपुलं भृशकृशमन्ते विभेदकृन्मलिनम् ।
महिषविषाणमिवानृजु पुरुषं भयदं खलप्रेम ॥

0424

पात्रमपात्रीकुरुते दहति गुणान्स्नेहमाशु नाशयति ।
अमले मलं प्रयच्छति दीपज्वालेव खलमैत्त्री ॥

0425

समर्पिताः कस्य न तेन दोषा
हठाद्गुणा वा न हृताः खलेन ।
तथापि दोषैर्न वियुज्यतेसौ
स्पृष्टोपि नैकेन गुणेन चित्रम् ॥

0426

आराध्यमानो बहुभिः प्रकारैर्-
नाराध्यते नाम किमत्र चित्रम् ।
अयं त्वपूर्वः प्रतिभाविशेषो
यत्सेव्यमानो रिपुतामुपैति ॥

0427

विद्वानुपालम्भमवाप्य दोषान्-
निवर्ततेसौ परितप्यते च ।
ज्ञातस्तु दोषो मम सर्वथेति
पापो जनः पापतरं करोति ॥

0428

एवमेव नहि जीव्यते खलात्-
तत्र का नृपतिवल्लभे कथा ।
पूर्वमेव हि सुदुःसहो नलः
किं पुनः प्रबलवायुनेरितः ॥

0429

अमरैरमृतं न पीतमब्धेर्-
न च हालाहलमुल्वणं हरेण ।
विधिना निहितं खलस्य वाचि
द्वयमेतद्बहिरेकमन्तरन्यत् ॥

0430

निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगसे प्रसीदति ।
अकारणद्वेषि मनो हि यस्य वै
कथं परस्तं परितोषयिष्यति ॥

0431

इतरदेव बहिर्मुखमुच्यते
हृदि तु यत्स्फुरतीतरदेव तत् ।
चरितमेतदधीरवितारकं
धुरि पयःप्रतिबिम्बमिवासताम् ॥

0432

क्व पिशुनस्य गतिः प्रतिहन्यते
दशति दृष्टमपि श्रुतमप्यसौ ।
अतिसुदुष्करमव्यतिरिक्तदृक्-
छ्रुतिभिरप्यथ दृष्टिविषैरिदम् ॥

0433

गजतुरगशतैः प्रयान्तु मूर्खा
धनरहिता विबुधाः प्रयान्तु पद्भ्याम् ।
गिरिशिखिरगतापि काकपाली
पुलिनगतैर्न समेति राजहंसैः ॥

0434

ह्रेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते ।
उत्कर्षयंश्च लघयति मूर्खसुहृत्सर्वथा वर्ज्यः ॥

0435

प्रकटमपि न संवृणोति दोषं
गुणलवलम्पट एष साधुवर्गः ।
अतिपरुषरुषं विनापि दोषैः
पिशुनशुनां रुषतां प्रयाति कालः ॥

0436

यदा विगृह्णाति तदा हतं यशः
करोति मैत्त्रीमथ दूषिता गुणाः ।
स्थितिं समीक्ष्योभयथा परीक्षकः
करोत्यवज्ञोपहतं पृथग्जनम् ॥

0437

इष्टो वा सुकृतशतोपलालितो वा
श्लिष्टो वा व्यसनशताभिरक्षितो वा ।
दौःशील्याज्जनयति नैव जात्वसाधुर्-
विस्रम्भं भुजग इवाङ्कमध्यसुप्तः ॥

0438

रूक्षं विरौति परिकुप्यति निर्निमित्तं
स्पर्शेन दूषयति वारयति प्रवेशम् ।
लज्जाकरं दशति नैव च तृप्यतीति
कौलेयकस्य च खलस्य च को विशेषः ॥

0439

पादाहतोथ दृढदण्डविघट्टितो वा
यं दंष्ट्रया दशति तं किल हन्ति सर्पः ।
कोप्यन्य एव पिशुनोद्य भुजंगधर्मा
कर्णे परं स्पृशति हन्त्यपरं समूलम् ॥

0440

युक्तं यया किल निरन्तरलब्धवृत्तेर्-
अस्याभिमानतमसः प्रसरं निरोद्धुम् ।
विद्वत्तया जगति तामवलम्ब्य केचित्-
तन्वन्त्यहंकृतिमहो शतशाखमान्ध्यम् ॥

0441

नन्वाश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा ।
प्रागर्णवस्य हृदये वृषलक्ष्मणोथ
कण्ठेधुना वससि वाचि पुनः खलानाम् ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc